अक्षर आकार:

श्रीरामनाथस्तुतिः

Shri Ramanathastutih

श्रीरामनाथस्तुतिः

(श्रीरामेश्वरक्षेत्रे) श्रीरामपूजितपदाम्बुज चापपाणे श्रीचक्रराजकृतवास कृपाम्बुराशे श्रीसेतुमूलचरणप्रवणान्तरङ्ग श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ नम्राघवृन्दविनिवारणबद्धदीक्ष शैलाधिराजतनयापरिरब्धवर्ष्मन् । श्रीनाथमुख्यसुरवर्यनिषेविताङ्घ्रे श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ २॥ शूराहितेभवदनाश्रितपार्श्वभाग क्रूरारिवर्गविजयप्रद शीघ्रमेव । साराखिलागमतदन्तपुराणपङ्क्तेः श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ ३॥ शब्दादिमेषु विषयेषु समीपगेष्व- प्यासक्तिगन्धरहितान्निजपादनम्रान् । कुर्वाण कामदहनाक्षिलसल्ललाट श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीरामनाथस्तुतिः सम्पूर्णा ।