अक्षर आकार:

नागार्जुनकृता परमार्चनत्रिंशिका

Paramarchanatrimshika by Nagarjuna

नागार्जुनकृता परमार्चनत्रिंशिका

अथ परमार्चनत्रिंशिका नागार्जुनकृता । स्नानपूजनसमाधिभिः क्रमात् यन्महात्मभिरवाप्यते पदम् । कैश्चिदक्रमत एव यन्मया तत्समर्चनमिषेण कथ्यते ॥ १॥ बालिकारचितवस्त्रपुत्रिका- क्रीडनेन सदृशं तदर्चनम् । यत्र शाम्यति मनो न निर्मलं स्फीतचिज्जलधि मध्यमाश्रितम् ॥ २॥ किं तदर्चनमनल्प कल्पना जालशम्बरनिपातितात्मकम् । यत्र नास्ति स्वविकल्पनोज्ज्ञितः स्फीतसौख्यशिवसङ्गमोत्सवः ॥ ३॥ अप्रयत्नमनिकेतनं पदं दिव्यमाप्य मनसैव वृत्तयः । यत्र यान्ति विलयं न सर्वतः किं तदर्चनमसौ पराभवः ॥ ४॥ यत्र वर्षति न खेचरी स्थिति श्चित्सुधारस भरौघनिझरं देहचित्त परिपीडना दहं किं तदर्चनमसौ पराभवः ॥ ५॥ खेचरीप्रभृतिपञ्चकात्मना व्याप्तिमम्बरगतां निभालयन् । हृद्विकास सुलभां भवापदो यत्र मुञ्चति न किं तदर्चनम् ॥ ६॥ यत्र साहससमाधि सञ्चयः प्रस्फुलद्विमलबोधनिर्झरः । स्फीतसंविदुदयं न विन्दते सर्ववृत्तिषु किमेतदर्चनम् ॥ ७॥ विश्वसंसृतिरसैक तत्परो लेलिहानरसना कुतो यमः । यत्र चित् शिखिशिखासु हूयते लीलयैव न किमेतदर्चनम् ॥ ८॥ स्तब्ध मन्थर मनोहरेक्षणः प्रोल्लसत्पुल कम्बिताननः । मध्यमां भुवमनल्प सम्पदं यत्र नाश्रयति किं तदर्चनम् ॥ ९॥ मानमेयमिति कल्पनोज्झितो निर्विकारमनिकेतनः शिवः । गाडगाडमवगाह्यते क्षणात् नैव यत्र ननु किं तदर्चनम् ॥ १०॥ व्योमकल्पममितं निजं वपुः वीक्ष्य चित्पर सुधार साञ्चितम् । स्वात्मनात्मनि निरस्तकल्पना यत्र हृष्यति न किं तदर्चनम् ॥ ११॥ निर्निकेतनिरुपाधि विप्लवः स्फारचिद्रविमरीचिसञ्चयैः । विश्वमारचितमीक्ष्य विस्मयं यत्र नाविशतिं किं तदर्चनम् ॥ १२॥ यत्र नित्य परहर्ष निर्भरः चित्सुधार सविपान घूर्णितः । ध्यानयोग कलनासु लज्जते नीरसासु न किमेतदर्चनम् ॥ १३॥ शक्ति विस्तर विमर्शा विस्फुरत् कन्द युग्म युग पद्विगाहनात् । भैरवं वपु रुदार चेष्टितं यत्र न स्फुरति किं तदर्चनम् ॥ १४॥ इन्द्रियेषु विषयानुवर्तिषु प्राणवर्त्म॑नि निजप्रवाहके । कापि निर्वृतिमये चिदर्जिता यत्र नोल्लसति किं तदर्चनम् ॥ १५॥ दिव्य खेचरदृशा निरीहयां नादबिन्दु मयभाव सञ्चयम् । यत्र शुष्कमिव पावकस्तृणं न क्षयं नयति किं तदर्चनम् ॥ १६॥ शान्तिमेत्य न विकल्पविप्लवः चिच्चमत्कृतिरसो न वर्धते । लुप्यते न घनवासनावनं कापि तृप्तिरसमा न जायते ॥ १७॥ मन्यते न कृतकृत्यतां जनो द्वैतमेघतिमिरं न भिद्यते । यत्र दोषशत सङ्कुलं मनो न प्रसीदति किमेतदर्चनम् ॥ १८॥ चिन्नभः सरसि सारसीं परां शक्तिमच्छप्रभवां प्रबोधयन् । मन्त्रवीर्यममित निसर्गतो यत्र नाश्रयति किं तदर्चनम् ॥ १९॥ निर्विकारमजरं निरामयं निर्विकल्पममलं निजं वपुः । वीक्ष्य जन्ममरणोद्यतं भयं यत्र मुञ्चति न किं तदर्चनम् ॥ २०॥ शान्तवीचिचयसिन्धुसन्निभां सर्वसंविदुदयावनिं पराम् । सृष्टिसंस्थितिलयं प्रसक्तिभिः विश्व सुन्दर विवत वर्तिनीम् ॥ २१॥ शक्ति चक्र परमादि देवतां अम्बरप्रथम भूमिकामजाम् । मङ्गलाम सममन्त्रमातरं यत्र पश्यति न किं तदर्चनम् ॥ २२॥ सोम सूर्य दहनेन्धनोद्धतः स्फीतचित्ज्वलन दीप्तिभास्वरः । दुर्निरीक्ष्यगति ?द्धितेजसा भाति यत्र न किमेतदर्चनम् ॥ २३॥ आत्मनात्मनि न जानति विधिं निस्तरङ्गपरबौधभास्वरः । यत्पदस्थितिजुषो महाजनः मुक्ति संसृति समान बुद्धयः ॥ २४॥ यद्यदा पतति वेद्यता भुवं तेन तेन ननु यद्विवर्जितम् । नित्य निर्मल समानभूमयो यत्पदे विमतिबाल कल्पनाः ॥ २५॥ यद्विश‍ृङ्खलमदोदयोल्लसत् शक्तिपातवशतो विजृम्भते । तत्पदं यदि गुरु प्रसादतो लब्धमुत्तम मथार्चितः शिवः ॥ २६॥ भावसञ्चय विमुक्त विग्रहा विश्वमय्यपि परप्रथात्मिका । कापि संविदमलाम्बरप्रभा जृम्भते यदि तदार्चितः शिवः ॥ २७॥ किञ्चनापि न विमुच्यते क्वचित् किञ्चनापि नच गृह्यते क्वचित् । स्वं वपुर्विमल बोध निर्भरं दृश्यते यदि तदार्चितः शिवः ॥ २८॥ भैरवा विविन्ध कल्पनात्मकाः प्रोल्लसन्ति बहवो यतोऽम्बिका । सा यतः स्फुरति तत्परं पदं भाति चेद्गुरुदृशा शिवोऽर्चितः ॥ २९॥ आसादितं गुरुमुखादिदमप्रयत्न- सिद्धं शिवार्चनमपाप धियामवाप्यम् । यत्तन्मया निगदितं तदनल्पवाञ्छा सम्बोधनाय सुधियां शिवभक्तिभाजाम् ॥ ३०॥ अनवच्छिन्न चिद्व्योम परमामृतबृंहितः । नागार्जुनो व्यधादेनां परमार्चनत्रिंशिकाम् ॥ इति नागार्जुनकृता परमार्चनत्रिंशिका समाप्ता ।