अक्षर आकार:

श्रीनटेशपञ्चशती

Shri Natesha Panchashati

श्रीनटेशपञ्चशती

ॐ नमः ओङ्कारपरमार्थैकभवनाय नमो नमः । चिदम्बरसभानन्दनृत्ताङ्गाय नमो नमः । विराठृदय पद्मस्थ सभेशाय नमो नमः । सच्चिदानन्दसम्पूर्ण चिद्घनाय नमो नमः । चिदाकाशपरञ्ज्योतिस्स्वरूपाय नमो नमः । परात्परपरब्रह्ममूर्तये ते नमो नमः । अवाङ्मानस चारित्रवैभवाय नमो नमः । व्यक्ताव्यक्तपरन्तत्वप्रतिष्ठात्रे नमो नमः । समस्तजगदाधाराव्याकृते ते नमो नमः । महाकैलास शिखर नित्यस्थाय नमो नमः । १० पतञ्जलिसुसन्दृष्ट परमाय नमो नमः । त्रिचत्वारिंशत्कोणश्रीचक्राङ्गाय नमो नमः । सम्मेलनसभायन्त्रमध्यनृत्ताय ते नमः । सभानट महाविद्यार्णाकाराय नमो नमः । सदानन्दमयीरूपचिन्मयाय नमो नमः । सहस्राक्षरसद्विद्यासुपूज्याय नमो नमः । भानुकोटि प्रकाशान्त मन्दिराय नमो नमः । सहस्रस्तम्भसंयुक्त मण्टपाय नमो नमः । स्वशक्त्यादिमहाशक्त्यासनस्थाय नमो नमः । शिवकामसुन्दरीश्रीवल्लभाय नमो नमः । २० सामीकलत्रभागात्तशरीराय नमो नमः । हिमशैलेन्द्रतनयालिङ्गिताय नमो नमः । विलसद्दिव्यकर्पूरगौराङ्गाय नमो नमः । कन्दर्पायुत सङ्काशलावण्याय नमो नमः । बहुनूत्नार्कसदृशविमानाय नमो नमः । इन्दिरारमणप्रीत सुन्दराय नमो नमः । अखण्डसच्चिदानन्द नादान्ताय नमो नमः । सुरत्नखचित स्वर्णकिरीटाय नमो नमः । अशेषाण्डस्यूत जटामण्डलाय नमो नमः । अनूपमसुलावण्यस्वदेहाय नमो नमः । ३० सदा मुदानन्द सुधार्णमग्नाय नमो नमः । परमानन्द चिद्रूपप्रकाशाय नमो नमः । इच्छाज्ञानक्रियाशक्ति सन्नुताय नमो नमः । तप्तकाञ्चनसङ्काशजटारण्याय ते नमः । मणिसुन्दरमन्दारमौलिबद्धाय ते नमः । पिञ्छालङ्कृतहेमाभकपर्दाय नमो नमः । वियद्गङ्गाम्बुपूर्णाभमूर्धजाय नमो नमः । गङ्गाकल्लोलद्रोणीन्दुमस्तकाय नमो नमः । चारुशीतांशुशकलशेखराय नमो नमः । त्रिपुण्ड्रविलसत्फालफलकाय नमो नमः । ४० त्रिपथत्रिदशाकारत्रिनेत्राय नमो नमः । दक्षिणाभिमुखाम्भोजविमलाय नमो नमः । सोमपावकमार्ताण्ड लोचनाय नमो नमः । कर्णपूरोत्पलस्पर्धि स्वीक्षणाय नमो नमः । वासुकी तक्षकलसत्कुण्डलाय नमो नमः । तमालश्यामलाकारकर्णिकाय नमो नमः । मुख्य भस्माङ्कितस्मेरवदनाय नमो नमः । कामकार्मुकसौन्दर्य हसनाय नमो नमः । शङ्खवृत्तमृदुस्निग्ध कन्धराय नमो नमः । जाजीमन्दाररुचिर ग्रैवेयाय नमो नमः । ५० अमृताब्धि समुद्भूत श्रीकण्ठाय नमो नमः । विधिशीर्षालिसम्बद्ध सुहाराय नमो नमः । ज्वलदग्नि लसत्पाणि पल्लवाय नमो नमः । कराब्जधृत कालाग्निज्वलनाय नमो नमः । मार्गाधर्मप्रवृत्तानां अधः कर्त्रे नमो नमः । मुक्ति सूचिसव्यवीज हस्ताब्जाय नमो नमः । डमड्डमरुवाद्यूर्ध्वदक्षहस्ताय ते नमः । सदाऽभयप्रदकरसारसाय नमो नमः । विजयश्रीलसद्बाहुमण्डलाय नमो नमः । अनेकरत्नसञ्छन्नसुहाराय नमो नमः । ६० मौक्तिकस्वर्णरुद्राक्षमालिकाय नमो नमः । अम्लानदिव्यकुन्दादिलम्बनाय नमो नमः । विद्युन्नागोपवीताभमहोरस्काय ते नमः । मृगमातङ्ग हर्यक्षत्वग्धराय नमो नमः । व्याघ्रचर्मोत्तरीयांससुन्दराय नमो नमः । ह्रीमादिजप्तमन्त्रात्तसुहृदे ते नमो नमः । रत्नकौशेयसंवीत कटिदेशाय ते नमः । सौदामिनी सुमच्छायसुवस्त्राय नमो नमः । सुवर्णरत्नसिञ्जान श‍ृङ्खलाय नमो नमः । प्रालम्बिसुदृढोल्लग्नभूषणाय नमो नमः । ७० तिलप्रसूनहेमाङ्गाभरणाय नमो नमः । तटिल्लसदुरः सूत्रालङ्कृताय नमो नमः । कटीतटलसत्सर्पाशावासाय नमो नमः । सौवर्णकिङ्किणीयुक्त कटिस्थाय नमो नमः । शिञ्जानमणिमञ्जीर कुञ्चिताङ्घ्रे नमो नमः । लीलयोद्धृतवामाङ्घ्रिवामनाय नमो नमः । कृपयात्तात्ममायापस्मारस्थाय नमो नमः । अशेषदेवताराध्यपादुकाय नमो नमः । धगद्धगित रत्नाच्छपादुकाय नमो नमः । मदमुदितमदनदमनाय नमो नमः । ८० यमुनानुजभवन शमनाय नमो नमः । विशेषपादुकाराध्य सिद्धिदात्रे नमो नमः । चक्राब्जरेखायुक्ताङ्घ्रि पङ्कजाय नमो नमः । त्रिसाहस्रद्विजेन्द्रार्च्य पदाब्जाय नमो नमः । गारुडोपलगाम्भीर्यपादुकाय नमो नमः । सूक्ष्मघण्डामणिप्रोत नूपुराय नमो नमः । वटपत्रसमाकारसूदराय नमो नमः । काकोदर फणारत्नग्रैवेयाय नमो नमः । ब्रह्मबृन्दकपालालिमालिकाय नमो नमः । शुण्डादण्डवदाकार वीजहस्ताय ते नमः । ९० रत्नाङ्गुलीयविलसत् हस्ताब्जाय नमो नमः । सर्वलक्षणसम्पन्न सुमुखाय नमो नमः । प्रवालाधर विकसत्सुस्मिताय नमो नमः । अतिशीतल चन्द्राहि शेखराय नमो नमः । हरिन्मणिनिभस्वेच्छवामार्धाय नमो नमः । स्वच्छाच्छ स्फटिकाकार सव्यार्धाय नमो नमः । सर्वालङ्कारसंयुक्त सर्वाङ्गाय नमो नमः । भवानी स्मितमाधुर्य वीक्षणाय नमो नमः । बिल्वोत्तमाङ्ग सौन्दर्य मुखाब्जाय नमो नमः । हीरसार त्रिपुण्ड्राङ्क मस्तकाय नमो नमः ॥ १०० विवृत्तोद्यद्धीरकान्ति दन्तपङ्क्त्यै नमो नमः । बहिरन्ताखिलाण्डालि भास्कराय नमो नमः । देवीपरिणयाकार मङ्गलाय नमो नमः । नृत्ताटोपेक्षणोमार्ध विग्रहाय नमो नमः । उमाश्लिष्टाङ्गविलसद् दिव्याङ्गाय नमो नमः । उमाक्षीन्दीवर सुमाहस्कराय नमो नमः । गुहमत्तेभवदनजनकाय नमो नमः । श्रीवाणीविधिविष्ण्विन्द्र यजनाय नमो नमः । महामन्त्रमहायन्त्रायतनाय नमो नमः । शिवानन्द परज्योतिर्ज्वलनाय नमो नमः । ११० धर्माकृति वृषश्रेष्ठवाहनाय नमो नमः । मोक्षरूपवृषेन्द्रस्व केतनाय नमो नमः । वृषध्वजावृतार्कादिमण्डलाय नमो नमः । सर्वंसहा महद्दिव्यस्यन्दनाय नमो नमः । सुधांशुभास्कराकाररथाङ्गाय नमो नमः । ऋग्यजुस्सामाथर्वात्त तुरगाय नमो नमः । सारथीभूतवैरिञ्चिविनुताय नमो नमः । सुरारिवैरिज्वलनमार्गणाय नमो नमः । चामीकरमहाशैलकार्मुकाय नमो नमः । ज्याभूतादिशेषबद्ध सुधन्वने नमो नमः । १२० हास्यभस्मी कृताशेष त्रैपुराय नमो नमः । स्तम्बेरघोरदैतेय दारणाय नमो नमः । सनकादिसमाराध्ययोगेशाय नमो नमः । शोकमोहरोगतिग्म विदूराय नमो नमः । प्रारब्धजन्ममरण क्षणहन्त्रे नमो नमः । चिद्घनानन्दसन्दोहगुहान्ताय नमो नमः । निरन्तरानन्दसुखसंविद् दात्रे नमो नमः । कैवल्यशुद्धसन्मार्ग सम्पद्दात्रे नमो नमः । अनन्तवेदवेदान्तसंहृदे ते नमो नमः । रत्नसोपान सम्बद्ध सभान्ताय नमो