अक्षर आकार:

श्रीपरमेश्वरस्तोत्रम् २

Shri Parameshvara Stotram 2

श्रीपरमेश्वरस्तोत्रम् २

नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः । नमः परम लिङ्गाय व्योमलिङ्गाय वै नमः ॥ १॥ नमस्सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः । नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥ २॥ नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः । नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने ॥ ३॥ नमस्सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने । नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ४॥ नमोऽहङ्कारलिङ्गाय भूतलिङ्गाय वै नमः नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥ ५॥ नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः ॥ ६॥ नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने । नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥ ७॥ नमो वाय्वर्धलिङ्गाय श्रुतिलिङ्गाय वै नमः । नमस्ते धर्मलिङ्गाय सामलिङ्गाय वै नमः ॥ ८॥ नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः । नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने ॥ ९॥ दिश नः परमं योगमपत्यं मत्समं तथा । ब्रह्म चैवाक्षयं देव शमं चैव परं विभो । अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ॥ १०॥ अग्निः - वसिष्ठेन स्तुतश्शम्भुस्तुष्टश्श्रीपर्वते पुरा । वसिष्ठाय वरं दत्वा तत्रैवान्तरधियत ॥ ११॥ (स्कन्दपुराणे पञ्चदशमोऽध्यायः) इति श्रीस्कान्दे श्रीवसिष्ठकृतं श्रीपरमेश्वरस्तोत्रं सम्पूर्णम् ।