अक्षर आकार:

नववर्णमाला

navavarNamAlA

नववर्णमाला

॥श्रीः॥ ॥ श्री सदाशिवब्रह्मेन्द्रविरचिता ॥ ओंकारैकनिरूप्यं पङ्कजभवनादिभावितपदाब्जम् । किंकरकैरवशशिनं शंकरमेकं कलये॥ १ ॥ ऐन्द्रं पदमपि मनुते नैव वरं यस्य पदरजःस्पर्शात् । सान्द्रसुखोदधिमेकं चन्द्रकलोत्तंसमीशमासेवे॥ २ ॥ नागेशकृत्तिवसनं वागीशाद्यैकवन्दिताङ्घ्रियुगम् । भोगीशभूषिताङ्गं भागीकृतसर्वमङ्गलं नौमि॥ ३ ॥ नगराजशिखरवासिनं अगजामुखकुमुदकौमुदीनिकरम् । गगनशिरोरुहमेकं निगमशिरस्तन्त्रविदितमवलंबे॥ ४ ॥ मन्दस्मितलसदाननं इन्दुकलोत्तंसमम्बिकासचिवम् । कंदर्पकोटिशतगुण-सुन्दरदिव्याकृतिं शिवं वन्दे॥ ५ ॥ मस्तक नम कमलांघ्रिं संस्तुहि भो वाणि वरगुणोदारम् । हस्तयुगार्चय शर्वं स्वस्थो निवसामि निजमहिम्न्यमुना॥ ६ ॥ क्लिन्नेक्षणमतिकृपया संनुतमहिमानमागमशिरोभिः । तं नौमि पार्वतीशं पन्नगवरभूषणोज्ज्वलकराब्जम्॥ ७ ॥ वटविटपिनिकटनिलयं कुटिलजटाघटितहिमकरोदारम् । कटिलसितकरटिकृत्तिं निटिलाम्बकमेकमालंबे॥९ ॥ वामाङ्ककलितकान्तं कामान्तकमादिदैवतं दान्तम् । भूमानन्दघनं तद्धाम किमप्यन्तरान्तरं भाति॥ १० ॥ यदपाङ्गितात्प्रबोधात्पदमलभेऽखण्डितात्ममात्रमहम् । सदयं सांबशिवं तं मदनान्तकमादिदैवतं नौमि॥ ११ ॥ सौस्नातिकममृतजलैः सुस्मितवदनेन्दुसमुदितदिगन्तम् । संस्तुतममरगणैस्तं निस्तुलमहिमानमानतोऽस्मि शिवम्॥ १२ ॥ नववर्णमालास्तुतिमेतामादिदेशिकेन्द्रस्य । धारयतः स्याद्भुक्तिः सकलकलावाप्तिरथ परा मुक्तिः॥ १३ ॥ ॥ इति श्री सदाशिवब्रह्मेन्द्रविरचिता नववर्णमाला संपूर्णा॥