नमः । १३० नयनानन्दजनकनर्तनाय नमो नमः । नादबिन्दुकलान्तात्मस्वरूपाय नमः । पूर्णानन्दैकविज्ञानपरमाय नमः । तापत्रयातीतमहाताण्डवाय नमः । सशिवानन्दसायुज्य सिद्धिदाय नमः । सत्सन्तानादि सौभाग्य निचयाय नमः । अज्ञानतिमिरभ्रान्तिध्वं सकाय नमः । आदिमध्यान्तरहितस्थाणवे ते नमः । मायामयमहामोहविनिर्भेत्त्रे नमः । पयोऽष्ट(पयस्स्थ) घृतवत्प्राज्ञविदिताय नमः । १४० पुत्रमित्र कलत्रादिबन्धहर्त्रे नमो नमः । बहिरन्तसुकृत्सौख्य वृद्धिदात्रे नमो नमः । दम्भाहङ्कार दर्पाल्पगर्वघ्नाय नमो नमः । ऐहिकामुष्मिकसुखाद्यसङ्गाय नमो नमः । तृणीकृताशापपदत्रिसाहस्राय ते नमः । प्रणवैकस्मृतिपरदिदृक्षाय नमो नमः । कृतनिन्दास्तुतानन्दमानसाय नमो नमः । ज्योतिर्मय शिवालिङ्गाम्रनाथाय नमो नमः । फणिराडाच्छादितास्य पञ्चकाय नमो नमः । सर्वतोमुखदीप्तेन्दु शेखराय नमो नमः । १५० गङ्गाम्बुग्रथितजटाकलापाय नमो नमः । महाहीरक मकुटाभरणाय नमो नमः । निजाक्षिजाग्निसन्दग्धमन्मथाय नमो नमः । भस्मीकृतस्मरोज्जीववीक्षणाय नमो नमः । कामाक्षीसुदृढाश्लिष्टयुग्मवक्षोभृते नमः । स्वशरीरार्धदृग्वेणीनारीदात्रे नमो नमः । नीलेन्दीवरनीकाशवामार्धाय नमो नमः । निजास्यनेत्रसम्भूतकुमाराय नमो नमः । सुवीक्षित शिवार्धांश ताण्डवाय नमो नमः । उत्फुल्लरत्नकमलसहस्रार्च्याय ते नमः । १६० राजीवाक्षार्पिताब्जाभलोचनाय नमो नमः । वैकुण्ठाधिपविष्णवाख्य पददात्रे नमो नमः । भावनामात्रसन्तुष्टवरदाय नमो नमः । तत्वातीतगुणातीत स्वरूपाय नमो नमः । अप्राकृतमहादेवीपरस्थाय नमो नमः । दारुकावन मौनिस्त्रीमोहिताय नमो नमः । कृताभिचार किञ्चिज्ज्ञतापसाय नमो नमः । व्याघ्राहिवह्नयपस्मार सेविताय नमो नमः । वैष्णवीमोहिनी दृष्ट नटनाय नमो नमः । जलन्धरासुरशिरश्छेदनाय नमो नमः । १७० मार्कण्डेयाश्लिष्टशिवलिङ्गमूर्ते नमो नमः । एतद्भक्ताकृष्ट मृत्युमथनाय नमो नमः । दक्षाङ्घ्रिघात शमितशमनाय नमो नमः । मार्कण्डेयमनोऽभीष्ट सिद्धिदाय नमो नमः । दक्षयज्ञध्वंसवीरभद्रमूर्ते नमो नमः । बलान्धकासुरप्राणजिघृक्षाय नमो नमः । शूलस्यूतान्धकस्तोत्रप्रार्थिताय नमो नमः । गाणाधिपेन्द्र साम्राज्य पद दात्रे नमो नमः । विखण्डिताजपञ्चास्यनखराय नमो नमः । मुरारिनेत्रपूज्याङ्घ्रिपङ्कजाय नमो नमः । १८० कुठारनासिदैतैय दारणाय नमो नमः । झलञ्झलितलोकालि नूपुराय नमो नमः । भक्तियुक्तक्षुल्लकादि स्वीकृताय नमो नमः । बिल्वकाष्ठचन्दनाति सुप्रियाय नमो नमः । वन्य पुष्पपत्रफलामोदिताय नमो नमः । वसन्तप्रमुखानेकऋतुभ्यस्ते नमो नमः । भक्तहृत्पद्मसुलभ दर्शनाय नमो नमः । औदाराम्भोधिमध्यस्थकृपारत्नाय ते नमः । अपस्मारोपरि क्षुण्ण दक्षिणाङ्घ्रे नमो नमः । दक्षपादाङ्गुलिन्यस्त दशकण्ठाय ते नमः । १९० चराचराशेषलोकशरण्याय नमो नमः । अधः कृततमोरूपघोरणाय नमो नमः । समस्तजगदाधार चिद्घनाय नमो नमः । दुःखजन्मजरामृत्युनाशनाय नमो नमः । धर्मार्थकाममोक्षादि फलदाय नमो नमः । उत्पत्तिस्थितिकर्त्रादिजनकाय नमो नमः । चराचरजगन्मध्य साक्षिभूत्यै नमो नमः । पिपीलिकादिदेव्यन्तहृदिष्ठाय नमो नमः । क्रन्दत्स्तनन्धयक्रोडस्तन्य दात्रे नमो नमः । नारसिंहासुहृत्प्रीतशरभाय नमो नमः । २०० एवमादिस्वभूगर्व भञ्जनाय नमो नमः । एवमादिसुरेन्द्रात्तगर्व हर्त्रे नमो नमः । महाकल्पान्तप्रलयभैरवाय नमो नमः । परमानन्दसम्पूर्णस्वात्मस्थाय नमो नमः । परप्रकाशानन्दनाथसत्यज्ञाय नमो नमः । महापातकतूलौघ पावकाय नमो नमः । आपाता लोर्ध्वसङ्क्रान्त स्वरूपाय नमो नमः । अनाद्यन्तस्वप्रणवनिरूपाय नमो नमः । आदिमानन्द विज्ञानसंवेद्याय नमो नमः । सप्तकोटिमहामन्त्रप्रतीकाय नमो नमः । २१० कोटिकोटिमहामन्त्र स्वरूपाय नमो नमः । सर्वमन्त्रमयान्ताप्तसिद्धिदाय नमो नमः । स्वरसंप्राप्तगीर्वाण भूषणाय नमो नमः । अनन्तानन्द सञ्जात संविद् दात्रे नमो नमः । नमितानन्द सन्दोह ज्ञानदाय नमो नमः । भक्तभक्ति प्रसन्नात्मवैभवाय नमो नमः । अतुलोदार सौहार्दवामाङ्गाय नमो नमः । स्वरत्र्यक्षरसंयुक्त नृत्तवेद्यै नमो नमः । अनन्तमहिमाराव सुनादाय नमो नमः । अचिन्त्यानन्तमाहात्म्यतात्पर्याय नमो नमः । २२० अप्रमेयात्म चारित्र पुराणाय नमो नमः । मुदा हृदम्बुजावासनटराजे नमो नमः । प्रणवार्थ सभानाथ परस्मै ब्रह्मणे नमः । पराशक्तिसमायुक्त परेशाय नमो नमः । परब्रह्ममयोङ्कारमन्त्रार्थाय नमो नमः । सहस्रनामजापीष्ट फलदाय नमो नमः । त्रिसहस्रद्विजेन्द्राद्यकूटस्थाय नमो नमः । त्रिकूटश‍ृङ्ग विलसत्सभेशाय नमो नमः । श्रीयन्त्र शिवशक्त्यैक्य नर्तिने ते नमो नमः । परमानन्दनटन विनोदाय नमो नमः । २३० कोमलालोलनृत्तेक्षमोहनाय नमो नमः । वामगामञ्जुवीक्षण्यासेचनाय नमो नमः । ओङ्कार लिङ्ग मूर्ध्न्यूर्ध्व निवासाय नमो नमः । भ्रूमध्यलिङ्ग हृत्पद्म निलयाय नमो नमः । श्रीमत्पञ्चार्णसोपान सभान्ताय नमोनमः । चिदम्बरमहायन्त्रविलासाय नमो नमः । नादबिन्दु कलाहंसचित्पराय नमो नमः । मुक्तिमार्गद्योत घण्टाऽऽरागाराय नमो नमः । ज्वलितध्वनिमन्त्रौघ प्रभान्ताय नमो नमः । चतुस्स्तम्भार्षेयमध्य निगूढाय नमो नमः । २४० षट्शास्त्रस्तम्भयुक् श्रीशपीठस्थाय नमो नमः । वैरिञ्चिविष्णुरुद्रेशासनस्थाय नमो नमः । उन्मनीस्थान निवसदुत्तमाय नमो नमः । द्वादशान्तपदावास व्योमस्थाय नमो नमः । सर्वशान्त निरालम्बशाश्वताय नमो नमः । मनोवचोभिरग्राह्य पूरणाय नमो नमः । पूर्णात्पूर्ण शिवानन्द परोक्षाय नमो नमः । माहेशोपरि विन्यासनृत्तेशाय नमो नमः । सदाशिवोपरिव्योमनटेशाय नमो नमः । मायायवनिकाच्छन्न रहस्याय नमो नमः । २५० चिन्तामणिमहामन्त्रनिजाङ्गाय नमो नमः । षोडशी मन्त्र युक्तश्रीचक्रान्ताय नमो नमः । सदा शैलादिसन्दृष्टसभेशाय नमो नमः । अकाराद्यक्षरारम्भनामार्थाय नमो नमः । भक्तिगम्यानन्तरूपप्रकाशाय नमो नमः । ॐ नमस्ते इषवे रुद्र धन्वने ते नमः । नमस्ते मन्यवे रुद्र बाहुभ्यां ते नमो नमः । नीलग्रीवाय सदय सहस्राक्षाय ते नमः । नमस्ते मीढुषे तुभ्यमायुधाय नमो नमः । नमस्ते धृष्णवे भर्ग हिरण्यबाहवे नमः । २६० दिशां च पतये शर्व सेनान्ये ते नमो नमः । सस्पिञ्जराय सर्वेश पशूनां पतये नमः । त्विषीमते पथीनां च पतये ते नमो नमः । विव्याधिने बभ्लुशायाप्यन्नानां पतये नमः । उपवीतिने नमस्तुभ्यं हरिकेशाय ते नमः । पुष्टानां पतये तुभ्यं भवस्य हेत्यै नमः । जगतां पतये तुभ्यं रुद्रायाथ नमो नमः । नम्रातताविनेशान क्षेत्राणां पतये नमः । सूताय चाथाहन्त्याय वनानां पतये नमः । रोहिताय स्थपतये वृक्षाणां पतये नमः । २७० मन्त्रिणे वाणिजायाय कक्षाणां पतये नमः । भुवन्तये नमो वारिवस्कृताय नमो नमः । औषधीनां च पतये चोच्चैर्घोषाय ते नमः । सन्ततं चाक्रन्दयते पत्तीनां पतये नमः । धावते कृत्स्नवीताय सत्त्वनां पतये नमः । निव्याधिने नमस्तुभ्यं सहमानाय ते नमः । आव्याधिनीनां पतये ककुभाय नमो नमः । निषङ्गिणेऽथ स्तेनानां पतये ते नमो नमः । नमस्ते चेषुधिमते निषङ्गिणे नमो नमः । तस्कराणां च पतये वञ्चते ते नमो नमः । २८० परिवञ्चते च स्तायूनां पतये ते नमो नमः । नमो निचेरवे परिचराय ते नमो नमः । अरण्यानां च पतये मुष्णतां पतये नमः । उष्णीषिणे प्रकृन्तानां पतये ते नमो नमः । गिरिचराय कुलुञ्चानां पतये ते नमो नमः । नमो भवाय शर्वाय रुद्राय च नमो नमः । नीलग्रीवायाथ पशुपतये ते नमो नमः । कपर्दिने नमो भीम शितिकण्ठाय ते नमः । नमस्ते व्युप्तकेशाय सहस्राक्षाय ते नमः । शतधन्वने नमस्तुभ्यं गिरिशाय नमो नमः । २९० मीढुष्टमायाथ शिपिविष्टायेषुमते नमः । ह्रस्वाय वामनायोग्र बृहते च नमो नमः । वर्षीयसे च वृद्धाय संवृध्वने नमो नमः । प्रथमायाग्नियायाशवेऽजिराय नमो नमः । शीघ्रियाय च शीभ्याय तुभ्यमूर्म्याय ते नमः । स्रोतस्यायावस्वन्याय द्वीप्याय च नमो नमः । ज्येष्ठाय च कनिष्ठाय पूर्वजाय नमो नमः । नमश्चापरजायाथ मध्यमाय नमो नमः । जघन्यायापगल्भ्याय बुध्नियाय नमो नमः । सोभ्याय प्रतिसर्याय याम्याय च नमो नमः । ३०० उर्वर्याय च क्षेम्याय खल्व्याय च नमो नमः । श्लोक्याय चावसान्याय वन्याय च नमो नमः । प्रतिश्रवाय कक्ष्याय श्रवायाथ नमो नमः । शूरायाशुरथायाथाशुषेणाय नमो नमः । वरूथिनेऽवभिन्दते वर्मिणे च नमो नमः । बिल्मिने च कवचिने च श्रुताय च नमो नमः । सततं श्रुतसेनाय दुन्दुभ्याय नमो नमः । धृष्णवे चाहनन्याय प्रमृशाय नमो नमः । दूताय प्रहितायाथ निषङ्गिणे नमो नमः । नमस्तीक्ष्णेषवे चेषुधिमत आयुधिने नमः । ३१० सुधन्वने स्वायुधाय स्रुत्याय च नमो नमः । पथ्याय चाथ काट्याय नीप्याय च नमो नमः । सूद्याय च सरस्याय नाद्याय च नमो नमः । वैशन्ताय च कूप्याय चावट्याय नमो नमः । अवर्ष्याय च वर्ष्याय मेध्याय च नमो नमः । विद्युत्यायेद्ध्रियायाथ चातप्याय नमो नमः । वात्याय रेष्मियायाथ वास्तव्याय नमो नमः । नमस्ते ते वास्तुपाय नमस्ते ते नमो नमः । नमस्सोमाय रुद्राय ताम्राय च नमो नमः । नमश्शङ्गायारुणाय पशुपतये ते नमः । ३२० भीमाय चोग्राय चाग्रेवधाय च नमो नमः । दूरे वधाय हन्त्रे च हनीयसे नमो नमः । मयोभवे शम्भवे च ताराय ते नमो नमः । मयस्कराय च नमः शङ्कराय नमो नमः । नमः शिवाय च शिव तराय च नमो नमः । नमस्तीर्थ्याय कूल्याय पार्याय च नमो नमः । प्रतरणाय च नमश्चावार्याय नमो नमः । नमश्चोत्तरणायाथ चातार्याय नमो नमः । आलाद्याय च शष्प्याय फेन्याय च नमो नमः । सिकत्याय प्रवाह्याय चेरिण्याय नमो नमः । ३३० किंशिलाय क्षयणाय प्रपथ्याय नमो नमः । पुलस्तये च गोष्ठ्याय गृह्याय च नमो नमः । कपर्दिने च तल्प्याय गेह्याय च नमो नमः । नमस्ते गह्वरेष्ठाय हृदय्याय नमो नमः । पांसव्याय रजस्याय निवेष्प्याय नमो नमः । शुक्त्याय च हरित्याय लोप्याय च नमो नमः । उलप्यायाथ चोर्व्याय सूर्म्याय च नमो नमः । नमः पर्ण्याय ते पर्णशद्याय च नमो नमः । नमोऽपगुरमाणायाभिघ्नते ते नमो नमः । आःखिदते नमस्तुभ्यं प्रःखिदते ते नमो नमः । ३४० जीवसे तवसे तुभ्यं क्षयद्वीराय ते नमः । चतुष्पदे च द्विपदे चायजे ते नमो नमः । तनये ते च गोघ्ने च पुरुषघ्ने नमो नमः । प्रचेतसे कद्रुद्राय मीढुष्टमाय ते नमः । तव्यसे च नमस्तुभ्यं भवातोकाय ते नमः । पित्रे मात्रे च भ्रात्रेऽथ कर्त्रे हर्त्रे नमो नमः । नमः स्थिरधन्वने च क्षिप्रेषवे नमो नमः । देवायाथ स्वधाव्ने च प्याषाल्हाय नमो नमः । वेधसे सहमानाय तिग्मायुधाय नमो नमः । सत्वने च नमस्तुभ्यं पुरुहूताय वै नमः ॥ ३५० नमोऽधिपतये मित्रपतये ते नमो नमः । क्षत्रपताय च नमः स्वःपताय नमो नमः । धनपताय च नमः सर्वाधिपतये नमः । नमोऽन्नपतये तुभ्यं एकाक्षाय नमो नमः । रुद्रायावपन्नादाय दीरसदे नमो नमः । नमः स्थिराय च स्थिरधन्वने ते नमोनमः । नमः प्रतिपदायाथ पटरिणे नमो नमः । नमस्त्रियम्बकाय कपर्दिने च नमो नमः । भवाशर्वौ नमः प्रतीचीनाय ते नमो नमः । क्रन्दाय ते नमस्तुभ्यं प्राणाय ते नमो नमः । ३६० अमर्त्य ते नमस्तुभ्यं सहस्राक्षाय ते नमः । मुखाय ते नमस्तुभ्यं चक्षूंषि ते नमो नमः । त्वचे रूपाय सन्दृशे तेऽङ्गेभ्यस्ते नमो नमः । उदराय ते जिह्वाया आस्याय ते नमो नमः । दद्भ्यो नमस्ते गन्धाय विघसे ते नमो नमः । तस्यै नमो भवारुद्रौ उभावुग्रौ नमो नमः । आयते ते नमस्तुभ्यं परायते नमो नमः । तिष्ठते ते नमस्तुभ्यं आसीनाय नमो नमः । ताभ्यां नमो नमः सायं प्रातारात्र्यै नमो नमः । दिवा नमो भवाय च शर्वाय च नमो नमः । ३७० अस्मै नमोऽप्स्वन्तस्तुभ्यं तस्मै तुभ्यं नमो नमः । मृडाय यजमानाय पशूनां पतये नमः । महास्येभ्यश्च ते श्वभ्यो घोषिणीभ्यश्च ते नमः । केशिनीभ्यश्च ते तुभ्यं नमस्कृताभ्यस्ते नमः । नमस्ते सम्भुञ्जतीभ्यो देवसेनाभ्यस्ते नमो नमः । श्रुत्यन्तसर्वविद्यानां ईशानाय नमो नमः । सहस्राक्षाङ्घ्रिशिरस्तत्पुरुषाय नमो नमः । घोराय दुष्टवृत्तीनां शिष्टाघोराय ते नमः । घोरासुरमरुद्धन्त्रे चाघोराय नमो नमः । वामदेवाय ज्येष्ठाय श्रेष्ठाय च नमो नमः । ३८० नमो रुद्राय कलविकरणाय नमो नमः । नमः कालाय बलविकरणाय नमो नमः । नमो बलाय बलप्रमथनाय नमो नमः । सर्वभूतदमनाय मनोन्मनाय ते नमः । बहिरन्तः सदा ध्यातृ सद्यो जाताय वै नमः । भवे