अक्षर आकार:

नटेश्वरसहस्रनामस्तोत्रस्य उत्तरपीठिका

naTeshvarasahasranAmastotrasya uttarapIThikA

नटेश्वरसहस्रनामस्तोत्रस्य उत्तरपीठिका

श्रीगणेशाय नमः । श्रीचिदम्बरनटेश्वर सहस्रनामस्तोत्रस्य उत्तरपीठिका ॥ इति ते कथितं देवि नटराजस्य सुन्दरम् । नाम्नां सहस्रमत्यन्तं गोप्यं नेदं प्रकाशयेत् ॥ १॥ सर्वसिद्धिकरं पुण्यं सर्वविद्याविवर्धनम् । सम्पद्प्रदमिदं नृणां सर्वापद्घ्नमघापहम् ॥ २॥ अभिचार प्रयोगादि महाकृत्य निवारणम् । अपस्मार महाव्याधि ज्वरकुष्ठादि नाशनम् ॥ ३॥ अत्युत्पाद भयक्षोभ क्षुद्रशान्तिद कारणम् । कूश्माण्ड रुद्र वेताल शाकिन्यादि भयापहम् ॥ ४॥ स्मरणादेव जन्तूनां ब्रह्महत्यादि नाशनम् । अस्मात्परतरं स्तोत्रं नास्ति लोकत्रयेऽम्बिके ॥ ५॥ एतन्नाम सहस्रस्य पठनात् सकृदेव हि । महापातकयुक्तोऽपि शिवसायुज्यमाप्नुयात् ॥ ६॥ प्रयोगलक्षणं वक्ष्ये श‍ृणु शैलसुतेऽधुना । पज्चम्यामथवाऽष्टम्यां दशम्यां वा विशेषतः ॥ ७॥ स्नात्वा शुभासने स्थित्वा ध्यायन् श्रीनटनायकम् । प्रजपेत्द्वादशावृत्या सर्वान् कामान् लभेन्नर। ॥ ८॥ आर्द्रायां प्रातरारभ्य नटराजस्य सन्निधौ । आसायं प्रजपेदेतत् एवं संवत्सरत्रयम् ॥ ९॥ तस्य भक्तस्य देवेशो नटनं दर्शयेत्प्रभुः । बिल्ववृक्षस्य निकटे त्रिवारं प्रजपेदिदम् ॥ १०॥ षड्भिर्मासैर्महैश्वर्यं लभते न चिरान्नरः । अनेन स्तोत्रराजेन मन्त्रितं भस्मधारयेत् ॥ ११॥ भस्मावलोकनान्मृत्युर्वश्यो भवति तत्क्षणात् । सलिलं प्राशयेद्धीमान् मन्त्रेणानेन मन्त्रितम् ॥ १२॥ सर्वविद्यामयो भूत्वा व्याकरोत्यश्रुतादिकम् । नाटकादि महाग्रन्थं कुरुते नात्र संशयः ॥ १३॥ चतुर्थ्यन्तं समुच्चार्यनामैकैकं ततो जपेत् । पञ्चाक्षरं तथा नाम्नां सहस्रं प्रजपेत्क्रमात् ॥ १४॥ एवं त्रिवारं मासानामष्टाविंशतिके गते । निग्रहानुग्रहौ कर्तुं शक्तिरस्योपजायते ॥ १५॥ नाम्नामादौ तथान्ते च पञ्चाक्षरमहामनुम् । जप्त्वा मध्यस्थितं नाम निर्ममोन्तं सदा सकृत् ॥ १६॥ चतुर्थ्यन्तं जपेद्विद्वान् त्रिवर्षं च त्रिमासकैः । अणिमादि महासिद्धि रचिरात् प्राप्नुयाद्ध्रुवम् ॥ १७॥ सर्वेष्वपि च लोकेषु सिद्धः सन्विचरेन्नरः । लक्ष्मीबीज द्वयक्षिप्तमाद्यं तन्नाम यः शिवे ॥ १८॥ वाञ्छितां श्रियमाप्नोति सत्यमुक्तं वरानने । हल्लेखामन्त्र संयुक्तं पूर्ववत् संयुतं जपेत् ॥ १९॥ योगसिद्धिर्भवेत्तस्य त्रिचतुः पञ्चवत्सरैः । किमत्र बहुनोक्तेन याया सिद्धिरभीप्सिता ॥ २०॥ तां तां सिद्धिं लभेन्मर्त्यः सत्यमेव मयोदितम् । कण्ठदघ्नजलेस्थित्वा त्रिवारं प्रजपेदिदम् ॥ २१॥ रिपूनुच्वाटयेच्छीघ्रमेकेनैव दिनेन सः । दक्षिणाभिमुखोभूत्वा धृत्वाऽऽर्द्रवसनं शुचिः ॥ २२॥ शत्रुनामसमुच्वार्य मारयेतिपदाङ्कितम् । पठेदिदं स्तवं क्रोधात् सप्तकृत्वस्त्रिभिर्दिनैः ॥ २३॥ स रिपुर्मृत्युगेहस्य ध्रुवमातिथ्यभाग्भवेत् । हरिद्रया नटाधीशं कृत्वा प्राणान् प्रतिष्ठिपेत् ॥ २४॥ पीतपुष्पैः समभ्यर्च्य स्तोत्रमेतज्जपेन्नरः । स्तम्भयेत्सकलान्लोकान् किमिहक्षुद्रमानुषान् ॥ २५॥ आकर्षणाय सर्वेषामुत्तराभिमुखोजपेत् । वाञ्छितायोषितस्सर्वास्तथा लोकान्तरस्थिताः ॥ २६॥ यक्षाश्च किन्नराश्चापि राजानोवशमाप्नुयुः । कुम्भस्थितं जलंस्पृष्ट्वा त्रिवारं प्रजपेदिदम् ॥ २७॥ महाग्रहगणग्रस्तान् अभिषेकञ्चकारयेत् । जलस्पर्शनमात्रेणमुच्यते च ग्रहादिभिः ॥ २८॥ किमत्र बहुनोक्तेन सिद्धयन्त्यखिलसिद्धयः । साक्षान्नटेश्वरो देवो वश्यो भवति तत्क्षणात् ॥ २९॥ (शैलजे ॥ ) अस्मात्परतरासिद्धिः कावास्तिकथयप्रिये । निष्कामस्याचिरादेव ब्रह्मज्ञानमवाप्यते ॥ ३०॥ तस्मात्सर्वप्रयत्नेन यतिभिर्ब्रह्मचारिभिः । वनस्थैश्च गृहस्थैश्च सर्वैर्जप्यं प्रयत्नतः ॥ ३१॥ नित्यकर्मवदेवेदं स्तोत्रं जप्यं सदादरात् । ब्रह्मादयोऽपि यन्नाम पाठस्यैव प्रसादतः ॥ ३२॥ सृष्टित्वित्यन्तकर्तारो जगतां चिरजीविनः । यदिदं मुनयः सर्वे हयग्रीवादयः पुरा ॥ ३३॥ पठित्वा परमां सिद्धिं पुनरावृत्तिवर्जिताम् । प्रापिरे तदिदं स्तोत्रं पठत्वमपि शैलजे ॥ ३४॥ अस्मात् परतरं वेद्यं नास्ति सत्यं मयोदितम् । ॥ इत्युत्तर पीठिका ॥ इत्याकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे पञ्चविंशतिमूर्तिप्रकरणे तत्वातीत श्री चिदम्बर नटेश्वर सहस्रनामस्तोत्रमालामहामनोपदशो नाम एकोनषष्टितमोऽध्यायः ॥ ॐ शिवमस्तु ॥ The text follows after the Nateshasahasranamastotram given separately.