अक्षर आकार:

श्रीनटेशाष्टोत्तरशतनामावलिः

Shri Natesha Ashtottarashatanamavali

श्रीनटेशाष्टोत्तरशतनामावलिः

श्रीनटराजध्यानम् । नटेश्वरं सुन्दरवन्दिताङ्घ्रीं जटेन्दुगङ्गालसदुत्तमाङ्गम् । घटोद्भवादिस्तुतवैभवाङ्घ्रीं चिदम्बरेशं हृदि भावयामि ॥ ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्मोद्धृतम् । वह्निं डोलकराभयं डमरुकं वामे स्थितां श्यामलां कह्लारां जपसृक्शुकां कटिकरां देवीं सभेशीं भजे ॥ ॐ कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतिवामभागं । सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि ॥ अथ श्रीनटराजाष्टोत्तरशतनामावलिः । ॐ चिदम्बरेश्वराय नमः । ॐ हेमसभेशाय नमः । ॐ चित्सभेश्वराय नमः । ॐ चिदम्बरसभानाथाय नमः । ॐ चिदम्बरसभापतये नमः । ॐ चिदम्बरपुराधीशाय नमः । ॐ चिदम्बरसभानटाय नमः । ॐ सभेश्वराय नमः । ॐ सभामूर्तये नमः । ॐ ससम्राजे नमः । १० ॐ सदसस्पतये नमः । ॐ चिद्रूपाय नमः । ॐ नटेशाय नमः । ॐ नटनायकाय नमः । ॐ सभामणवे नमः । ॐ सभादीप्ताय नमः । ॐ नटराजे नमः । ॐ ताण्डवेश्वराय नमः । ॐ पुण्डरीकपुराधीशाय नमः । ॐ पुण्डरीकपुरेश्वराय नमः । २० ॐ पुण्डरीकरुचये नमः । ॐ वन्द्याय नमः । ॐ पुण्डरीकाक्षसेविताय नमः । २० ॐ तिल्वरुद्राय नमः । ॐ महारुद्राय नमः । ॐ नर्तकाय नमः । ॐ नृत्तसुन्दराय नमः । ॐ पञ्चाक्षराय नमः । ॐ परस्मैज्योतिषे नमः । ॐ सुन्दरानन्दताण्डवाय नमः । ३० ॐ आनन्दनटनाधीशाय नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ व्योमव्योम्ने नमः । ॐ व्योमकेशाय नमः । ॐ चिन्महाव्योमताण्डवाय नमः । ॐ अम्बराधीश्वराय नमः । ॐ हंसाय नमः । ॐ कुञ्चिताङ्घ्रे नमः । ॐ चिदम्बराय नमः । ॐ तिल्ववासाय नमः । ४० ॐ चिदीशाय नमः । ॐ विराजे नमः । ॐ तिल्ववनाधिपाय नमः । ॐ त्रैलोक्यसुन्दराय नमः । ॐ तिल्ववनाय नमः । ॐ तिल्वपुरीश्वराय नमः । ॐ व्याघ्रचर्मधराय नमः । ॐ व्याघ्रपुरेशाय नमः । ॐ व्याघ्रपादप्रियाय नमः । ॐ कृपानिधये नमः । ५० ॐ महाकालाय नमः । ॐ व्याघ्रपादप्रपूजिताय नमः । ॐ मन्त्रविग्रहाय नमः । ॐ ॐकाराय नमः । ॐ सिंहवर्माप्रपूजिताय नमः । ॐ जटाधराय नमः । ॐ ललाटाक्षाय नमः । ॐ पतञ्जलिवरप्रदाय नमः । ॐ अपस्मारहाराय नमः । ॐ सर्पभूषणाय नमः । ६० ॐ फणिराट्प्रियाय नमः । ॐ महाकामेश्वराय नमः । ॐ वज्रेश्वराय नमः । ॐ प्रासादविग्रहाय नमः । ॐ आनन्दताण्डवाय नमः । ॐ रत्नपादाय नमः । ॐ सुन्दरताण्डवाय नमः । ॐ हरिप्रियाय नमः । ॐ हराय नमः । ॐ शम्भवे नमः । ७० ॐ ईश्वराय नमः । ॐ जैमिनिप्रियाय नमः । ॐ मणिनूपुरपादाय नमः । ॐ श्रीचक्रवासाय नमः । ॐ उमापतये नमः । ॐ त्रिलोचनाय नमः । ॐ शूलपाणवे नमः । ॐ भूतेशाय नमः । ॐ वृषभध्वजाय नमः । ॐ श्रीचक्रप्रियाय नमः । ८० ॐ उग्राङ्गाय नमः । ॐ त्रिपुराय नमः । ॐ त्रिपुरेश्वराय नमः । ॐ मन्त्रमूर्तये नमः । ॐ सभाचक्राय नमः । ॐ मन्त्रराजे नमः । ॐ चक्रविग्रहाय नमः । ॐ परप्रकाशाय नमः । ॐ शिवकामिसुन्दराय नमः । ॐ परात्पराय नमः । ९० ॐ परमेशाय नमः । ॐ सर्वेशाय नमः । ॐ श्रीमदभ्रसभेश्वराय नमः । ॐ महेश्वराय नमः । ॐ महादेवाय नमः । ॐ शङ्कराय नमः । ॐ चन्द्रशेखराय नमः । ॐ ईशानाय नमः । ॐ तत्पुरुषाय नमः । ॐ अघोराय नमः । १०० ॐ वामदेवाय नमः । ॐ सद्योजाताय नमः । ॐ सदाशिवाय नमः । ॐ भुवनेशाय नमः । ॐ विश्वनाथाय नमः । ॐ शिवाय नमः । ॐ त्रिपुरारये नमः । ॐ सुन्दराय नमः । १०८ इति श्रीनटेशाष्टोत्तरशतनामावलिः समाप्ता ।