भवेऽनातिभवे भवस्व प्रभवे नमः । भवोद्भव भूतभव्य भविष्यद्भ्यो नमो नमः । भवोद्भवाय भव्याय भूताय भाविने नमः । प्रशस्तान्नमय प्राणभूतात्मब्रह्मणे नमः । निवृत्तिपायुभूगन्धब्रह्मणे ते नमो नमः । ३९० समान घ्राणकरण भवे भवे नमो नमः । प्रतिष्ठोदान चिन्नीर वामदेवाय ते नमः । जिह्वोपस्थ विष्णुरस मनोन्मनाय ते नमः । व्यानचक्षू रुद्ररूपघोराय ते नमो नमः । वागहङ्कारविद्याऽथ घोरेभ्योऽथ नमो नमः । शान्त्यपान बुद्धिपाणिपुरुषाय नमो नमः । त्वक्स्पर्शवाय्वनन्तेश महादेवाय ते नमः । शान्त्यतीत प्राणमन ईश्वराय नमो नमः । श्रोत्रपादाकाशशब्द ईशानाय नमो नमः । सदाशिव परामोद विद्येशाय नमो नमः । ४०० ब्रह्माधिपतये नित्यं ब्रह्मणे ते नमो नमः । ऋतं सत्यं परं ब्रह्म पुरुषं ते नमो नमः । कृष्णपिङ्गलवर्णाढ्यस्वरूपाय नमो नमः । ऊर्ध्वरेतो विरूपाक्ष विश्वरूप नमो नमः । निगमान्तसमुद्गीत रहस्याय नमो नमः । कर्मज्ञानेन्द्रियातीत प्रज्ञान ब्रह्मणे नमः । अहं ब्रह्मास्मि तत्वार्थ दर्शयित्रे नमो नमः । तत्त्वमसि महावाक्य बोधयित्रे नमो नमः । अयमात्मा ब्रह्मतत्वचोदयित्रे नमो नमः । छन्दः शब्दगुणाकाशहृदयाय नमो नमः । ४१० करतलान्तामलक प्रत्यक्षाय नमो नमः । नाना विचित्रनिर्माणजगद्धात्रे नमो नमः । सर्वप्राणिबुद्धिस्वस्व कूटस्थाय नमो नमः । सर्वप्रकाशपरमचिन्मात्रज्योतिषे नमः । हृत्पुण्डरीकमध्यस्थ परात्मने नमो नमः । स्वात्मद्विधाकृतार्धस्रीपुरुषाय नमो नमः । आनन्दहृदयाकाशस्वानन्दाय नमो नमः । प्रणवान्तर्गत ब्रह्मतत्व बोधे नमो नमः । सर्वधी साक्षिभूतैक विमलाय नमो नमः । विश्वातीतगगन सदृश वैदेहाय नमो नमः । ४२० अतिभावस्वरूपाख्यसुखात्मने नमो नमः । मधुकृद्वेदपुष्पाढ्य शिरीषाय नमो नमः । सर्ववेदान्त संवेद्यब्रह्मणे ते नमो नमः । हृन्मध्य लोहितो दह्र पुण्डरीकाय ते नमः । जीवात्मैक्य प्रदातारनिस्सङ्गाय नमो नमः । गन्तव्यदेश निर्मुक्त स्थाणवे ते नमो नमः । व्यक्ताव्यक्तचतुर्विंशत् शरीराय नमो नमः । सत्यासत्यविनिर्मुक्त सन्मात्राय नमो नमः । हृदाकाश चिदादित्य स्वतेजसे नमो नमः । अशेषप्राणिहृत्प्राण रक्षणाय नमो नमः । ४३० शुद्धज्ञानशिवानन्दस्वयङ्कर्त्रे नमो नमः । श्रुतिसारांशतत्वार्थस्वयंश्रोत्रे नमो नमः । अनाद्यन्तवतीमायास्वयं स्रष्ट्रे नमो नमः । आर्द्रापर्वव्यतीपात स्वयं यष्ट्रे नमो नमः । स्वस्वरूपानुसन्धान स्वयं द्रष्ट्रे नमो नमः । समनोभूत ब्रह्मादिहृदिस्थाय नमो नमः । सर्वदा शमरूपाति शान्तान्ताय नमो नमः । सर्वान्तरस्थ सद्वर्गप्रतिष्ठात्रे नमो नमः । सर्वभूतात्मविभव शाश्वताय नमो नमः । सूक्ष्मकेवलसन्मात्र स्वभावाय नमो नमः । ४४० कायिकादिविनिर्मुक्त केवलाय नमो नमः । शतजल्पाल्पवचनदुर्लक्ष्याय नमो नमः । कालात्मतानन्दमयलयात्मने नमो नमः । प्रपञ्चोत्पत्तिहेतुत्व चिदाकाशाय ते नमः । हृदाकाशपराकाशशयानाय नमो नमः । नैरन्तर्यचिदानन्द चैतन्याय नमो नमः । रज्जुसर्पभ्रान्ति बुद्धिविच्छेत्रे ते नमो नमः । अखण्डरस