अक्षर आकार:

पञ्चदेवतास्तोत्रम्

pa~nchadevatAstotram

पञ्चदेवतास्तोत्रम्

श्रीगणेशाय नमः । गणेशविष्णुसूर्येशदुर्गाख्यं देवपञ्चकम् । वन्दे विशुद्धमनसा जनसायुज्यदायकम् ॥ १॥ एकरूपान् भिन्नमूर्तीन् पञ्चदेवान्नमस्कृतान् । वन्दे विश्णुद्धभावेनेशाम्बेनैकरदाच्युतान् ॥ २॥ कल्याणदायिनो देवान्नमस्कार्यात्महौजसः । विष्णुशम्भुशिवासूयगणेशाख्यान्नमाम्यहम् ॥ ३॥ एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान् । शिवविष्णुशिवासूर्यहेरम्वान् प्रणमाम्यहम् ॥ ४॥ दिव्यरूपानेकरूपान्नानारूपान्नमस्कृतान् । शिवाशङ्करहेरम्बविष्णुसूर्यान्नमाम्यहम् ॥ ५॥ नित्यानानन्दसन्दोहदायिनो दीनपालकान् । शिवाच्युतगणेशेनडुर्गाख्यान् नौम्यहं सुरान् ॥ ६॥ कमनीयतनून्देवान् सेवावश्यान् कृपावतः । शङ्करेनशिवाविष्णुगणेशाख्यान्नमाम्यहम् ॥ ७॥ सूर्यविष्णुशिवाशम्भुविघ्नराजाभिधान्सुरान् । एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥ ८॥ हरौ हरे तीक्ष्णकरे गणेशे शक्तौ न भेदो जगदादिहितेषु । अधः पतन्त्येषु भिदां दधाना भाषान्त एवं यततोऽच्य्ताश्रमाः ॥ ९॥ इति श्रीमदच्युताश्रमविरचितं पञ्चदेवतास्तोत्रम् संपूर्णम् ॥