अक्षर आकार:

श्रीरामनाथ-सुप्रभातम्

shrI rAmanAtha-suprabhAtam

श्रीरामनाथ-सुप्रभातम्

गणेशं शारदां शंभुं देवीं दुर्गां च राघवम् । रामनाथं नमस्कृत्य सुप्रभातं करोम्यहम् ॥ १॥ नमस्ते गिरिजा-कान्त शरणागत-वत्सल । उत्तिष्ठ करुणासिन्धो सन्ध्याकालः प्रवर्तते ॥ २॥ उत्तिष्ठोत्तिष्ठ गौरीश उत्तिष्ठ वृषभ-ध्वज । उत्तिष्ठ पार्वती-नाथ त्रैलोक्यं मङ्गलं कुरु ॥ ३॥ मातः पुरारि-हृदयांबुज-नित्यवासे भक्त्या मुरारि-मुखपूजित-पादयुग्मे । श्रीशंकराश्रित-जनेषु दयार्द्र-चित्ते श्रीरामनाथ-दयिते तव सुप्रभातम् ॥ ४॥ तव सुप्रभातममरेन्द्र-वन्दिते निज-दीन-भक्त-वरदान-शोभिते । हर्-इधातृ-देवरमणीभिरर्चिते ह्यव रामनाथ-दयिते दयायुते ॥ ५॥ रामादि-भक्तनिचयास्त्वदुपासनाय गंगादि-पुण्यसरिदाहृत-दिव्यपुष्पैः । आगत्य पादयुगलार्चन-जागरूकाः श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ६॥ वीणा-मृदङ्ग-परिमण्डित-नारदाद्यैः संगीयमान-चरितामृत पुण्यदेह । चूडामणीकृत-मनोहर-चन्द्रबिंब श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ७॥ रामेश्वरेति प्रथिते प्रदेशे रामं पुरस्कृत्य शिवं स्तुवन्ति । ऐक्यं प्रदिष्टं शिवरामयोश्च विष्ण्वीशमूर्ते तव सुप्रभातम् ॥ ८॥ ब्रह्मेन्द्र-विष्णु-गुह-वाक्पति-सोमसूर्याः मृत्युञ्जयादि-चरितं बहुधा स्तुवन्ति । वाचस्पतिर्वदति वासरशुद्धिमारात् श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ९॥ दुष्पण्यजात-शिशुमारणवारकं च यत्पावकाख्यमतिपावनमग्नितीर्थम् । आवाति मन्दमनिलस्सह तस्य तोयैः श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १०॥ श्रीराममन्त्र-जपपावन-चित्तवृत्तिः आपादवक्त्रमनुलेपित-रक्तवर्णः । श्रीमारुतिर्जयति मन्दिर-पूर्वभागे श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ११॥ सीतापहर्तृ-दशकण्ठ-विमर्दनाय देवांशभूत-हरियूथ-सहायकेन । रामेण बद्ध-वरसेतुतल-प्रसन्न श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १२॥ ब्रह्मघ्न-पाप-परिहारविधौ यतेन रामेण पूजित-पवित्र-पदाब्ज-युग्म । भक्तार्ति-भञ्जन निरञ्जन रामनाथ श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १३॥ शैलाधिराज-तनयाञ्चिअत-वामभाग कैलासवास करुणामृत-पूर्ण-नेत्र । गंगाधर त्रिनयनाङ्कित चन्द्रचूड श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १४॥ नित्याभिषेचन-विधौ तव गाङ्ग-तोयं येन प्रदिष्टमिह रावण-घातकेन । तत्कोटि-तीर्थ-महिमावृत-सन्निधान श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १५॥ शेषेण वायुकृत-विक्रम-वाद-युद्धे वातेन भेदितमभूत् किल पर्वताग्रम् । तद्गन्धमादन-गिरौ कृत-सन्निधानं श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १६॥ गङ्गानदी-तट-वराल-पुण्यभूमौ ब्रह्मादि-देव-निकरैः स्तुत-विश्वनाथः । त्वद्वामभाग-परिकल्पित-मन्दिरस्थः श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १७॥ पूर्णेन्दु-बिंब-वदनस्सरसीरुहाक्षः कोदण्ड-मण्डित-करः करुणा-समुद्रः । सीतापतिर्जयति सुन्दर ते समक्षं श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ १८॥ नन्दीश्वरेण गजवक्त्र-षडाननाद्यैः देवैरनन्त-वरदैश्च नवग्रहाद्यैः । भक्त्या समर्चित-निजाम्बुज-पाद-युग्म श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ १९॥ पद्मालयापति-विधीन्द्र-किरीट-रत्नैः नीराजिताङ्घ्रि-युगला गिरिराज-पुत्री । त्वद्दक्षिणालयवरे कृत-सन्निधाना श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २०॥ लक्ष्मीसरः-प्रभृति पाप-हराणि सन्ति तीर्थानि पुण्य-फलदानि तवालयान्ते । तत्तीर्थ-दिव्य-महिमावृत-पुण्य-देश श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २१॥ श्रीरामलिङ्ग करुणामृत-पूर्ण-नेत्र श्रीभूमिनाथ-परिसेवित-दिव्यगात्र । श्रीपार्वतीश भवताप-विनाश-दक्ष श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २२॥ ज्योतिः-स्वरूप तव दिव्य-पदाम्बुजे मे निर्व्याज-भक्तिमिह देहि कृपाम्बुराशे । मां पाहि देव शरणागत-पारिजात श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २३॥ ॥ इति श्रीरामनाथ सुप्रभातम्॥