चिन्मात्र ब्रुवाणाय नमो नमः । सदा हृदम्बुजाकाश सन्निविष्टाय ते नमः । नित्यचिन्मात्रसकलविज्ञानाय नमो नमः । ४५० मौनसर्वफलावाप्तमुदिताय नमो नमः । वर्णाश्रमधर्मकर्मबन्धहर्त्रे नमो नमः । क्ष्म्र्यूमाख्य मनुजप्तेष्टसुखदाय नमो नमः । सदा मृष्टान्न सन्दत्तविजिघत्साय ते नमः । सदार्द्रसच्चिदानन्दधनदाय नमो नमः । वेदान्तगणपस्तुत्यविभवाय नमो नमः । महानन्द पदद्वन्द्व भवानीशाय नमो नमः । प्रलब्धपुण्यकल्याणपूर्णार्णाय नमो नमः । संविन्मय सदानन्दानुभवाय नमो नमः । सत्तामात्रान्तरालक्ष्य शोभनाय नमो नमः । ४६० नित्यसच्चिद्विलासात्म बोधकाय नमो नमः । केवलानन्द शुद्धात्म भावनाय नमो नमः । सकलेन्द्रियोपरम पञ्जराय नमो नमः । शिवशक्ति समायोग परमाय नमो नमः । कुसुमान्त सुगन्ध्यात्मनिगूढाय नमो नमः । प्रशान्त कलनारम्भनीरागाय नमो नमः । हेयोपादेयनिर्मुक्त कुशलाय नमो नमः । दर्शनप्रत्ययाभास स्वयम्भु ब्रह्मणे नमः । चिन्मनः कलनाकार प्रकाशाय नमो नमः । अखण्ड़इतचिदाकाश ब्रह्मयोन्यै नमो नमः । ४७० समस्तदेवतोपास्य श्री शिवाय नमो नमः । मुनिजनौघहृत्पद्मवासिने ते नमो नमः । विनतभक्त जन्मार्ति हारिणे ते नमो नमः । धनदादर्शिसौहार्दशोभिने ते नमो नमः । हृत्स्वच्छ भान्तमिहिर कोटिभाय नमो नमः । निजाज्ञा काङ्क्षिवैरिञ्चिहरीन्द्राय नमो नमः । सर्वकर्मफलप्राप्तिकारणाय नमो नमः । भक्तहृद्रोगनिर्नाशपेशलाय नमो नमः । पार्वतीनयनानन्द सूचनाय नमो नमः । अशब्दाव्यय रूपाति प्रकाशाय नमो नमः । ४८० अशेषजगज्जन्मार्तिभञ्जनाय नमो नमः । अस्पर्शाङ्गुष्ठमात्राय निर्धूमज्योतिषे नमः । आम्नायान्तैकसंसिद्ध सुकराय नमो नमः । आम्नायतत्वमञ्चस्थ परमाय नमो नमः । आविर्भूतमहानन्दमहाराजाय ते नमः । स्वात्मरूपतया नित्यं प्रतीताय नमो नमः । स्वानन्दराशिसंलग्नबाणभक्ताय ते नमः । सदा निजानन्दमग्नभानुकम्पाय ते नमः । करणग्रामसंहार कालातीताय वै नमः । खादिपञ्चभूतसृष्टि कारणाय नमो नमः । ४९० श्रीपर्णगाम्बुकणवत् पञ्चकृत्याय ते नमः । घटादिजगदाकाररहिताय नमो नमः । ङाङीङू संज्ञितार्थानामगम्याय नमो नमः । चमन्त्रार्थनिषण्णानाममृताय नमो नमः । छादनच्छन्दनच्छन्नविभागाय नमो नमः । जयार्थितजगच्छक्ति स्वरूपाय नमो नमः । ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय नमो नमः । नित्यप्रत्यक्षनिर्णीतनिगमाय नमो नमः । भक्तहृत्पद्मसद्मैकनिषण्णाय नमो नमः । ममकारमहामोहनिवृत्ताय नमो नमः । ५०० महामोहतमोहारि स्वच्छन्दज्योतिषे नमः । महामन्त्रैकवाच्यार्थ महसे ब्रह्मणे नमः । मुहूर्तं चिन्तयन् नॄणां मुक्तिदाय नमो नमः । यथार्थप्रत्यगद्वैत सिद्धिदात्रे नमो नमः । लोलाचञ्चलसंसार नाशनाय नमो नमः । वाञ्छा वागुरविच्छित्तिहेतु भूत्यै नमो नमः । वेदवेदान्त निष्ठात्मभूतिदाय नमो नमः । मोदप्रमोदानन्दात्मशिवेष्टाय नमो नमः । क्षों चित् शुद्ध चित्तात्मप्रसन्नाय नमो नमः । महदानन्द सन्दोह स्वानन्दाय नमो नमः । ५१० इति श्रीनटेशपञ्चशती सम्पूर्णा ।