अक्षर आकार:

श्रीनटेश पञ्चरत्नस्तोत्र

shrI naTesha pancharatna stotra

श्रीनटेश पञ्चरत्नस्तोत्र

॥ ध्यानम् ॥ वामे भूधरजा पुरश्च वृषराट् पश्चान्मुनिर्जैमिनिः । श्री मद्-व्यास पतञ्जलीत्युभयतः वाय्वादिकोणेषु च ॥ श्रीमत्तिल्लवनैकवासिमखिनः ब्रह्मादिवृन्दारकाः मध्ये स्वर्ण सभापतिर्विजयते हृत्पुण्डरीके पुरे ॥ ॥ अथ श्री नटेश पञ्चरत्नम् ॥ श्रीमच्चिदम्बरनटनात् नटराजराजात् विद्याधिपात् विविधमङ्गलदानशौण्डात् । पूर्णेन्दु सुन्दर मुखात् द्विजराजचूडात् भर्गात्परं किमपि तत्त्वमहं न जाने ॥ १॥ डक्काविभूशितकरात् विषनीलकण्टात् । फुल्लारविन्दनयनात् फणिराजवन्द्यात् । व्याघ्रांघ्रि पूज्यचरणात् शिवकुञ्चिताङ्घ्रेः शम्भोः परं किमपि तत्त्वमहं न जाने ॥ २॥ श्रीनाथमृग्यचरणात् विधिमृग्यचूडात् श्रीपुण्डरीक निलयात् श्रितदुःखनाशात् । श्रीमद्गुहस्य जनकात् सुखटत्तराजात् श्रीशात्परं किमपि तत्त्वमहं न जाने ॥ ३॥ श्रीमद्गणेशजनकात् मखिवृन्दपूज्यात् तिल्लीटवीसुनिलयात् त्रिपुराम्बिकेशात् । व्याघ्राजिनाम्बरधरात् उरूरोगनाशात् रुद्रात्परं किमपि तत्त्वमहं न जाने ॥ ४॥ श्रिमद्-व्याघ्रपुरेश्चरात् फणिराजभूषात् संसार रोगभिषजः निखिलाण्डपालात् । श्रीमद्धेमसभेश्वरात् ललिताम्बिकेशात् स्थाणोः परं किमपि तत्त्वमहं न जाने ॥ ५॥ ॥ अथ फलश्रुतिः ॥ पञ्चरत्नं नटेशस्य सोमशेखरयज्वभिः । संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गलम् ॥ ॥ इति श्री नटेश पञ्चरत्नम् सम्पूर्णम् ॥