अक्षर आकार:

रामनाथाष्टकम्

rAmanAthAShTakam

रामनाथाष्टकम्

गजाजिनं शूलकपालपाणिनं जटाधरं चन्द्रकलावतंसम् । उमापतिं कालकालम् त्रिनेत्रं श्रीरामनाथं शिरसा नमामि ॥ १॥ समस्तपापक्षयदिव्यनामं प्रपन्नसंसारगतौषधं त्वम् । नामाज्जनाभीष्टवरप्रदं च श्रीरामनाथं शिरसा नमामि ॥ २॥ साम्बं प्रवालेन्दुशिलासमाभं शम्भुं जटाऽलङ्कृतचन्द्रमौलिम् । दिक्पूतवासोवसनं वरेण्यं श्रीरामनाथं शिरसा नमामि ॥ ३॥ पुरत्रयध्वंसनतीव्रबाणं कामाङ्गसंहारकपालनेत्रम् । सन्दर्शनात्त्वत्स्थलमस्तपापं श्रीरामनाथं शिरसा नमामि ॥ ४॥ भवान्धकरोग्रगभस्तिमन्तं संसरकान्तारमहादवाग्निम् । मनोरथःपूरणकालमेघं श्रीरामनाथं शिरसा नमामि ॥ ५॥ सितांशुवक्त्रं स्मितचन्द्रिकाभं कपालमालोडुगणप्रचारम् । ऋतध्वजं व्योमतनुं महान्तं श्रीरामनाथं शिरसा नमामि ॥ ६॥ सुरासुरैर्ज्येष्ठसुरेन्द्रवन्द्यं सुरासुरोद्भासुरभूसुराद्यम् । सुरापगाशोभितशेखरं तं श्रीरामनाथं शिरसा नमामि ॥ ७॥ सेतोर्मध्ये पर्वताग्रे पवित्रे गौर्या साकं भ्राजमानं महेशम् । ज्योतिस्वरूपं चन्द्रसुर्याग्निनेत्रं श्रीरामनाथं शिरसा नमामि ॥ ८॥ रामेणैवं संस्तुतो रामनाथः प्रादुर्भूतो लिङ्गमध्याद्भवान्या । दृष्ट्वा रुद्रं राघवः पूर्णकामः नत्वा स्तुत्वा प्रार्थयामास शम्भुम् ॥ ९॥ इति रामनाथाष्टकं सम्पूर्णम् ॥