अक्षर आकार:

श्रीनटराजस्तवः

shrInaTarAjastavaH

श्रीनटराजस्तवः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । श्रीनटराजस्तवः । ॐ नटराजाय विद्महे । नटानन्दाय धीमहि । तन्नः शिवः प्रचोदयात् ॥ नमः शिवाय रुद्राय उमापाय नमो नमः । आनन्दताण्डवानन्दनटराजाय ते नमः ॥ १॥ चिदम्बरप्रनृत्यकं चिदात्मबोधनर्तनम् । नदत्पदस्थझङ्कृतं सदात्मलीनताण्डवम् ॥ २॥ सुताललास्यलासकं सुवक्त्रगारसस्वरम् । सुकाव्यलासरासकं सभव्यनृत्यताण्डवम् ॥ ३॥ सुनादनन्दताण्डवं चिदग्निमण्डलावृतम् । प्रकृत्यनुप्रवेशनं प्रकाशमण्डलं भवम् ॥ ४॥ झणत्करस्थडामरं करान्यपावकज्वलम् । वराभयप्रदोत्करं करस्फुरत्सुकाञ्चनम् ॥ ५॥ पदोत्थितं सुताण्डवं मृगारिचर्ममध्यमम् । सुवर्णलासवासनं नटप्रडीनवासनम् ॥ ६॥ गलप्रलाससर्पकं सुकर्णलासकुण्डलम् । स्मितोष्ठरञ्जनं मृडं सुनेत्रदीप्तिनर्तनम् ॥ ७॥ ललाटनेत्रशिक्षकं अलीकभस्मलेपनम् । जटार्धचन्द्रशोभनं जटाहिमण्डलं हरम् ॥ ८॥ सुमौलिगङ्गिकानटं सुगङ्गिकाहिमप्रियम् । हिमाम्बुवर्षगङ्गिकं नटोल्लसत्सुगङ्गिकम् ॥ ९॥ नमामि तं नटप्रियं नमामि चित्सभेश्वरम् । नमामि सृष्टिमण्डलं नमाम्युमामहेश्वरम् ॥ १०॥ उमेश्वराय मङ्गलं नटोत्तमाय मङ्गलम् । सुताण्डवाय मङ्गलं चिदम्बराय मङ्गलम् ॥ ११॥ शिवस्य ताण्डवस्तवं गुरुप्रसादकीर्तितम् । विकासपुष्पवासनं भवापहं भगप्रदम् ॥ १२॥ शिवस्य सत्कृपालयं सुगालयं मनोलयम् । सदा पठेद् वरप्रदं सदा सुमङ्गलावहम् ॥ १३॥ मङ्गलं चित्सभेशाय शक्तिनाथाय मङ्गलम् । मङ्गलं नटराजाय त्यागराजाय मङ्गलम् ॥ १४॥ त्यागराजगुरुस्वामिशिष्यापुष्पाप्रकीर्तितम् । नटराजस्तवस्तोत्रं नटराजकृपावहम् ॥ १५॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः श्रीनटराजस्तवः गुरौ समर्पितः । ॐ शुभमस्तु । Copyright Pushpa Srivatsan