अक्षर आकार:

श्रीरुद्रमृत्युञ्जयस्तवनम्

Shri Rudra Mrityunjaya Stavana

श्रीरुद्रमृत्युञ्जयस्तवनम्

श्रीआनन्दभैरव उवाच - श्रुतं च साधनं पुण्यं महारुद्रस्य सुन्दरि । मणिपूरे प्रकाशञ्च कथितं ज्ञाननिर्णयम् ॥ १॥ अकस्मात् सिद्धिसम्पत्तिं नुतिं वद महाप्रियाम् । यस्य श्रवणमात्रेण पाठेन योगिनीवशम् ॥ २॥ श्रीआनन्दभैरवी उवाच - परमानन्ददेवेश योगानामधिप प्रभो । स्तोत्रं रुद्रस्य वक्ष्यामि सारात्सारं परात्परम् ॥ ३॥ यज्ज्ञात्वा योगिनः सर्वे षट्चक्रपरिभेदकाः । आकाशगामिनः सर्वे स्वर्गमोक्षाभिलाषुकाः ॥ ४॥ महादेवसमाः सर्वे देवाश्च स्वर्गभोगिनः । सर्वरक्षाकरं स्तोत्रं ये पठन्ति निरन्तरम् ॥ ५॥ ते यान्ति ब्रह्मसदनं सिद्धमुख्या महीतले ॥ ६॥ ॐ भजामि शम्भुं सुखमोक्षहेतुं रुद्रं महाशक्तिसमाकुलाङ्गम् । रौद्रात्मकं चारुहिमांशुशेखरं कालं गणेशं सुमुखाय शङ्करम् ॥ ७॥ var रौद्रार्थकं रुद्रहिमांशुशेखरं कालं कुलेशं शिवशङ्करञ्चेति मृत्युञ्जयं जीवनरक्षकं परं शिवं परब्रह्मशरीरमङ्गलम् । हिमांशुकोटिच्छविमादधानं भजामि पद्मद्वयमध्यसंस्थितम् ॥ ८॥ सर्वात्मकं कामविनाशमूलं तं चन्द्रचूडं मणिपूरवासिनम् । सर्वार्थकम् चतुर्भुजं ज्ञानसमुद्रयाढ्यं पाशं मृगाक्षं गुणसूत्रव्याप्तम् ॥ ९॥ धरामयं तेजसमिन्दुकोटिं वायुं जलेशं गगनात्मकं परम् । भजामि रुद्रं कुललाकिनीगतं सर्वाङ्गयोगं जयदं सुरेश्वरम् ॥ १०॥ शुक्रं महाभीमनयं पुराणं (महाभीमलयं) प्राणात्मकं व्याधिविनाशमूलम् । यज्ञात्मकं कामनिवारणं गुरुं (यज्ञार्थकम्) भजामि विश्वेश्वरशङ्करं शिवम् ॥ ११॥ वेदागमानामतिमूलदेशं तदुद्भवं भद्रहितं परापरम् । तद्रहितं कालान्तकं ब्रह्मसनातनप्रियं भजामि शम्भुं गगनादिरूढम् ॥ १२॥ शिवागमं शब्दमयं विभाकरं भास्वत्प्रचण्डानलविग्रहं ग्रहम् । ग्रहस्थितं ज्ञानकरं करालं भजामि शम्भुं प्रकृतीश्वरं हरम् ॥ १३॥ छायाकरं योगकरं सुखेन्द्रं मत्तं महामत्तकुलोत्सवाढयम् । योगेश्वरं योगकलानिधिं विधिं विधानवक्तारमहं भजामि ॥ १४॥ हेमाचलालङ्कतशुद्धवेशं वराभयादाननिदानमूलम् । भजामि कान्तं वनमालशोभितं चामूलपद्मामलमालिनं कुलम् ॥ १५॥ स्वयं पुराणं पुरुषेश्वरं गुरुं मिथ्याभयाह्लादविभाविनं भजे । भावप्रियं प्रेमकलाधरं शिवं गिरीश्वरं चारुपदारविन्दम् ॥ १६॥ ध्यानप्रियं ज्ञानगभीरयोगं भाग्यास्पदं भाग्यसमं सुलक्षणम् । शूलायुघं शूलविभूषिताङ्गं श्रीशङ्करं मोक्षफलक्रियं भजे ॥ १७॥ नमो नमो रुद्रगणेभ्य एवं मृत्युञ्जयेभ्यः कुलचञ्चलेभ्यः । शक्तिप्रियेभ्यो विजयादिभूतये शिवाय धन्याय नमो नमस्ते ॥ १८॥ बाह्यं त्रिशूलं वरसूक्ष्मभावं विशालनेत्रं तनुमध्यगामिनम् । महाविपद्दुःखविनाशबीजं प्रज्ञादयाकान्तिकरं भजामि ॥ १९॥ var महाविपद्भस्मविलासबीजं शुद्धोदयं शान्तिकरं भजामि पुरान्तकं पूर्णशरीरिणं गुरुं स्मरारिमाद्यं निजतर्कमार्गम् । अनादिदेवं दिवि दोषघातिनं भजामि पञ्चाक्षरपुण्यसाधनम् ॥ २०॥ दिगम्बरं पद्ममुखं करस्थं स्थितिक्रियायोगनियोजनं भवम् । भावात्मकं भद्रशरीरिणं शिवं भजामि पञ्चाननमर्कवर्णम् ॥ २१॥ मायामयं पङ्कजदामकोमलं दिग्व्यापिनं दण्डधरं हरेश्वरम् । त्रिपक्षकं त्र्यक्षरबीजभावं त्रिपद्ममूलं त्रिगुणं भजामि ॥ २२॥ विद्याधरं वेदविधानकार्यं कायागतं नीतनिनादतोषम् । नित्यं चतुर्वर्गफलादिमूलं वेदादिसूत्रं प्रणमामि योगम् ॥ २३॥ वेदान्तवेद्यं कुलशास्त्रविज्ञं क्रियामयं योगस्वधर्मदानम् । भक्तेश्वरं भक्तिपरायणं वरं भक्तं महाबुद्धिकरं भजाम्यहम् ॥ २४॥ गतागतं गम्यमगम्यभावं समुल्लसत्कोटिकलावतंसम् । भावात्मकं भावमयं सुखासुखं भजामि भर्गं प्रथमारुणप्रभम् ॥ २५॥ बिन्दुस्वरूपं परिवादवादिनं मध्याह्नसूर्यायुतसन्निभं नवम् । विभूतिदानं निजदानदानं दानात्मकं तं प्रणमामि देवम् ॥ २६॥ कुम्भापहं शत्रुनिकुम्भघातिनं दैत्यारिमीशं कुलकामिनीशम् । प्रीत्यान्वितं चिन्त्यमचिन्त्यभावं प्रभाकराह्लादमहं भजामि ॥ २७॥ त्रिमूर्तिमूलाय जयाय शम्भवे हिताय लोकस्य वपुर्धराय । नमो भयाच्छिन्नविघातिने पते नमो नमो विश्वशरीरधारिणे ॥ २८॥ var भवाच्छन्ननिघातिने ते तपःफलाय प्रकृतिग्रहाय गुणात्मने सिद्धिकराय योगिने । नमः प्रसिद्धाय दयातुराय वाञ्छाफलोत्साहविवर्धनाय ते ॥ २९॥ शिवममरमहान्तं पूर्णयोगाश्रयन्तं var शिववरहस्तं पुष्पयोगाश्रयन्तम् धरणिधरकराब्जैर्वर्धमानं त्रिसर्गम् । विसममरणघातं मृत्युपूज्यं जनेशं var विसमचरणघातं मृत्युधातं नरेशं विधिगणपतिसेव्यं पूजये भावयामि ॥ ३०॥ एतत्स्तोत्रं पठेद्विद्वान् मुनिर्योगपरायणः । नित्यं जगन्नाथगुरुं भावयित्वा पुनः पुनः ॥ ३१॥ मणिपूरे वायुनिष्ठो नित्यं स्तोत्रं पठेद् यदि । जीवन्मुक्तश्च देहान्ते परं निर्वाणमाप्नुयात् ॥ ३२॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने रुद्रमृत्युञ्जयस्तवनं नामाष्टचत्वारिंशतमः पटलः ॥