अक्षर आकार:

श्रीरुद्रसहस्रनामावलिः

Shri Rudra Sahasranamavali

श्रीरुद्रसहस्रनामावलिः

न्यासः । अस्य श्रीरुद्रसहस्रनामस्तोत्रमहामन्त्रस्य । भगवान् महादेव ऋषिः । देवीगायत्रीछन्दः । सर्वसंहारकर्ता श्रीरुद्रो देवता । श्रींबीजम् । रुं शक्तिः । द्रं कीलकम् । श्रीरुद्र प्रसादसिद्धयर्थे जपे विनियोगः । ॐ अङ्गुष्ठाभ्यां नमः । नं तर्जनीभ्यां नमः । मं मध्यमाभ्यां नमः । भं अनामिकाभ्यां नमः । गं कनिष्ठिकाभ्यां नमः । वं करतलकरपृष्ठाभ्यां नमः । तें हृदयाय नमः । रुं शिरसे स्वाहा । द्रां शिखायै वषट् । यं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । श्रीं अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् । नेत्राणां द्विसहस्रकैः परिवृतमत्युग्रचर्माम्बरं हेमाभं गिरिशं सहस्रशिरसं आमुक्तकेशान्वितम् । घण्टामण्डितपादपद्मयुगलं नागेन्द्रकुम्भोपरि तिष्ठन्तं द्विसहस्रहस्तमनिशं ध्यायामि रुद्रं परम् ॥ पञ्चपूजा । लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान्समर्पयामि । अथ श्रीरुद्रसहस्रनामावलिः । ॐ ॐ नमो भगवते रुद्राय नमः । ॐ ऐं ह्रीं जपस्तुत्याय । ॐ पदवाचकाय । ॐकारकर्त्रे । ॐकारवेत्त्रे । ॐकारबोधकाय । ॐकारकन्दरासिंहाय । ॐकारज्ञानवारिधये । ॐकारकन्दाकुरिकाय । ॐकारवदनोज्ज्वलाय । ॐकारकाकुदाय । ॐकारपदवाचकाय । ॐकारकुण्डसप्तार्चये । ॐकारावालकल्पकाय । ॐकारकोकमिहिराय । ॐकारश्रीनिकेतनाय । ॐकारकण्ठः । ॐकारस्कन्धः । ॐकारदोर्युगाय । ॐकारचरणद्वन्द्वाय नमः । २० ॐ ॐकारमणिपादुकाय नमः । ॐकारचक्षुषे । ॐकारश्रुतये । ॐकारभ्रूर्युगाय । ॐकारजपसुप्रीताय । ॐकारैकपरायणाय । ॐकारदीर्घिकाहंसाय । ॐकारजपतारकाय । ॐकारपदतत्त्वार्थाय । ॐकाराम्भोधिचन्द्रमसे । ॐकारपीठमध्यस्थाय । ॐकारार्थप्रकाशकाय । ॐकारपूज्याय । ॐकारस्थिताय । ॐकारसुप्रभवे । ॐकारपृष्ठाय । ॐकारकटये । ॐकारमध्यमाय । ॐकारपेटकमणये । ॐकाराभरणोज्ज्वलाय नमः । ४० ॐ ॐकारपञ्जरशुकाय नमः । ॐकारार्णवमौक्तिकाय । ॐकारभद्रपीठस्थाय । ॐकारस्तुतविग्रहाय । ॐकारभानुकिरणाय । ॐकारकमलाकराय । ॐकारमणिदीपार्चये । ॐकारवृषवाहनाय । ॐकारमयसर्वाङ्गाय । ॐकारगिरिजापतये । ॐकारमाकन्दविकाय । ॐकारादर्शबिम्बिताय । ॐकारमूर्तिः । ॐकारनिधिः । ॐकारसन्निभाय । ॐकारमूर्दघ्ने । ॐकारफालाय । ॐकारनासिकाय । ॐकारमण्डपावासाय । ॐकाराङ्गणदीपकाय नमः । ६० ॐ ॐकारमौलि: नमः । ॐकारकेलिः । ॐकारवारिधये । ॐकारारण्यहरिणाय । ॐकारशशिशेखराय । ॐकाराराममन्दाराय । ॐकारब्रह्मवित्तमाय । ॐकाररूपः । ॐकारवाच्याय । ॐकारचिन्तकाय । ॐकारोद्यानबर्हिणे । ॐकारशरदम्बुदाय । ॐकारवक्षसे । ॐकारकुक्ष्ये । ॐकारपार्श्वकाय । ॐकारवेदोपनिषत् । ॐकाराध्वरदीक्षिताय । ॐकारशेखराय । ॐकारविश्वकाय । ॐकारसक्थये नमः । ८० ॐ ॐकारजानुः नमः । ॐकारगुल्फकाय । ॐकारसारसर्वस्वाय । ॐकारसुमषट्पदाय । ॐकारसौधनिलयाय । ॐकारास्थाननर्तकाय । ॐकारहनवे । ॐकारवटवे । ॐकारज्ञेयाय । ॐ नं बीजजपप्रीताय । ॐ यों भं मं स्वरूपकाय । ॐपदातीतवस्त्वंशाय । ओमित्येकाक्षरात्पराय । ॐपदेन संस्तव्याय । ॐकारध्येयाय । ॐ यं बीजजपाराध्याय । ॐकारनगराधिपाय । ॐ वं तें बीजसुलभाय । ॐ रुं द्रां बीजतत्पराय । ॐ शिवायेति सञ्जप्याय नमः । १०० ॐ ॐ ह्रीं श्रीं बीजसाधकाय नमः । नकाररूपाय । नादान्ताय । नारायणसमाश्रिताय । नगप्रवरमध्यस्थाय । नमस्कारप्रियाय । नटाय । नगेन्द्रभूषणाय । नागवाहनाय । नन्दिवाहनाय । नन्दिकेशसमाराध्याय । नन्दनाय । नन्दिवर्धनाय । नरकक्लेशशमनाय । निमेषाय । निरुपद्रवाय । नरसिंहार्चितपदाय । नवनागनिषेविताय । नवग्रहार्चितपदाय । नवसूत्रविधानवित् नमः । १२० ॐ नवचन्दनलिप्ताङ्गाय नमः । नवचन्द्रकलाधराय । नवनीताप्रियाहाराय । निपुणाय । निपुणप्रियाय । नवब्रह्मार्चितपदाय । नगेन्द्रतनयाप्रियाय । नवभस्मविदिग्धाङ्गाय । नवबन्धविमोचकाय । नववस्त्रपरीधानाय । नवरत्नविभूषिताय । नवसिद्धसमाराध्याय । नामरूपविवर्जिताय । नाकेशपूज्याय । नादात्मने । निर्लेपाय । निधनाधिपाय । नादप्रियाय । नदीभर्त्रे । नरनारायणार्चिताय नमः । १४० ॐ नादबिन्दुकलातीताय नमः । नादबिन्दुकलात्मकाय । नादाकाराय । निराधाराय । निष्प्रभाय । नीतिवित्तमाय । नानाक्रतुविधानज्ञाय । नानाभीष्टवरप्रदाय । नामपारायणप्रीताय । नानाशास्रविशारदाय । नारदादि समाराध्याय । नवदुर्गार्चनप्रियाय । निखिलागम संसेव्याय । निगमाचारतत्पराय । निचेरवे । र्निष्क्रियाय । नाथाय । निरीहाय । निधिरूपकाय । नित्यक्रुद्धाय नमः । १६० ॐ निरानन्दाय नमः । निराभासाय । निरामयाय । नित्यानपायमहिमाय । नित्यबुद्धाय । निरंकुशाय । नित्योत्साहाय । नित्यनित्याय । नित्यानन्दायस्वरूपकाय । निरवद्याय । निशुम्भघ्नाय । नदीरूपाय । निरीश्वराय । निर्मलाय । निर्गुणाय । नित्याय । निरपायाय । निधिप्रदाय । निर्विकल्पाय । निर्गुणस्थाय नमः । १८० ॐ निषङ्गिने नमः । नीललोहिताय । निष्कलंकाय । निष्प्रपञ्चाय । निर्द्वन्द्वाय । निर्मलप्रभाय । निस्तुलाय । नीलचिकुराय । निस्सङ्गाय । नित्यमङ्गलाय । नीपप्रियाय । नित्यपूर्णाय । नित्यमङ्गलविग्रहाय । नीलग्रीवाय । निरुपमाय । नित्यशुद्धाय । निरञ्जनाय । नैमित्तिकार्चनप्रीताय । नवर्षिगणसेविताय । नैमिशारण्यनिलयाय नमः । २०० ॐ नीलजीमूतनिस्वनाय नमः । मकाररूपाय । मन्त्रात्मने । मायातीताय । महानिधये । मकुटाङ्गदकेयूरकंकणादिपरिष्कृताय । मणिमण्डपमध्यस्थाय । मृडानीपरिसेविताय । मधुराय । मधुरानाथाय । मीनाक्षीप्राणवल्लभाय । मनोन्मनाय । महेष्वासाय । मान्धानृपति पूजिताय । मयस्कराय । मृडाय । मृग्याय । मृगहस्ताय । मृगप्रियाय । मलयस्थाय नमः । २२० ॐ मन्दरस्थाय नमः । मलयानिलसेविताय । महाकायाय । महावक्त्राय । महादंष्ट्राय । महाहनवे । महाकैलासनिलयाय । महाकारुण्यवारिधये । महागुणाय । महोत्साहाय । महामङ्गलविग्रहाय । महाजानवे । महाजंघाय । महापादाय । महानखाय । महाधाराय । महाधीराय । मङ्गलाय । मङ्गलप्रदाय । महाधृतये नमः । २४० ॐ महामेघाय नमः । महामन्त्राय । महाशनाय । महापापप्रशमनाय । मितभाषिने । मधुप्रदाय । महाबुद्धये । महासिद्धये । महायोगिने । महेश्वराय । महाभिषेकसन्तुष्टाय । महाकालाय । महानटाय । महाभुजाय । महावक्षसे । महाकुक्षि । महाकटये । महाभूतिप्रदाय । मान्याय । मुनिबृन्दायनिषेविताय नमः । २६० ॐ महावीरेन्द्रवरदाय नमः । महालावण्यशेवधये । मातृमण्डलसंसेव्याय । मन्त्रतन्त्रात्मकाय । महते । माध्यन्दिनसवस्तुत्याय । मखध्वंसिने । महेश्वराय । मायाबीजजपप्रीताय । माषान्नप्रीतमानसाय । मार्ताण्डभैरवाराध्याय । मोक्षदाय । मोहिनीप्रियाय । मार्ताण्डमण्डलस्थाय । मन्दारकुसुमप्रियाय । मिथिलापुरासंस्थानाय । मिथिलापतिपूजिताय । मिथ्याजगदधिष्ठानाय । मिहिराय । मेरुकार्मुकाय नमः । २८० ॐ मुद्गौदनप्रियाय नमः । मित्राय । मयोभूवे । मन्त्रवित्तमाय । मूलाधारस्थिताय । मुग्धाय । मणिपूरनिवासकाय । मृगाक्षाय । महिषारूढाय । महिषासुरमर्दनाय । मृगाङ्कशेखराय । मृत्युञ्जयाय । मृत्युविनाशकाय । मेरुश‍ृङ्गाग्रनिलयाय । महाशान्ताय । महीस्तुताय । मौञ्जीबद्धाय । मघवते । महेशाय । मङ्गलप्रदाय नमः । ३०० ॐ मञ्जुमञ्जीरचरणाय नमः । मन्त्रिपूज्याय । मदापहाय । मंबीजजपसन्तुष्टाय । मायाविने । मारमर्दनाय । भक्तकल्पतरवे । भाग्यदात्रे । भावार्थगोचराय । भक्तचैतन्यनिलयाय । भाग्यारोग्यप्रदायकाय । भक्तप्रियाय । भक्तिगम्याय । भक्तवश्याय । भयापहाय । भक्तेष्टदात्रे । भक्तार्तिभञ्जनाय । भक्तपोषकाय । भद्रदाय । भङ्गुराय नमः । ३२० ॐ भीष्माय नमः । भद्रकालीप्रियङ्कराय । भद्रपीठकृतावासाय । भुवन्तये । भद्रवाहनाय । भवभीतिहराय । भर्गाय । भार्गवाय । भारतीप्रियाय । भव्याय । भवाय । भवानीशाय । भूतात्मने । भूतभावनाय । भस्मासुरेष्टदाय । भूर्मे । भर्त्रे । भूसुरवन्दिताय । भागीरथीप्रियाय । भौमाय नमः । ३४० ॐ भगीरथसमर्चिताय नमः । भानुकोटिप्रतीकाशाय । भगनेत्रविदारणाय । भालनेत्राग्निसन्दग्धमन्मथाय । भूभृदाश्रयाय । भाषापतिस्तुताय । भास्वते । भवहेतये । भयङ्कराय । भास्कराय । भास्कराराध्याय । भक्तचित्तापहारकाय । भीमकर्मणे । भीमवर्मणे । भूतिभूषणभूषिताय । भीमघण्टाकराय । भण्डासुरविध्वंसनोत्सुकाय । भुम्भारवप्रियाय । भ्रूणहत्यापातकनाशनाय । भूतकृते नमः । ३६० ॐ भूतभृद्भावाय नमः । भीषणाय । भीतिनाशनाय । भूतव्रातपरित्रात्रे । भीताभीतभयापहाय । भूताध्यक्षाय । भरद्वाजाय । भारद्वाजसमाश्रिताय । भूपतित्वप्रदाय । भीमाय । भैरवाय । भीमनिस्वनाय । भूभारोत्तरणाय । भृङ्गिरिरटिसेव्यपदाम्बुजाय । भूमिदाय । भूतिदाय । भूतये । भवारण्यकुठारकाय । भूर्भुवस्स्वः पतये । भूपाय नमः । ३८० ॐ भिण्डिवालभुसुण्डिभृते नमः । भूलोकवासिने । भूलोकनिवासिजनसेविताय । भूसुराराघनप्रीताय । भूसुरेष्टफलप्रदाय । भूसुरेड्याय । भूसूरेशाय । भूतभेतालायसेविताय । भैरवाष्टकसंसेव्याय । भैरवाय । भूमिजार्चिताय । भोगभुजे । भोग्याय । भोगिभूषणभूषिताय । भोगमार्गप्रदाय । भोगिकुण्डलमण्डिताय । भोगमोक्षप्रदाय । भोक्त्रे । भिक्षाचरणतत्पराय । गकाररूपाय नमः । ४०० ॐ गणपाय नमः । गुणातीताय । गुहप्रियाय । गजचर्मपरीधानाय । गम्भीराय । गाधिपूजिताय । गजाननप्रियाय । गौरीवल्लभाय । गिरिशाय । गुणाय । गणाय । गृत्साय । गृत्सपतये । गरुडाग्रजपूजिताय । गदाद्यायुधसम्पन्नाय । गन्धमाल्यविभूषिताय । गयाप्रयागनिलयाय । गुडाकेशप्रपूजिताय । गर्वातीताय । गण्डपतये नमः । ४२० ॐ गणकाय नमः । गणगोचराय । गायत्रीमन्त्रजनकाय । गीयमानगुणाय । गुरवे । गुणज्ञेयाय । गुणध्येयाय । गोप्त्रे । गोदावरीप्रियाय । गुणाकराय । गुणातीताय । गुरुमण्डलसेविताय । गुणाधाराय । गुणाध्यक्षाय । गर्विताय । गानलोलुपाय । गुणत्रयात्मने । गुह्याय । गुणत्रयविभाविताय । गुरुध्यातपदद्वन्द्वाय नमः । ४४० ॐ गिरीशाय नमः । गुणगोचराय । गुहावासाय । गुहाध्यक्षाय । गुडान्नप्रीतमानसाय । गूढगुल्फाय । गूढतनवे । गजारूढाय । गुणोज्ज्वलाय । गूढपादप्रियाय । गूढाय । गौडपादनिषेविताय । गोत्राणतत्पराय । ग्रीष्माय । गीष्पतये । गोपतये । गोरोचनप्रियाय । गुप्ताय । गोमातृपरिसेविताय । गोविन्दवल्लभाय नमः । ४६० ॐ गङ्गाजूटाय नमः । गोविन्दपूजिताय । गोष्ट्याय । गृह्याय । गुहान्तस्थाय । गह्वरेष्ठाय । गदान्तकृते । गोसवासक्तहृदयाय । गोप्रियाय । गोधनप्रदाय । गोहत्यादिप्रशमनाय । गोत्रिणे । गौरीमनोहराय । गङ्गास्नानप्रियाय । गर्गाय । गङ्गास्नानफलप्रदाय । गन्धप्रियाय । गीतपादाय । ग्रामणीयै । गहनाय नमः । ४८० ॐ गिरये नमः । गन्धर्वगानसुप्रीताय । गन्धर्वाप्सरसां प्रियाय । गन्धर्वसेव्याय । गन्धर्वाय । गन्धर्वकुलभूषणाय । गंबीजजपसुप्रीताय । गायत्रीजपतत्पराय । गम्भीरवाक्याय । गगनसमरूपाय । गिरिप्रियाय । गम्भीरहृदयाय । गेयाय । गम्भीराय । गर्वनाशनाय । गाङ्गेयाभरणप्रीताय । गुणज्ञाय । गुणवान । गुहाय । वकाररूपाय नमः । ५०० ॐ वरदाय नमः । वागीशाय । वसुदाय । वसवे । वज्रिणे । वज्रप्रियाय । विष्णवे । वीतरागाय । विरोचनाय । वन्द्याय । वरेण्याय । विश्वात्मने । वरुणाय । वामनाय । वपवे । वश्याय । वशंकराय । वात्याय । वास्तव्याय । वास्तुपाय नमः । ५२० ॐ विधये नमः । वाचामगोचराय । वाग्मिणे । वाचस्पत्यप्रदायकाय । वामदेवाय । वरारोहाय । विघ्नेशाय । विघ्ननाशकाय । वारिरूपाय । वायुरूपाय । वैरिवीर्याय । विदारणाय । विक्लबाय । विह्वलाय । व्यासाय । व्याससूत्रार्थगोचराय । विप्रप्रियाय । विप्ररूपाय । विप्रक्षिप्रप्रसादकाय । विप्राराधनसन्तुष्टाय नमः । ५४० ॐ विप्रेष्टफलदायकाय नमः । विभाकरस्तुताय । वीराय । विनायकनमस्कृताय । विभवे । विभ्राजिततनु । विरूपाक्षाय । विनायकाय । विरागिजनसंस्तुत्याय । विरागिने । विगतस्पृहाय । विरिञ्चपूज्याय । विक्रान्ताय । वदनत्रयसंयुताय । विश‍ृंखलाय । विविक्तस्थाय । विदुषे । वक्त्रचतुष्टयाय । विश्वप्रियाय । विश्वकर्त्रे नमः । ५६० ॐ वषट्कारप्रियाय नमः । वराय । विश्वमूर्तये । विश्वकीर्तये । विश्वव्यापिने । वियत्प्रभवे । विश्वस्रष्ट्रे । विश्वगोप्त्रे । विश्वभोक्त्रे । विशेषवित् । विष्णुप्रियाय । वियद्रूपाय । विराड्रूपाय । विभावसवे । वीरगोष्ठीप्रियाय । वैद्याय । वदनैकसमन्विताय । वीरभद्राय । वीरकर्त्रे । वीर्यवते नमः । ५८० ॐ वारणार्तिहृते नमः । वृषांकाय । वृषभारूढाय । वृक्षेशाय । विन्ध्यमर्दनाय । वेदान्तवेद्याय । वेदात्मने । वदनद्वयशोभिताय । वज्रदंष्ट्राय । वज्रनखाय । वन्दारुजनवत्सलाय । वन्द्यमानपदद्वन्द्वाय । वाक्यज्ञाय । वक्त्रपञ्चकाय । वंबीजजपसन्तुष्टाय । वाक्प्रियाय । वामलौचनाय । व्योमकेशाय । विधानज्ञाय । विषभक्षणतत्पराय नमः । ६०० ॐ तकाररूपाय नमः । तद्रूपाय । तत्पदार्थस्वरूपकाय । तटिल्लतासमरुचये । तत्वप्रज्ञानबोधकाय । तत्वमस्यादिवाक्यार्थाय । तपोदानफलप्रदाय । तत्वज्ञाय । तत्त्वनिलयाय । तत्ववाच्याय । तपोनिधये । तत्त्वासन । तत्सवितुर्जपसन्तुष्टमानसाय । तन्त्रयन्त्रात्मकाय । तन्त्रिणे । तन्त्रज्ञाय । ताण्डवप्रियाय । तन्त्रीलयविधानज्ञाय । तन्त्रमार्गप्रदर्शकाय । तपस्याध्याननिरताय