अक्षर आकार:

श्रीनटेशसहस्रनामस्तोत्रम्

shrI naTesha sahasranAmastotram

श्रीनटेशसहस्रनामस्तोत्रम्

पूर्वपीठिका यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशाय तस्मै कारुण्यमूर्तये ॥ ॐ कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् । शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ १॥ विनयावनता भूत्वा पप्रच्छ परमेश्वरी । भगवन् भव सर्वज्ञ भवतापहराव्यय ॥ २॥ त्वत्तः श्रुतं मया देव सर्वं नामसहस्रकम् । नटेशस्य तु नामानि न श्रुतानि मया प्रभो ॥ ३॥ असंकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि । इदानीं कृपया शम्भो वद वाञ्छाभिपूर्तये ॥ ४॥ श्री शिव उवाच साधु साधु महादेवि पृष्टं सर्वजगद्धितम् । पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ५॥ क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् । मामेकाग्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ६॥ तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् । ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ७॥ तुष्टाव विविधैस्स्तोत्रैर्वेदवेदान्तसम्मितैः । वरं वरय हे वत्स यदिष्टं मनसि स्थितम् ॥ ८॥ तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः । प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ९॥ रक्षार्थं सर्वजगतामसुराणां क्षयाय च । सार्वात्म्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १०॥ इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके । सञ्चिन्त्यानुत्तमं स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ ११॥ नटेशनामसाहस्रमुक्तवानस्मि विष्णवे । तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ॥ १२॥ सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः । तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ॥ १३॥ पठनान्मननात्तस्य नृत्तं दर्शयति प्रभुः । सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ॥ १४॥ सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् । वक्ष्यामि श‍ृणु हे देवि नामसाहस्रमुत्तमम् ॥ १५॥ अथ श्रीनटेशसहस्रनामस्तोत्रम् । ॐ अस्य श्रीनटेशसहस्रनामस्तोत्रमालामहामन्त्रस्य सदाशिव ऋषिः, महाविराट् छन्दः श्रीमन्नटेशो देवता । बीजं, शक्तिः, कीलकं, अङ्गन्यासकरन्यासौ च चिन्तामणिमन्त्रवत् । ध्यानम् ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां (स्थितां) श्यामलां कल्हारं जपसृक्षुकं (दधतीं प्रलम्बितकरा) कटिकरां देवीं सभेशं भजे ॥ लं पृथिव्यात्मकम् इत्यादिना पञ्चपूजा । श्रीशिव उवाच श्रीशिवः श्रीशिवानाथः श्रीमान् श्रीपतिपूजितः । शिवङ्करः शिवतरश्शिष्टहृष्टश्शिवागमः ॥ १॥ अखण्डानन्दचिद्रूपः परमानन्दताण्डवः । अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ २॥ कालीवादप्रियः कालः कालातीतः कलाधरः । कालनेता कालहन्ता कालचक्रप्रवर्तकः ॥ ३॥ कालज्ञः कामदः कान्तः कामारिः कामपालकः । कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ ४॥ कालकण्ठः कालकालः कालकूटविषाशनः । कृतज्ञः कृतिसारज्ञः कृशानुः कृष्णपिङ्गलः ॥ ५॥ करिचर्माम्बरधरः कपाली कलुषापहः । कपालमालाभरणः कङ्कालः कलिनाशनः ॥ ६॥ कैलासवासी कामेशः कविः कपटवर्जितः । कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ ७॥ कन्दर्पकोटिसदृशः कपर्दी कमलाननः । कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ ८॥ कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः । स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ॥ ९॥ उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः । सव्यताण्डवसम्पन्नो महाताण्डववैभवः ॥ १०॥ ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः । महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ॥ ११॥ नन्दिनाट्यप्रियो नन्दी नटेशो नटवेषभृत् । कालिकानाट्यरसिको निशानटननिश्चलः ॥ १२॥ भृङ्गिनाट्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् । वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ १३॥ विकाररहितो विष्णुर्विराडीशो विराण्मयः । विराढृदयपद्मस्थो विधिर्विश्वाधिको विभुः ॥ १४॥ वीरभद्रो विशालाक्षो विष्णुबाणो विशाम्पतिः । विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ॥ १५॥ विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः । व्योमकेशो व्योममूर्तिर्व्योमाकारोऽव्ययाकृतिः ॥ १६॥ व्याघ्रपादप्रियो व्याघ्रचर्मधृद्व्याधिनाशनः । व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ १७॥ व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः । वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्मभृत् ॥ १८॥ वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः । वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंस्तुतः ॥ १९॥ वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः । समस्तभुवनव्यापी समृद्धस्सततोदितः ॥ २०॥ सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः । जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ॥ २१॥ शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः । अनर्घरत्नखचितकिरीटो निकटे स्थितः ॥ २२॥ सुधारूपः सुराध्यक्षः सुभ्रूः सुखघनः सुधीः । भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ॥ २३॥ भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः । अरुणः शरणः शर्वः शरण्यः शर्मदः शिवः ॥ २४॥ पवित्रः परमोदारः परमापन्निवारकः । सनातनस्समः सत्यः सत्यवादी समृद्धिदः ॥ २५॥ धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः । तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्त्वबोधकः ॥ २६॥ राजराजेश्वरो रम्यो रात्रिञ्चरविनाशनः । गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ २७॥ पतञ्जलिप्राणनाथः परापरविवर्जितः । परमात्मा परज्योतिः परमेष्ठी परात्परः ॥ २८॥ नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः । नमदानन्ददो नम्यो नगराजनिकेतनः ॥ २९॥ दैव्यो भिषक्प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः । कृताकृतः कृशः कृष्णः शान्तिदश्शरभाकृतिः ॥ ३०॥ ब्रह्मविद्याप्रदो ब्रह्मा बृहद्गर्भो बृहस्पतिः । सद्यो जातस्सदाराध्यः सामगस्सामसंस्तुतः ॥ ३१॥ अघोरोऽद्भुतचारित्र आनन्दवपुरग्रणीः । सर्वविद्यानामीशान ईश्वराणामधीश्वरः ॥ ३२॥ सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः । सर्वज्ञः सर्वदः स्थाणुः सर्वेशस्समरप्रियः ॥ ३३॥ जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः । मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ॥ ३४॥ व्पुप्तकेशो विविशदो विष्वक्सेनो विशोधकः । सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ॥ ३५॥ सहस्राक्षार्चितः सम्राट् सन्धाता सम्पदालयः । बभ्रुर्बहुविधाकारो बलप्रमथनो बली ॥ ३६॥ मनोभर्ता मनोगम्यो मननैकपरायणः । उदासीन उपद्रष्टा मौनगम्यो मुनीश्वरः ॥ ३७॥ अमानी मदनोऽमन्युरमानो मानदो मनुः । यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ३८॥ मीढुष्टमो मृगधरो मृकण्डुतनयप्रियः । पुरुहूतः पुरद्वेषी पुरत्रयविहारवान् ॥ ३९॥ पुण्यः पुमान्पुरिशयः पूषा पूर्णः पुरातनः । शयनश्शन्तमः शान्त शासकश्श्यामलाप्रियः ॥ ४०॥ भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः । मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ४१॥ निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराश्रयः । निर्विकल्पो निरालम्बो निर्विकारो निरामयः ॥ ४२॥ निरङ्कुशो निराधारो निरपायो निरत्ययः । गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ॥ ४३॥ प्रमाणं प्रणवः प्राज्ञः प्राणदः प्राणनायकः । सूत्रात्मा सुलभस्स्वच्छः सूदरस्सुन्दराननः ॥ ४४॥ कपालमालालङ्कारः कालान्तकवपुर्धरः । दुराराध्यो दुराधर्षो दुष्टदूरो दुरासदः ॥ ४५॥ दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः । सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ॥ ४६॥ सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः । सर्वप्रियतमस्सर्वदारिद्यक्लेशनाशनः ॥ ४७॥ द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् । दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४८॥ समदृष्टिस्सत्यकामः सनकादिमुनिस्तुतः । पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥ पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः । पञ्चभूतप्रभुः पञ्चपूजासन्तुष्टमानसः ॥ ५०॥ विघ्नेश्वरो विघ्नहन्ता शक्तिपाणिश्शरोद्भवः । गूढो गुह्यतमो गोप्यो गोरक्षी गणसेवितः ॥ ५१॥ सुव्रतस्सत्यसङ्कल्पः स्वसंवेद्यस्सुखावहः । योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ५२॥ तत्वावबोधस्तत्वेशः तत्वभावस्तपोनिधिः । अक्षरस्त्र्यक्षरस्त्रयक्षः पक्षपातविवर्जितः ॥ ५३॥ माणिभद्रार्चितो मान्यो मायावी मान्त्रिको महान् । कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ ५४॥ यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः । सिद्धेशस्सिद्धिजनकः सिद्धान्तस्सिद्धवैभवः ॥ ५५॥ रविमण्डलमध्यस्थो रजोगुणविवर्जितः । वह्निमण्डलमध्यस्थो वर्षीयान् वरुणेश्वरः ॥ ५६॥ सोममण्डलमध्यस्थः सोमस्सौम्यस्सुहृद्वरः । दक्षिणाग्निर्गार्हपत्यो दमनो दमनान्तकः (दानवान्तकः) ॥ ५७॥ चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परं तपः । विश्वस्यायतनो वर्यो वन्दारुजनवत्सलः ॥ ५८॥ गायत्रीवल्लभो गार्ग्यो गायकानुग्रहोन्मुखः । अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिस्स्वधा ॥ ५९॥ स्वाहारूपो वसुमनाः वटुकः क्षेत्रपालकः । श्राव्यश्शत्रुहरश्शूली श्रुतिस्मृतिविधायकः ॥ ६०॥ अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः । अनुत्तमो ह्युदासीनो मुक्तिदो मुदिताननः ॥ ६१॥ ऊर्ध्वरेता ऊर्ध्वपादः प्रौढनर्तनलम्पटः । महामायो महायासो महावीर्यो महाभुजः ॥ ६२॥ महानन्दो महास्कन्दो महेन्द्रो महसान्निधिः । भ्राजिष्णुर्भावनागम्यः भ्रान्तिज्ञानविनाशनः ॥ ६३॥ महर्धिर्महिमाधारो महासेनगुरुर्महः । सर्वदृग्सर्वभूत्सर्गः सर्वहृत्कोशसंस्थितः ॥ ६४॥ दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः । संयद्वामस्सङ्यमीन्द्रः संशयच्छित्सहस्रदृक् ॥ ६५॥ हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः । हेलाविनिर्मितजगद्धेमश्मश्रुर्हिरण्मयः ॥ ६६॥ सकृद्विभातस्संवेत्ता सदसत्को टिवर्जितः । स्वात्मस्थस्स्वायुधः स्वामी स्वानन्यस्स्वांशिताखिलः ॥ ६७॥ रातिर्दातिश्चतुष्पादः स्वात्मरुणहरस्स्वभूः । वशी वरेण्यो विततो वज्रभृद्वरुणात्मजः ॥ ६८॥ चैतन्यश्चिच्छिदद्वैतः चिन्मात्रश्चित्सभाधिपः । भूमा भूतपतिर्भव्यो भृर्भुवो व्याहृतिप्रियः ॥ ६९॥ वाच्यवाचकनिर्मुक्तो वागीशो वागगोचरः । वेदान्तकृत्तुर्यपादो वैद्युतस्सुकृतोद्भवः ॥ ७०॥ अशुभक्षयकृज्ज्योतिः अनाकाशो ह्यलेपकः । आप्तकामोऽनुमन्ताऽऽत्म कामोऽभिन्नोऽनणुर्हरः ॥ ७१॥ अस्नेहस्सङ्गनिर्मुक्तोऽह्रस्वोऽदीर्घोऽविशेषकः । स्वच्छन्दस्स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमृतः ॥ ७२॥ अपरोक्षोऽव्रणोऽलिङ्गोऽविद्वेष्टा प्रेमसागरः । ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽवभासकः ॥ ७३॥ शुद्धस्फटिकसङ्काशः श्रुतिप्रस्तुतवैभवः । हिरण्यबाहुस्सेनानी हरिकेशो दिशां पतिः ॥ ७४॥ सस्पिञ्जरः पशुपतिः त्विषीमानध्वनां पतिः । बभ्लुशो भगवान्भव्यो विव्याधी विगतज्वरः ॥ ७५॥ अन्नानां पतिरत्युग्रो हरिकेशोऽद्वयाकृतिः । पुष्टानां पतिरव्यग्रो भवहेतुर्जगत्पतिः ॥ ७६॥ आततावी महारुद्रः क्षेत्राणामधिपोऽक्षयः । सूतस्सदस्पतिस्सूरिरहन्त्यो वनपो वरः ॥ ७७॥ रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः । कक्षपश्च भुवन्तिश्च भवाख्यो वारिवस्कृतः ॥ ७८॥ ओषधीशस्सतामीशः उच्चैर्घोषो विभीषणः । पत्तीनामधिपः कृत्स्नवीतो धावन्स सत्वपः ॥ ७९॥ सहमानस्सत्यधर्मा निव्याधी नियमो यमः । आव्याधिपतिरादित्यः ककुभः कालकोविदः ॥ ८०॥ निषङ्गीषुधिमानिन्द्रः तस्कराणामधीश्वरः । निचेरुकः परिचरोऽरण्यानां पतिरद्भुतः ॥ ८१॥ सृकावी मुष्णातां नाथः पञ्चाशद्वर्णरूपभृत् । नक्तञ्चरः प्रकृन्तानां पतिर्गिरिचरो यः ॥ ८२॥ कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः । आतन्वानश्शतानन्दः गृत्सो गृत्सपतिस्सुरः ॥ ८३॥ व्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लकः क्षमी । बिल्मी वरूथी दुन्दुभ्य आहनन्यः प्रमर्शकः ॥ ८४॥ धृष्णुर्दूतस्तीक्ष्णदंष्ट्रः सुधन्वा सुलभस्सुखी । स्रुत्यः पथ्यः स्वतन्त्रस्थः काट्यो नीप्यः करोटिभृत् ॥ ८५॥ सूद्यस्सरस्यो वैशन्तो नाद्योऽवट्यः प्रवर्षकः । विद्युत्यो विशदो मेध्यो रेष्मियो वास्तुपो वसुः ॥ ८६॥ अग्रेवधोऽग्रे सम्पूज्यो हन्ता तारो मयोभवः । मयस्करो महातीर्थ्यः कूल्यः पार्यः पदात्मकः ॥ ८७॥ शङ्गः प्रतरणोऽवार्यः फेन्यः शष्प्यः प्रवाहजः । मुनिरातार्य आलाद्य सिकत्यश्चाथ किंशिलः ॥ ८८॥ पुलस्त्यः क्षयणो गृध्यो गोष्ठ्यो गोपरिपालकः । शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पर्ण्योऽणिमादिभूः ॥ ८९॥ पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः । शीघ्रियश्शीभ्य आनन्द क्षयद्वीरः क्षराऽक्षरः ॥ ९०॥ पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः । वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ॥ ९१॥ ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः । कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ९२॥ नैष्कर्म्यदो नवरसः त्रिस्थस्त्रिपुरभैरवः । त्रिमात्रकस्त्रिवृदूपः तृतीयस्त्रिगुणातिगः ॥ ९३॥ त्रिधामा त्रिजगद्धेतुः त्रिकर्ता तिर्यगूर्ध्वगः । प्रपञ्चोपशमो नामरूपद्वयविवर्जितः ॥ ९४॥ प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी । सुनिश्चितार्थो राद्धान्तः तत्वमर्थस्तपोमयः । हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाश्रयः । विश‍ृङ्खलो वियद्धेतुः विषमो विद्रुमप्रभः ॥ ९६॥ अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः । अनन्तशक्तिराचार्यः पुष्कलस्सर्वपूरणः ॥ ९७॥ पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः । ध्यानगम्यो ध्यातृरूपो ध्येयो धर्मविदां वरः ॥ ९८॥ अवशः स्ववशः स्थाणुरन्तर्यामी शतक्रतुः । कूटस्थः कूर्मपीठस्थः कूष्माण्डग्रहमोचकः ॥ ९९॥ कूलङ्कषः कृपासिन्धुः कुशली कुङ्कुमेश्वरः । गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥ १००॥ जवनो जगदाधारो जमदग्निर्जराहरः । जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ॥ १०१॥ विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः । चतुर्भुजश्शततनुः शमिताखिलकौतुकः ॥ १०२॥ वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः । ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मज्ञो ब्रह्मचेतनः ॥ १०३॥ गायको गरुडारूढो गजासुरविमर्दनः । गर्वितो गगनावासो ग्रन्थित्रयविभेदनः ॥ १०४॥ भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् । अतर्क्यस्सुकरः सूरः सत्तामात्रस्सदाशिवः ॥ १०५॥ शक्तिपातकरश्शक्तः शाश्वतश्श्रेयसा निधिः । अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ १०६॥ अनावरणविज्ञानो निर्विभागो विभावसुः । विज्ञानमात्रो विरजाः विरामो विबुधाश्रयः ॥ १०७॥ विदग्दमुग्धवेषाढ्यो विश्वातीतो विशोकदः । मायानाट्यविनोदज्ञो मायानटनशिक्षकः ॥ १०८॥ मायानाटककृन्मायी मायायन्त्रविमोचकः । वृद्धिक्षयविनिर्मुक्तो विद्योतो विश्वञ्चकः ॥ १०९॥ कालात्मा कालिकानाथः कार्कोटकविभूषणः । षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११०॥ षडाधारगतः साङ्ख्यः षडक्षरसमाश्रयः । अनिर्देश्योऽनिलोऽगम्योऽविक्रियोऽमोघवैभवः ॥ १११॥ हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः । अपर्यन्तीऽपरिच्छेद्योऽगोचरो रुग्विमोचकः ॥ ११२॥ निरंशो निगमानन्दो निरानन्दो निदानभूः । आदिभूतो महाभूतः स्वेच्छाकलितविग्रहः ॥ निस्पन्दः प्रत्यगानन्दो निर्निमेषो निरन्तरः । प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ११४॥ संवत्सरः कलापूर्णः सुरासुरनमस्कृतः । निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ आभास्वरः परं तत्वमादिमः पेशलः पविः । संशान्तसर्वसङ्कल्पः संसदीशस्सदोदितः ॥ ११६॥ भावाभावविनिर्मुक्तो भारूपो भावितो भरः । सर्वातीतस्सारतरः साम्बस्सारस्वतप्रदः ॥ ११७॥ सर्वकृत्सर्वभृत्सर्वमयस्सत्वावलम्बकः । केवलः केशवः केलीकर केवलनायकः ॥ ११८॥ इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः । विजिघत्सो विगतभीः विपिपासो विभावनः ॥ ११९॥ विश्रान्तिभूर्विवसनो विघ्नहर्ता विशोधकः । वीरप्रियो वीतभयो विन्ध्यदर्पविनाशनः ॥ १२०॥ वेतालनटनप्रीतो वेतण्डत्वक्कृताम्बरः । वेलातिलङ्घिकरुणो विलासी विक्रमोन्नतः ॥ १२१॥ वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः । महाकर्ता महाभोक्ता महासंविन्मयो मधुः ॥ १२२॥ मनोवचोभिरग्राह्यो महाबिलकृतालयः । अनहङ्कृतिरच्छेद्यः स्वानन्दैकघनाकृतिः ॥ १२३॥ संवर्ताग्न्युदरस्सर्वान्तरस्थस्सर्वदुर्ग्रहः । सम्पन्नस्सङ्क्रमस्सत्री सन्धाता सकलोर्जितः ॥ १२४॥ सम्पन्नस्सन्निकृष्टः संविमृष्टस्समयदृक् । संयमस्थः संहृतिस्थः सम्प्रविष्टस्समुत्सुकः ॥ १२५॥ सम्प्रहृष्टस्सन्निविष्टः संस्पृष्टस्सम्प्रमर्दनः । सूत्रभूतस्स्वप्रकाशः समशीलस्सदादयः ॥ १२६॥ सत्वसंस्थस्सुषुप्तिस्थः सुतल्पस्सत्स्वरूपगः । सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२७॥ आदित्यवर्णस्सञ्ज्योतिः सम्यग्दर्शनतत्परः । महातात्पर्यनिलयः प्रत्ग्ब्रह्यैक्यनिश्चयः ॥ १२८॥ प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षः प्रतिभात्मकः । प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ॥ १२९॥ योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः । जटिलश्चटुलापाङ्गो महानटनलम्पटः ॥ १३०॥ पाटलाशुः पटुतरः पारिजातद्रु मूलगः । पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ १३१॥ कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः । लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ॥ १३२॥ रुद्राक्षस्रङ्मयाकल्पः कह्लारकिरणद्युतिः । अमूल्यमणिसम्भास्वत्फणीन्द्रकरकङ्कणः ॥ १३३॥ चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डुरः । अगम्यमहिमाम्भोधिरनौपम्ययशोनिधिः ॥ १३४॥ चिदानन्दनटाधीशः चित्केवलवपुर्धरः । चिदेकरससम्पूर्णः श्रीशिव श्रीमहेश्वरः ॥ १३५॥ ॥ इति श्रीनटेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥ The sahasranAmastotram is to be followed by uttarapIThikA given separately.