अक्षर आकार:

रुद्रमृत्युञ्जयस्तोत्रम्

Rudramrityunjaya Stotram

रुद्रमृत्युञ्जयस्तोत्रम्

अथाष्टचत्त्वारिंशः पटलः आनन्दभैरव उवाच श्रुतं च साधनं पुण्यं महारुद्रस्य सुन्दरि । मणिपूरे प्रकाशञ्च कथितं ज्ञाननिर्णयम् ॥ ४८-१॥ अकस्मात् सिद्धिसम्पत्तिं नुतिं वद महाप्रियाम् । यस्य श्रवणमात्रेण पाठेन योगिनीवशम् ॥ ४८-२॥ श्रीआनन्दभैरवी उवाच परमानन्ददेवेश योगानामधिप प्रभो । स्तोत्रं रुद्रस्य वक्ष्यामि सारात्सारं परात्परम् ॥ ४८-३॥ यज्ज्ञात्वा योगिनः सर्वे षट्चक्रपरिभेदकाः । आकाशगामिनः सर्वेर्स्वगमोक्षाभिलाषुकाः ॥ ४८-४॥ महादेवसमाः सर्वे देवाश्च स्वर्गभोगिनः । सर्वरक्षाकरं स्तोत्रं ये पठन्ति निरन्तरम् ॥ ४८-५॥ ते यान्ति ब्रह्मसदनं सिद्धमुख्या महीतले ॥ ४८-६॥ ॐ भजामि शम्भुं सुखमोक्षहेतुं रुद्रं महाशक्तिसमाकुलाङ्गम् । रौद्रात्मकं चारुहिमांशुशेखरम् । कालं गणेशं सुमुखाय शङ्करम् ॥ ४८-७॥ मृत्युञ्जयं जीवनरक्षकं परं शिवं परब्रह्मशरीरमङ्गलम् । हिमांशुकोटिच्छविमादधानं भजामि पद्मद्वयमध्यसंस्थितम् ॥ ४८-८॥ सर्वात्मकं कामविनाशमूलम् । तं चन्द्रचूडं मणिपूरवासिनम् । चतुर्भुजं ज्ञानसमुद्रयाढ्यं पाशं मृगाक्षं गुणसूत्रव्याप्तम् ॥ ४८-९॥ धरामयं तेजसमिन्दुकोटिं वायुं जलेशं गगनात्मकं परम् । भजामि रुद्रं कुललाकिनीगतं सर्वाङ्गयोगं जयदं सुरेश्वरम् ॥ ४८-१०॥ शुक्रं महाभीमनयं पुराणं प्राणात्मकं व्याधिविनाशमूलम् । यज्ञात्मकं कामनिवारणं गुरुं भजामि विश्वेश्वरशङ्करं शिवम् ॥ ४८-११॥ वेदागमानामतिमूलदेशं तदुद्भवं भद्रहितं परापरम् । कालान्तकं ब्रह्मसनातनप्रियं भजामि शम्भुं गगनादिरूढम् ॥ ४८-१२॥ शिवागमं शब्दमयं विभाकरं भास्वत्प्रचण्डानलविग्रहं ग्रहम् । ग्रहस्थितं ज्ञानकरं करालं भजामि शम्भुं प्रकृतीश्वरं हरम् ॥ ४८-१३॥ छायाकरं योगकरं सुखेन्द्रं मत्तं महामत्तकुलोत्सवाढ्यम् । योगेश्वरं योगकलानिधिं विधिम् । विधानवक्तारमहं भजामि ॥ ४८-१४॥ हेमाचलालङ्कृतशुद्धवेशं वराभयादाननिदानमूलम् । भजामि कान्तं वनमालशोभितं चामूलपद्मामलमालिनं कुलम् ॥ ४८-१५॥ स्वयं पुराणं पुरुषेश्वरं गुरुं मिथ्याभयाह्लादविभाविनं भजे । भावप्रियं प्रेमकलाधरं शिवं गिरीश्वरं चारुपदारविन्दम् ॥ ४८-१६॥ ध्यानप्रियं ज्ञानगभीरयोगं भाग्यास्पदं भाग्यसमं सुलक्षणम् । शूलायुधं शूलविभूषिताङ्गं श्रीशङ्करं मोक्षफलक्रियं भजे ॥ ४८-१७॥ नमो नमो रुद्रगणेभ्य एवं मृत्युञ्जयेभ्यः कुलचञ्चलेभ्यः । शक्तिप्रियेभ्यो विजयादिभूतये शिवाय धन्याय नमो नमस्ते ॥ ४८-१८॥ बाह्यं त्रिशूलं वरसूक्ष्मभावं विशालनेत्रं तनुमध्यगामिनम् । महाविपद् दुःखविनाशबीजं प्रज्ञादयाकान्तिकरं भजामि ॥ ४८-१९॥ पुरान्तकं पूर्णशरीरिणं गुरुं स्मरारिमाद्यं निजतर्कमार्गम् । अनादिदेवं दिवि दोषघातिनं भजामि पञ्चाक्षरपुण्यसाधनम् ॥ ४८-२०॥ दिगग्बरं पद्ममुखं करस्थं स्थितिक्रियायोगनियोजनं भवम् । भावात्मकं भद्रशरीरिणं शिवं भजामि पञ्चाननमर्कवर्णम् ॥ ४८-२१॥ मायामयं पङ्कजदामकोमलं दिग्व्यापिनं दण्डधरं हरेश्वरम् । त्रिपक्षकं त्र्यक्षरबीजभावं त्रिपद्ममूलं त्रिगुणं भजामि ॥ ४८-२२॥ विद्याधरं वेदविधानकार्यं कायागतं नीतनिनादतोषम् । नित्यं चतुर्वर्गफलादिमूलं वेदादिसूत्रं प्रणमामि योगम् ॥ ४८-२३॥ वेदान्तवेद्यं कुलशास्त्रविज्ञं क्रियामयं योगस्वधर्मदानम् । भक्तेश्वरं भक्तिपरायणं वरं भक्तं महाबुद्धिकरं भजाम्यहम् ॥ ४८-२४॥ गतागतं गम्यमगम्यभावं समुल्लसत्कोटिकलावतंसम् । भावात्मकं भावमयं सुखासुखं भजामि भर्गं प्रथमारुणप्रभम् ॥ ४८-२५॥ बिन्दुस्वरूपं परिवादवादिनं मध्याह्नसूर्यायुतसन्निभं नवम् । विभूतिदानं निजदानदानं दानात्मकं तं प्रणमामि देवम् ॥ ४८-२६॥ कुम्भापहं शत्रुनिकुम्भघातिनं दैत्यारिमीशं कुलकामिनीशम् । प्रीत्यान्वितं चिन्त्यमचिन्त्यभावं प्रभाकराह्लादमहं भजामि ॥ ४८-२७॥ त्रिमूर्तिमूलाय जयाय शम्भवे हिताय लोकस्य वपुर्धराय । नमो भयाच्छिन्नविघातिने पते नमो नमो विश्वशरीरधारिणे ॥ ४८-२८॥ तपःफलाय प्रकृतिग्रहाय गुणात्मने सिद्धिकराय योगिने । नमः प्रसिद्धाय दयातुराय वाञ्छाफलोत्साहविवर्धनाय ते ॥ ४८-२९॥ शिवममरमहान्तं पूर्णयोगाश्रयन्तं धरणिधरकराब्जैर्वर्धमानं त्रिसर्गम् । विसम मरणघातं मृत्युपूज्यं जनेशं विधिगणपतिसेव्यं पूजये भावयामि ॥ ४८-३०॥ एतत्स्तोत्रं पठेद् विद्वान् मुनिर्योगपरायणः । नित्यं जगन्नाथगुरुं भावयित्वा पुनः पुनः ॥ ४८-३१॥ मणिपूरे वायुनिष्ठो नित्यं स्तोत्रं पठेद् यदि । जीवन्मुक्तश्च देहान्ते परं निर्वाणमाप्नुयात् ॥ ४८-३२॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने रुद्रमृत्युञ्जयस्तवनं नाम अष्टचत्वारिंशत्तमः पटलः ॥ ४८॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.