अक्षर आकार:

परनाथकवचम्

Paranatha Kavacham

परनाथकवचम्

अथ पञ्चाशीतितमः पटलः । श्रीआनन्दभैरव उवाच वरानने वरारोहे सर्वज्ञाननिदानदे । आनन्दहृदयोल्लासे परमानन्दवर्धिनि ॥ ८५-१॥ कथितं कवचं पुण्यं रहस्यं चातिदुर्लभम् । न चोक्तं ज्ञानगम्यं तु महाजालनिसेवितम् ॥ ८५-२॥ परनाथस्य कवचं सार्वज्ञज्ञानसिद्धिदम् । इदानीं वद मे यत्नादानन्दकुलभैरवी ॥ ८५-३॥ श्रीआनन्दभैरवी उवाच श्रूयतां योगिनीनाथ योगविद्यापते प्रभो । परनाथस्य कवचं ज्ञानगम्यं पुरातनम् ॥ ८५-४॥ अतिगोप्यं योगसारं सर्वतन्त्रेषु दुर्लभम् । इदानीं नाथ यत्नेन कथयामि परं पदम् ॥ ८५-५॥ अस्य श्रीपरनाथमहाकवचस्य सदाशिव ऋषिः परमात्मा देवता ह्सौः बीजं ज्ञानशक्तिरानन्दं कीलकं सर्वाभीष्टसिद्ध्यर्थे विनियोगः । ॐङ्कारं वेदबीजं मे सदा पातु शिरोधनम् । ह्सौः महाप्रेतराजः कपालं पातु सर्वदा ॥ ८५-६॥ हाकिनीशः सहायाख्यः कामकेशगुणानि मे । वाराणसीपुरः पातु भ्रूमध्यपरदेवता ॥ ८५-७॥ षं रं शं वं सदा पातु हं क्षं पातु भ्रुवोर्दलम् । बाणलिङ्गं सदा पातु भ्रूपद्मयुवती मम ॥ ८५-८॥ कालानलः सदा पातु द्विदलस्थं परात्परम् । भ्रूगह्वरं सदानन्दं पातु त्रिपुरभैरवः ॥ ८५-९॥ अनाथलिङ्गः सर्वेशः पातु मे लोचनत्रयम् । अभयो मङ्गलः पातु ध्रुवाख्ये लोलजिह्विकाम् ॥ ८५-१०॥ पञ्चाननः सदा पातु वदनं कामसुन्दरः । उन्मत्तभैरवेन्द्रोऽथ गण्डयुग्मं सदावतु ॥ ८५-११॥ हिरण्याख्यः सदा पातु दन्ताग्रालिं श्मशानगः । महादेवः सदा पातु महाकाशः श्रुती मम ॥ ८५-१२॥ विकटाख्यो मञ्जुघोषः सदा पातु हनुस्थलम् । प्रणवात्मा सदा पातु कण्ठं मे नीलकण्ठभृत् ॥ ८५-१३॥ अपराजितः शुक्लवर्णः सदा पातु महामला । गलदेशं महाकाशं त्रिपुरा परमेश्वरी ॥ ८५-१४॥ मृत्युञ्जयश्च घोराख्यो विशुद्धं सर्वदाऽवतु । स्वरानीश्वरसंयुक्तान् योगीशः सर्वदाऽवतु ॥ ८५-१५॥ वामदेवः सदा पातु हृदयं परमेश्वरः । ईश्वरः सर्वदा पातु परदेवः सदाशिवः ॥ ८५-१६॥ अट्टहासः सदा पातु योगिनीकोटिभिः सह । अकालचक्रः सर्वज्ञश्चावधूतेश्वरो भुजौ ॥ ८५-१७॥ महाकालः सदा पातु भेरुण्डापतिरीश्वरः । पार्श्वदेशं सदा पातु काकिनीपरवल्लभः ॥ ८५-१८॥ अच्युतेशः सदा पातु कुक्षियुग्मं सदा मम । अथर्वेशः सदानन्दः पातु पृष्ठं सुरेश्वरः ॥ ८५-१९॥ तपिनीपतिरीशानो वीरभद्रो यतीश्वरः । नाभिमण्डलमापातु ममोदरमुमापतिः ॥ ८५-२०॥ घर्घरः पातु सततं रुद्रं राकिणिवल्लभम् । जटाजूटधरः पातु रुद्राणीं रौद्रदेवताम् ॥ ८५-२१॥ नितम्बं पातु योगेन्द्रः प्रभाद्यो मे कटिस्थलम् । स्वाधिष्ठानं सदा पातु षड्दलान्तः प्रकाशकः ॥ ८५-२२॥ अभयः सर्वदा पातु भर्गः पातु चतुर्दलम् । तरुणीशः सदा पातु कुण्डलीं डाकिनीपदम् ॥ ८५-२३॥ गुदरन्ध्रं सदा पातु पार्वतीप्रियवल्लभः । यज्ञनाथः सदा पातु ऊरुयुग्मं स्वमन्त्रवित् ॥ ८५-२४॥ जङ्घायुगं सदा पातु धर्मलक्ष्मीश्वरः प्रभुः । महाकालः पातु पादतलयुग्मं महीश्वरः ॥ ८५-२५॥ सर्वाङ्गं वरदः पातु वटुकः श्रीसदाशिवः । महारुद्रः श्रीपतीशः सदा उग्रः प्रपातु माम् ॥ ८५-२६॥ रणे द्यूते विवादे च शून्यागारे महाभये । पाताले पर्वतेऽरण्ये पातु वाग्वादिनीश्वरः ॥ ८५-२७॥ घण्टेश्वरः शङ्खनादो मुरारीशः प्रपातु माम् । परमानन्ददः पातु हितार्थी पथि पातु माम् ॥ ८५-२८॥ महाविद्यापतिः पातु प्रेतराजः प्रपातु माम् । पुत्रं मित्रं कलत्रं मे बन्धुं स्वजनमेव च ॥ ८५-२९॥ सर्वाधारः सदा पातु लिङ्गरूपी महेश्वरः । परमात्मा सदा पातु गुह्यदेशस्थदेवताम् ॥ ८५-३०॥ परिवारान्वितः पातु महाचन्द्रः सदाऽवतु । मारणोच्चाटने स्तम्भे विद्वेषे पातु मोहनः ॥ ८५-३१॥ मोहने द्रावणे स्थैर्ये वश्ये शान्तौ सदाशिवः । परनाथो गुरुः पातु पारिजातवनाश्रयः ॥ ८५-३२॥ सर्वभुक् कालरुद्रो मे सर्वत्र परिपातु माम् । इत्येतत् कथितं सर्वसिद्धिदं कवचं शुभम् ॥ ८५-३३॥ परनाथस्य देवस्य सार्वज्ञज्ञानसिद्धिदम् । कवचं दुर्लभं लोके सर्वतन्त्रेषु गोपितम् ॥ ८५-३४॥ यामले देवदेवेश प्रकाशितमहर्निशम् । यः पठेदेकवारं तु स रुद्रो नात्र संशयः ॥ ८५-३५॥ कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् । अस्य स्मरणमात्रेण राजत्वं योगिनां पतिः ॥ ८५-३६॥ भवेत् कामक्रोधजेता मृत्युजेता महाकविः । तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्तते ॥ ८५-३७॥ यः कण्ठे मस्तके वापि धारयेत् कवचं शुभम् । रक्तेन चन्दनेनापि कुङ्कुमेनापि वा लिखेत् ॥ ८५-३८॥ स भवेद् वीरपुत्रश्च महापातककोटिहा । अनायासेन देवेश योगसिद्धिमवाप्नुयात् ॥ ८५-३९॥ शतमष्टोत्तरं जप्त्वा पुरश्चर्याफलं लभेत् ॥ ८५-४०॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे परशिवकवचपाठो नाम पञ्चाशीतितमः पटलः ॥ ८५॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.