नमः । ६२० ॐ तपस्विने नमः । तापसप्रियाय । तपोलोकजनस्तुत्याय । तपस्विजनसेविताय । तरुणाय । तारणाय । ताराय । ताराधिपनिभाननाय । तरुणादित्यसंकाशाय । तप्तकाञ्चनभूषणाय । तलादिभुवनान्तस्थाय । तत्त्वमर्थस्वरूपकाय । ताम्रवक्त्राय । ताम्रचक्षुषे । ताम्रजिह्वाय । तनूदराय । तारकासुरविध्वंसिने । तारकाय । तारलोचनाय । तारानाथकलामौलये नमः । ६४० ॐ तारानाथसमुद्युतये नमः । तार्क्ष्यकाय । तार्क्ष्यविनुताय । त्वष्ट्रे । त्रैलोक्यसुन्दराय । ताम्बूलपूरितमुखाय । तक्षणे । ताम्राधराय । तनवे । तिलाक्षतप्रियाय । त्रिस्थाय । तत्वसाक्षिने । तमोगुणाय । तुरङ्गवाहनारूढा । तुलादानफलप्रदाय । तुलसीबिल्वनिर्गुण्डीजम्बीरामलकप्रियाय । तुलामाघस्नानतुष्टाय । तुष्टातुष्टप्रसादनाय । तुहिनाचलसंकाशाय । तमालकुसुमाकृतये नमः । ६६० ॐ तुङ्गभद्रातीरवासिने नमः । तुष्टभक्तेष्टदायकाय । तोमराद्यायुधधराय । तुषाराद्रिसुताप्रियाय । तोषिताखिलदैत्यौघाय । त्रिकालज्ञमुनिप्रियाय । त्रयीमयाय । त्रयीवेदद्याय । त्रयीवन्द्याय । त्रयीतनवे । त्रय्यन्तनिलयाय । तत्वनिधये । ताम्राम । तमोपहाय । त्रिकालपूजनप्रीताय । तिलान्नप्रीतमानसाय । त्रिधाम्ने । तीक्ष्णपरशवे । तीक्ष्णेषवे । तेजसां निधये नमः । ६८० ॐ त्रिलोकरक्षकाय नमः । त्रेतायजनप्रीतमानसाय । त्रिलोकवासिने । त्रिगुणाय । द्विनेत्राय । त्रिदशाधिपाय । त्रिवर्गदाय । त्रिकालज्ञाय । तृप्तिदाय । तुम्बुरुस्तुताय । त्रिविक्रमाय । त्रिलोकात्मने । त्रिमूर्ति । त्रिपुरान्तकाय । त्रिशूलभीषणाय । तीव्राय । तीर्थ्याय । तीक्ष्णवरप्रदाय । रघुस्तुतपदद्वन्द्वाय । रव्यादिग्रहसंस्तुताय नमः । ७०० ॐ रजताचलश‍ृङ्गाग्रनिलयाय नमः । रजतप्रभाय । रतप्रियाय । रहःपूज्याय । रमणीयगुणाकराय । रथकाराय । रथपतये । रथाय । रत्नाकरप्रियाय । रथोत्सवप्रियाय । रस्याय । रजोगुणविनाशकृते । रत्नडोलोत्सवप्रीताय । रणत्किंकिणिमेखलाय । रत्नदाय । राजकाय । रागिने । रङ्गविद्याविशारदाय । रत्नपूजनसन्तुष्टाय । रत्नसानुशरासनाय नमः । ७२० ॐ रत्नमण्डपमध्यस्थाय नमः । रत्नग्रैवेयकुण्डलाय । रत्नाकरस्तुताय । रत्नपीठस्थाय । रणपण्डिताय । रत्नाभिषेकसन्तुष्टाय । रत्नकाञ्चनभूषणाय । रत्नाङ्गुलीयवलयाय । राजत्करसरोरुहाय । रमापतिस्तुताय । रम्याय । राजमण्डलमध्यगाय । रमावाणीसमाराध्याय । राज्यदाय । रत्नभूषणाय । रम्भादिसुन्दरीसेव्याय । रक्षोअघ्ने । राकिणीप्रियाय । रविचन्द्राग्निनयनाय । रत्नमाल्याम्बरप्रियाय नमः । ७४० ॐ रविमण्डलमध्यस्थाय नमः । रविकोटिसमप्रभाय । राकेन्दुवदनाय । रात्रिञ्चरप्राणापहारकाय । राजराजप्रियाय । रौद्राय । रुरुहस्ताय । रुरुप्रियाय । राजराजेश्वराय । राजपूजिताय । राज्यवर्धनाय । रामार्चितपदद्वन्द्वाय । रावणार्चितविग्रहाय । राजवश्यकराय । राजे । राशीकृतजगत्त्रयाय । राजीवचरणाय । राजशेखराय । रविलोचनाय । राजीवपुष्पसंकाशाय नमः । ७६० ॐ राजीवाक्षाय नमः । रणोत्सुकाय । रात्रिञ्चरजनाध्यक्षाय । रात्रिञ्चरनिषेविताय । राधामाधवसंसेव्याय । राधामाधववल्लभाय । रुक्माङ्गदस्तुताय । रुद्राय । रजस्सत्वतमोमयाय । रुद्रमन्त्रजपप्रीताय । रुद्रमण्डलसेविताय । रुद्राक्षजपसुपीताय । रुद्रलोकप्रदायकाय । रुद्राक्षमालाभरणाय । रुद्राणीप्राणनायकाय । रुद्राणीपूजनप्रीताय । रुद्राक्षमकुटोज्वलाय । रुरुचर्मपरीधानाय । रुक्माङ्गदपरिष्कृताय । रेफस्वरूपाय नमः । ७८० ॐ रुद्रात्मने नमः । रुद्राध्यायजपप्रियाय । रेणुकावरदाय । रामाय । रूपहीनाय । रविस्तुताय । रेवानदीतीरवासिने । रोहिणीपतिवल्लभाय । रोगेशाय । रोगशमनाय । रैदाय । रक्तबलिप्रियाय । रंबीजजपसन्तुष्टाय । राजीवकुसुमप्रियाय । रम्भाफलप्रियाय । रौद्रदृषे । रक्षाकराय । रूपवते । दकाररूपाय । देवेशाय नमः । ८०० ॐ दरस्मेरमुखाम्बुजाय नमः । दरान्दोलितदीर्घाक्षाय । द्रोणपुष्पार्चनप्रियाय । दक्षाराध्याय । दक्षकन्यापतये । दक्षवरप्रदाय । दक्षिणादक्षिणाराध्याय । दक्षिणामूर्तिरूपभृते । दाडिमीबीजरदनाय । दाडिमीकुसुमप्रियाय । दान्ताय । दक्षमखध्वंसिने । दण्डाय । दमयित्रे । दमाय । दारिद्र्यध्वंसकाय । दात्रे । दयालवे । दानवान्तकाय । दारुकारण्यनिलयाय नमः । ८२० ॐ दशदिक्पालपूजिताय नमः । दाक्षायणीसमाराध्याय । दनुजारये । दयानिधये । दिव्यायुधधराय । दिव्यमाल्याम्बरविभूषणाय । दिगम्बराय । दानरूपाय । दुर्वासमुनिपूजिताय । दिव्यान्तरिक्षगमनाय । दुराधर्षाय । दयात्मकाय । दुग्धाभिषेचनप्रीताय । दुःखदोषविवर्जिताय । दुराचारप्रशमनाय । दुग्धान्नप्रीतमानसाय । दुर्लभाय । दुर्गमाय । दुर्गाय । दुःखहन्त्रे नमः । ८४० ॐ दुरार्तिअघ्ने नमः । दुर्वाससे । दुष्टभयदाय । दुर्जयाय । दुरतिक्तमाय । दुष्टहन्त्रे । देवसैन्यपतये । दम्भविवर्जिताय । दुःस्वप्ननाशनाय । दुष्टदुराय । दुर्वारविक्रमाय । दूर्वायुग्मसमाराध्याय । दुत्तूरकुसुमप्रियाय । देवगङ्गाजटाजूटाय । देवताप्राणवल्लभाय । देवतार्तिप्रशमनाय । दीनदैन्यविमोचनाय । देवदेवाय । दैत्यगुरवे । दण्डनाथप्रपूजिताय नमः । ८६० ॐ देवभोग्याय नमः । देवयोग्याय । दीप्तमूर्तये । दिवस्पतये । देवर्षिवर्याय । देवर्षिवन्दिताय । देवभोगदाय । देवादिदेवाय । देवेज्याय । दैत्यदर्पनिषूदनाय । देवासुरगणाध्यक्षाय । देवासुरगणाग्रणिये । देवासुरातपस्तुष्टाय । देवासुरवरप्रदाय । देवासुरेश्वराराध्याय । देवान्तकवरप्रदाय । देवासुरेश्वराय । देवाय । देवासुरमहेश्वराय । देवेन्द्ररक्षकाय नमः । ८८० ॐ दीर्घाय नमः । देववृन्दनिषेविताय । देशकालपरिज्ञात्रे । देशोपद्रवनाशकाय । दोषाकरकलामौलये । दुर्वारभुजविक्रमाय । दण्डकारण्यनिलयाय । दण्डिने । दण्डप्रसादकाय । दण्डनीतये । दुरावासाय । द्योताय । दुर्मतिनाशनाय । द्वन्द्वातीताय । दीर्घदर्शिने । दानाध्यक्षाय । दयापराय । यकाररूपाय । यन्त्रात्मने । यन्त्राराधनतत्पराय नमः । ९०० ॐ यजमानाद्यष्टमूर्तये नमः । यामिनीचरदर्पघ्ने । यजुर्वेदप्रियाय । युद्धमर्मज्ञाय । युद्धकौशलाय । यत्नसाध्याय । यष्टिधराय । यजमानप्रियाय । यजुषे । यथार्थरूपाय । युगकृते । युगरूपाय । युगान्तकृते । यथोक्तफलदाय । योषापूजनप्रीतमानसाय । यदृच्छालाभसन्तुष्टाय । याचकार्तिनिषूदनाय । यन्त्रासनाय । यन्त्रमयाय । यन्त्रमन्त्रस्वरूपकाय नमः । ९२० ॐ यमरूपाय नमः । यामरूपाय । यमबाधानिवर्तकाय । यमादियोगनिरताय । योगमार्गप्रदर्शकाय । यवाक्षतार्चनरताय । यावचिह्नितपादुकाय । यक्षराजसखाय । यज्ञाय । यक्षेशाय । यक्षपूजिताय । यक्षराक्षससंसेव्याय । यातुधानवरप्रदाय । यज्ञगुह्याय । यज्ञकर्त्रे । यजमानस्वरूपकाय । यज्ञान्तकृते । यज्ञपूज्याय । यज्ञभुजे । यज्ञवाहनाय नमः । ९४० ॐ यागप्रियाय नमः । यानसेव्याय । युने । यौवनगर्विताय । यातायातादिरहिताय । यतिधर्मपरायणाय । यात्राप्रियाय । यमिने । याम्यदण्डपाशनिकृन्तनाय । यात्राफलप्रदाय । युक्ताय । यशस्विने । यमुनाप्रियाय । यादःपतये । यज्ञपतये । यतये । यज्ञपरायणाय । यादवानां प्रियाय । योद्दघ्ने । योधारान्धनतत्पराय नमः । ९६० ॐ यामपूजनसन्तुष्टाय नमः । योषित्सङ्गविवर्जिताय । यामिनीपतिसंसेव्याय । योगिनीगणसेविताय । यायजूकाय । युगावर्ताय । याच्ञारूपाय । यथेष्टदाय । यावौदनप्रीतचित्ताय । योनिष्ठाय । यामिनीप्रियाय । याज्ञवल्क्यप्रियाय । यज्वने । यज्ञेशाय । यज्ञसाधनाय । योगमायामयाय । योगमायासंवृतविग्रहाय । योगसिद्धाय । योगिसेव्याय । योगानन्दस्वरूपकाय नमः । ९८० ॐ योगक्षेमकराय नमः । योगक्षेमदात्रे । यशस्कराय । योगिने । योगासनाराध्याय । योगाङ्गाय । योगसङ्ग्रहाय । योगीश्वरेश्वराय । योग्याय । योगदात्रे । युगन्धराय । योषित्प्रियाय । यदुपतये । योषार्धीकृतविग्रहाय । यंबीजजपसन्तुष्टाय । यन्त्रेशाय । यन्त्रसाधनाय । यन्त्रमध्यस्थिताय । यन्त्रिणे । योगीश्वरसमाश्रिताय नमः । १००० इति श्रीरुद्रसहस्रनामावलिः समाप्ता ।