अक्षर आकार:

श्रीनटेशनवरत्नमालिका

naTeshanavaratnamAlikA

श्रीनटेशनवरत्नमालिका

॥ श्रीः ॥ प्रपन्नजनसन्दोह-प्रत्यह-ध्वान्त-भास्करम् । अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे ॥ १॥ आजानुबाहुमरविन्ददलायताक्ष- मानीलदेहमसुरद्विषमब्जवक्त्रम् । अम्बोधिजाधिपवाङ्मनसावगम्यं गोविन्द्राजमनुचिन्तय चित्त नित्यम् ॥ २॥ यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः । यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः स श्रीकन्त-विधीन्द्र-वन्द्य-चरणो दद्यान्नटेशश्शिवम् ॥ ३॥ नृत्यं त्वदीयमवलोक्य नटेश पूर्व- मानन्दतुन्दिलहृदो मुनयो बभूवुः । तद्दर्शयाद्य मम मोदमुपैमि चाहं निष्पक्षपात भवतस्सम एव सर्वः ॥ ४॥ नन्दादयोऽपि नटराज पुरालभन्त भक्त्या पदांबुजयुगे तव बन्धमोकम् । देयाद्य सा न किमु मे करुणांबुराशे को वा मया व्यरचि तं वद तेऽपराधः ॥ ५॥ कस्मान्नटेश कुरुषे न कृपां मयि त्वं किं वा त्वया न विदितो मम दीनभावः । जानाति नो यदि भवान्मम दीनतां तत् श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् ॥ ६॥ संसृत्युदन्वति नटेश सदाऽप्यगाधे मग्नं न मां चिरमुदासितुमर्हसि त्वम् । यद्यप्यहं तव चकार बहून् हि मन्तून् शंभो तवाऽपि न हि तान् गणयान्तरङ्गे ॥ ७॥ दुःखांबुदौ पतितमीश समुद्धरैनं नोचेच्छरण्य न हि मे क्षतिरस्ति कापि । भूयान्निमज्जनमकीर्तिपयोनिधौ ते सर्वेश्वरस्य भवतो न हि युक्तमेतत् ॥ ८। । पादांबुजातयुगलं तव यो भजेत हन्ताधिरोहति हि तस्य ललाटमग्निः । वक्षस्थलं विषधरो विषमुत्तमाङ्गं कण्ठञ्च पार्श्वभुजमस्य पिशाचवर्गाः ॥ ९॥ त्वामामनन्ति नटनाथ पदाब्जभाजां सर्वार्थदायिनमहो निखिलाश्च वेदाः । त्वं चोरयस्यहह शोकमशेषमेषां अन्यादृशी विलसतीश वदान्यता ते ॥ १०॥ सर्वेश्वरोऽपि नटराज दिगंबरस्त्वं वाहो वृषस्तव गिरौ शयनं पिशाचाः । मित्राणि भूषणमहो भुजगश्च भस्म भिक्षामटस्यपि च नृत्यसि नित्यमेव ॥ ११॥ तातो भवान्मम तनूभव एष तेऽहं सर्वेश्वरोऽस्यहमपीश नितान्तदीनः । एतादृशं न किल मां परिरक्षसि त्वं प्रेमात्मजेष्वसदृशं भवतो विभासि ॥ १२॥ श्रीमन्नटेश-चरणाब्ज-समर्प्यमाणं श्रीरामशर्म-कलितां नवरत्नमालां । सन्तो विलोक्य परिहृत्य समस्त-दोषान् गृह्णन्तु पूर्णकृपया गुणमल्पमेव ॥ १३॥ ॥ श्रीनटेश नवरत्नमालिका समाप्ता ॥