अक्षर आकार:

परमात्माष्टकम्

paramAtmAShTakam

परमात्माष्टकम्

श्रीगणेशाय नमः ॥ परमात्मँस्तव प्राप्तौ कुशलोऽस्मि न संशयः । तथापि मे मनो दुष्टं भोगेषु रमते सदा ॥ १॥ यदा यदा तु वैराग्यं भोगेभ्यश्च करोम्यहम् । तदैव मे मनो मूढं पुनर्भोगेषु गच्छति ॥ २॥ भोगान्भुक्त्वा मुदं याति मनो मे चञ्चलं प्रभो । तव स्मृतिर्यदाऽऽयाति तदा भाति बहिर्मुखम् ॥ ३॥ प्रत्यहं शास्त्रनिचयं चिन्तयामि समाहितः । तथापि मे मनो मूढं त्यक्त्वा त्वां भोगमिच्छति ॥ ४॥ शोकमोहौ मानमदौ तवाज्ञ्नाद्भवन्ति वै । यदा बुद्धिपथं यासि यान्ति ते विलयं तदा ॥ ५॥ कृपां कुरु तथा नाथ त्वयि चित्तं स्थिरं यथा । मम स्याज्ज्ञानसंयुक्तं तव ध्यानपरायणम् ॥ ६॥ मायया ते विमूढोऽस्मि न पश्यामि हिताहितम् । संसारपारपाथोधौ पतितं मां समुद्धर ॥ ७॥ परमात्मँस्त्वयि सदा मम स्यान्निश्चला मतिः । संसारदुःखगहनात्त्वं सदा रक्षको मम ॥ ८॥ परमात्मन इदं स्तोत्रं मोहविच्छेदकारकम् । ज्ञानदं च भवेन्नॄणां योगानन्देन निर्मितम् ॥ ९॥ इति श्रीयोगानन्दतीर्थविरचितं परमात्माष्टकं सम्पूर्णम् ॥