अक्षर आकार:

पशुपत्याष्टकं

pashupatyAShTakaM

पशुपत्याष्टकं

ध्यानम् । ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ स्तोत्रम् । पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सती पतिम् ॥ गणत भक्तजनार्ति हरं परं भजत रे मनुजा गिरिजापतिम् ॥ १॥ न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ॥ अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥ २॥ मुरजडिण्डिवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् ॥ प्रथमभूत गणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥ ३॥ शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् ॥ अभयदं करुणा वरुणालयं भजत रे मनुजा गिरिजापतिम् ॥ ४॥ नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ॥ चितिरजोधवली कृत विग्रहं भजत रे मनुजा गिरिजापतिम् ॥ ५॥ मुखविनाशङ्करं शशिशेखरं सततमघ्वरं भाजि फलप्रदम् ॥ प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥ ६॥ मदम पास्य चिरं हृदि संस्थितं मरण जन्म जरा भय पीडितम् ॥ जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ॥ ७॥ हरिविरिञ्चिसुराधिंप पूजितं यमजनेशधनेशनमस्कृतम् ॥ त्रिनयनं भुवन त्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥ ८॥ पशुपतेरिदमष्टकमद्भुतं विरिचित पृथिवी पति सूरिणा ॥ पठति संश‍ृनुते मनुजः सदा शिवपुरिं वसते लभते मुदम् ॥ ९॥