अक्षर आकार:

श्रीनटराजकुञ्चितपादसहस्रनामस्तोत्रम्

shrInaTarAjakunchitapAdasahasranamastotram

श्रीनटराजकुञ्चितपादसहस्रनामस्तोत्रम्

॥ श्रीगुरुभ्यो नमः ॥ ॥ श्रीशिवकामसुन्दरीसमेत श्रीनटराजः शरणम् ॥ यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमोनटेशाय तस्मै कारुपयर्द्ध्वये ॥ १॥ कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् । शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ २॥ विनयावनता भूत्वा पप्रच्छ परमेश्वरी । भगवन्! भव! सर्वज्ञ! भवतापहराव्यय ॥ ३॥ त्वत्तः श्रुतं मया देव! सर्वं नामसहस्रकम् । नटेशस्यापि नामानि सुश्रुतानि मया प्रभो! ॥ ४॥ त्वत्तः श्रेष्ठतमः पादः कुञ्चितः पद्मसन्निभः । तस्मात्तन्नाम साहस्रं श्रोतुमिच्छामि शङ्कर! ॥ ५॥ असकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि । इदानीं कृपया शम्भो! वद वाञ्छाभिपूर्तये ॥ ६॥ श्रीशिव उवाच साधु साधु महादेवि! पृष्टं सर्वजगद्धितम् । पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ७॥ क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् । मामेकाग्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ८॥ तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् । ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ९॥ तुष्टाव विविधैस्त्वतोत्रैर्वेदवेदान्तसम्मितैः । वरं वरय हे वत्स! यदिष्टं मनसि स्थितम् ॥ १०॥ तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः । प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ११॥ रक्षार्थं सर्वजगतामसुराणा क्षयाय च । सार्वात्म्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १२॥ इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके । सञ्चिन्त्यानुत्तम स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ १३॥ नटेशकुञ्चिताङ्घ्रेस्तु नामसाहस्रमुत्तमम् । लक्षमीकान्ताय भक्ताय उक्तवानस्मि शङ्करि! ॥ १४॥ तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् । सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः ॥ १५॥ तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके । पठनान्मननाद्यस्य नृत्तं दर्शयति प्रभुः ॥ १६॥ सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् । सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् ॥ १७॥ वक्ष्यामि श‍ृणु हे देवि! नामसाहस्रमुत्तमम् । अस्य श्री शिवकामसुन्दरीसमेत श्री नटराजराजकुञ्चितपादसहस्रनामस्तोत्र महामन्त्रस्य सदाशिव ऋषिः, महाविराट् छन्दः, श्रीशिवकामसुन्दरीसमेतश्रीनटराजराजो देवता । बीजं, शक्तिः,कलिकं, अङ्गन्यासकरन्यासौ च चिन्तामणि मन्त्रवत् ॥ ॐ श्रीशिवाय नमः इति बीजम् । ॐ अनन्तशक्तये नमः इति शक्तिः । महेश्वराय नमः इति कीलकम् । श्रीनटेश्वरप्रसादसिद्ध्यर्थे नामपरायणे अर्चने विनियोगः । ॐ नम्याय नमः अङ्गुष्ठाभ्यां नमः । स्वाहा नमः -तर्जनीभ्यां स्वाहा (नमः) ॐ वषट्काराय नमः -मध्यमाभ्यां वषट् (नमः) । ॐ हुङ्काराय नमः -अनामिकाभ्यां हुं (नमः) ॐ वौषट्काराय नमः । कनिष्ठिकष्ठया वौषट् (नमः) ॐ फट्काराय नमः - करतलकरपृष्ठाभ्यां फट् (नमः) । ॐ नम्याय नमः - हृदयाय नमः । ॐ स्वाहा नमः शिरसे स्वाहा । ॐ वषट्काराय नमः - शिखायै वषट् । ॐ हुङ्काराय नमः - कवचाय हुम् । ॐ वौषट्काराय नमः - नेत्रत्रयाय वौषट् । ॐ फट्कराय नमः - अस्त्राय फट् । ॐ भृर्भुवस्सुवरों इति दिग्बन्धः । ध्यानम् ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां श्यामलां कल्हारां जपस्रक्षुकां कटिकरां देवीं सभेशं भणे ॥ १॥ फाले रत्नत्रिपुण्ड्रं फणिनमपि गले पादपीठे च भूतं बाह्वोर्वह्निं च ढक्कं वदनसरसिजे सूर्यचन्द्रौ शिखीन्द्रम् । ओङ्काराख्यप्रभायां सुरभुवनगणं पार्श्वयोर्वाद्यकारौ यः कृत्वाऽऽनन्दनृत्तं स्वसदसि कुरुते कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २॥ ऊरुन्याससुडोल - वह्रि - शुकभृद्वामं कराम्भोरुहं ढक्काच्छाक्षस्रगुत्पलाभयकरं वामं पदं कुञ्चितम् । उद्धृत्याधरभूत पृष्ठविलसद्दक्षाङ्घ्रिमर्धाम्बिकं सामीवस्त्रसुवेणिदृक्कुचभरं ध्यायेन्नटं मेलनम् ॥ ३॥ ध्यायेदात्मविमोहसंस्थितपदं रक्तांशुकं शङ्करं किञ्चित्कुञ्चितवामपादमतुलं व्यालम्बबाहुं त्रिभिः । वामे पौण्ड्र धनुश्च पाशदहनौ दक्षे करे चाभयं पौष्पं मार्गणमङ्कुशं डमरुकं बिभ्राणमच्छच्छविम् ॥ ४॥ ॥ अथ सहस्रनामस्तोत्रम् ॥ अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः । अखण्डानन्दचिद्रूपः परमानन्दताण्डवः ॥ १॥ अगम्यमहिमाम्भोधिः अनौपम्ययशोनिधिः । अग्रेवधोऽग्रेसम्पूज्यो हन्ता तारो मयोभवः ॥ २॥ अघोरोऽद्बुतचारित्र आनन्दवपुरग्रणीः । अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ ३॥ अतर्क्यस्सुकरस्सारः सत्तामात्रस्सदाशिवः । अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिः स्वधा ॥ अनन्तशक्तिराचार्यः पुष्कलस्सर्वपूरणः । अनर्घरत्नखचितकिरीटो निकटेस्थितः ॥ ५॥ अनहङ्कृतिरच्छेद्यस्स्वानन्दैकघनाकृतिः । अनावरणविज्ञानो निर्विभागो विभावसुः ॥ ६॥ अनिर्देश्योऽनिलोऽगम्योऽविक्रियोऽमोघवैभवः । अनुत्तमः परोदासो मुक्तिदो मुदिताननः ॥ ७॥ अन्नानां पतिरत्युग्रो हरिध्येयोऽद्वयाकृतिः । अपरोक्षोऽव्रणोऽलिङ्गोऽप्यद्वेष्टा प्रेमसागरः ॥ ८॥ अपर्यन्तोऽपरिच्छेद्योऽगोचरो रुग्विमोचकः । अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ ९॥ अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः । अमानी मदनोऽमन्युरमानो मानदो मनुः ॥ १०॥ अमूल्यमणिसभास्वत्फणीन्द्रकरकङ्कणः । अरुणः शरणः शर्वः शरण्य शर्मदः शिवः ॥ ११॥ अवशस्स्ववशस्स्थास्नुरन्तर्यामी शतक्रतुः । अशुभक्षयकृज्ज्योतिरनाकाशस्त्वलेपकः ॥ १२॥ अस्नेहस्सङ्गनिर्मुक्तोऽह्रस्वोऽदीर्घोऽविशेषकः अक्षरस्त्र्यक्षरस्त्रयक्षः पक्षपातविवर्जितः ॥ १३॥ आततावी महारुद्रः क्षेत्राणामधिपोऽक्षदः । आतन्वानश्शतानन्दो गृत्सो गृत्सपतिस्मृरः ॥ १४॥ आदित्यवर्णस्सञ्ज्योतिस्सम्यग्दर्शनतत्परः । आदिभूतो महाभूतस्स्वेच्छाकलितविग्रहः ॥ १५॥ आप्तकामोऽनुमन्ताऽऽत्मकामोऽभिन्नोऽनणुर्हरः । आभास्वरः परन्तत्वमादिमः पेशलः पविः ॥ १६॥ आव्याधिपतिरादित्यः ककुभः कालकोविदः । इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः ॥ १७॥ उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः । उदासीनौपद्रष्टा मौनगम्यो मुनीश्वरः ॥ १८॥ ऊर्ध्वपादूर्ध्वरेताश्च प्रौढनर्तनलम्पटः । ओषधीशस्सतामीशौच्चैर्घोषो विभीषणः ॥ १९॥ कन्दर्प कोटिसदृशः कपर्दी कमलाननः । कपालमालाभरणाः कङ्कालः कलिनाशनः ॥ २०॥ कपालमालालङ्कारः कालान्तकवपुर्धरः । कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ २१॥ कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः । कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ २२॥ करिचर्माम्बरधरः कपाली कलुषापहः । कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ २३॥ कक्षपश्च भुवन्तिश्च भवाख्यो वारिवस्कृतः । कालकण्ठः कालकालः कालकूटविषाशनः ॥ २४॥ कालनेता कालहन्ता कालचक्रप्रवर्तकः । कालज्ञः कामदः कान्तः कामारिः कामपालकः ॥ २५॥ कालात्मा कालिकानाथः कार्कोटकविभूषणः । कालिकानाट्यरसिको निशानटननिश्चलः ॥ २६॥ कालीवादप्रियः कालः कालातीतः कलाधरः । कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ २७॥ कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः । कूटस्थः कूर्मपीठस्थः कूश्माण्डग्रहमोचकः ॥ २८॥ कूलङ्कषकृपासिन्धुः कुशली कुङ्कुमेश्वरः । कृतज्ञः कृतिसारज्ञः कृशानुः कृष्णपिङ्गलः ॥ २९॥ कृताकृतः कृशः कृष्णाः शान्तिदः शरभाकृतिः । कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ३०॥ केवलः केशवः केलीकरः केवलनायकः । कैलासवासी कामेशः कविः कपटवर्जितः ॥ ३१॥ कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः । गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥ ३२॥ गर्वितो गगनावासो ग्रन्थित्रय विभेदनः । गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ ३३॥ गायको गरुडारूढो गजासुरविमर्दनः । गायत्रीवल्लभो गार्ग्यो गायकानुग्रहोन्मुखः ॥ ३४॥ गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः । गूढो गुह्यतरो गोप्यो गोरक्षी गणसेवितः ॥ ३५॥ चतुर्भुजश्शततनुः शमिताखिल कौतुकः । चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परन्तप ॥ ३६॥ चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डरः । चिदानन्दनटाधीशः चित्केवलवपुर्धरः ॥ ३७॥ चिदेकरससम्पूर्णः ह्रीं शिवश्श्रीमहेश्वरः । चैतन्यं चिच्छिद्वैतश्चिन्मात्रश्चित्सभाधिपः ॥ ३८॥ जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः । जटिलश्चटुलापाङ्गो महानटनलम्पटः ॥ ३९॥ जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः । जवनो जगदाधारो जमदग्निर्जराहरः ॥ ४०॥ जह्नुकन्याधरो जन्मजरामृत्युनिवारकः । णान्तनादिनामयुक्तविष्णुनम्यपदाम्बुजः ॥ ४१॥ तत्वावबोधस्तत्वेशस्तत्वभावस्तपोनिधिः ॥ तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्वबोधकः । त्रिधामा त्रिज्जगद्धेतुः त्रिमूर्तिस्तिर्यगूर्ध्वगः ॥ ४२॥ त्रिमातृकस्त्रिवृद्रूपः तृतीयस्त्रिगुणाधिकः । दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४३॥ दक्षिणाग्निर्गार्हपत्यो दमनो दानवान्तकः । दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः ॥ ४४॥ दुराराध्यो दुराधर्षो दुष्टदूरो दुरासदः । दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः ॥ ४५॥ दैव्यो भिषक् प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः । द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् ॥ ४६॥ धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः । धूष्णुर्दूतस्तीक्ष्णदम्ष्ट्रस्सुधन्वा सुतदः सुखी ॥ ४७॥ ध्यानगम्यो ध्यातृरूपो ध्येयो धर्मविदां वरः । नक्तञ्चरः प्रकृन्तानां पतिर्गिरिचरो गुरुः ॥ ४८॥ नन्दिनाट्यप्रियो नन्दी नटेशो नटवेषभृत् । नमदानन्ददो नम्यो नगराजनिकेतनः ॥ ४९॥ नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः । निचेरुकः परिचरोऽरण्यानां पतिरद्भुतः ॥ ५०॥ निरङ्कुशो निराधारो निरपायो निरत्ययः । निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराश्रयः ॥ ५१॥ निरंशो निगमानन्दो निरानन्दो निदानभूः । निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ ५२॥ निर्विकल्पो निरालम्बो निर्विकारो निरामयः । निषङ्गीषुधिमानिन्द्रस्तस्कराणामधीश्वरः ॥ ५३॥ निस्पन्दः प्रत्ययानन्दो निर्निमेषो निरन्तरः । नैष्कर्म्यदो नवरसः त्रिस्थस्त्रिपुरभैरवः ॥ ५४॥ पञ्चभूतप्रभुः पञ्चपूजासन्तुष्टमानसः । पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः ॥ ५५॥ पतञ्जलिप्राणनाश्च परापरविवर्जितः । पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥ ५६॥ पत्तीनामधिपः कृत्स्नवीतो धावंश्च सत्त्वपः । परमात्मा परं ज्योतिः परमेष्ठी परात्परः ॥ ५७॥ पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः । पवित्रः पार्वतीदारः परमापन्निवारकः ॥ ५८॥ पाटलाम्शुः पटुतरः पारिजातद्रुमूलगः । पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ ५९॥ पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः । पुण्यः पुमान्पुरिशयः पूषा पूर्णः पुरातनः ॥ ६०॥ पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः । पुरुहूतः पुरद्वेषी पुरत्रयविहारवान् ॥ ६१॥ पुलस्त्यः क्षयणो गृह्यो गोष्ठ्यो गोपरिपालकः । पुष्टानां पतिरव्यग्रो भवहेतिर्जगत्पतिः ॥ ६२॥ प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी । प्रपञ्चोपशमो नामरूपद्वयविवर्जितः ॥ ६३॥ प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षः प्रतिभात्मकः प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ६४॥ प्रमाणः प्रणवः प्राज्ञः प्राणदः प्राणनायकः । प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ॥ ६५॥ बभ्रुर्बहुविधाकारो बलप्रमथनो बली । बभ्रुशो भगवान्भाव्यो विव्याधी विगतज्वरः ॥ ६६॥ बिल्मी वरूथी दुन्दुभ्याहनन्यौ प्रमृशाभिधः । ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः ॥ ६७॥ ब्रह्मविद्याप्रदो ब्रह्म बृहद्गर्भो बृहस्पतिः । ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः ॥ ६८॥ ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मण्यो ब्रह्मचेतनः । भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः ॥ ६९॥ भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः । भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः ॥ ७०॥ भावाभावविनिर्मुक्तो भारूपो भावितो भरः । भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् ॥ ७१॥ भूमा भूतपतिर्भव्यो भूर्भुवोव्याहृतिप्रियः । भृङ्गिनाट्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् ॥ ७२॥ भ्राजिष्णुर्भावनागम्यो भ्रान्तिज्ञानविनाशनः । मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ७३॥ मनोभर्ता मनोगम्यो मननैकपरायणः । मनोवचोभिरग्राह्यो महाबिलकृतालयः ॥ ७४॥ मयस्करो महातिर्थ्यः कूल्यः पार्यः पदात्मकः । महर्द्धिर्महिमाधारो महासेनगुरुर्महः ॥ ७५॥ महाकर्ता महाभोक्ता महासंविन्मयो मधुः । महातात्पर्यनिलयः प्रत्यग्ब्रह्मैक्यनिश्चयः ॥ ७६॥ महानन्दो महास्कन्दो महेन्द्रो महसान्निधिः । महामायो महाग्रासो महावीर्यो महाभुजः ॥ ७७॥ महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः । माणिभद्रार्चितो मान्यो मायावी मान्त्रिको महान् ॥ ७८॥ मायानाटककृन्मायी मायायन्त्रविमोचकः । मायानाट्यविनोदज्ञो मायानटनशिक्षकः ॥ ७९॥ मीढुष्टमो मृगधरो मृकण्डुतनयप्रियः । मुनिरातार्य आलाद्यः सिकत्यश्च किँशिलः ॥ ८०॥ मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः । यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ८१॥ यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः । योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ८२॥ योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः । रविमण्डलमध्यस्थो रजोगुणविवर्जितः ॥ ८३॥ राजराजेश्वरो रम्यो रात्रिञ्चर विनाशनः । रातिर्दातिश्चतुष्पादः स्वात्मबन्धहरः स्वभूः ॥ ८४॥ रुद्राक्षस्रङ्मयाकल्पः कह्लारकिरणद्युतिः । रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः ॥ ८५॥ लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः । वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्मभृत् ॥ ८६॥ वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः । वशी वरेण्यो विततो वज्रभृद्वरुणात्मकः ॥ ८७॥ वह्निमण्डलमध्यस्थो वर्षीयान् वरुणेश्वरः । वाच्यवाचकनिर्मुक्तो वागीशो वागगोचरः ॥ ८८॥ विकाररहितो विष्णुर्विराडीशो विराण्मयः । विघ्नेश्वरो विघ्ननेता शक्तिपाणिः शरोद्भवः ॥ ८९॥ विजिघत्सो विगतभीर्विपिपासो विभावना । विदग्धमुग्धवेषाड्यो विश्वातीतो विशोकदः ॥ ९०॥ विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः । विद्युत्यो विवहो मेध्यो रेष्मियो वास्तुपो वासः ॥ ९१॥ विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः । वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ ९२॥ विराठृदयपद्मस्थो विधिर्विश्वाधिको विभुः । विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः ॥ ९३॥ विश्रान्तिभूर्विवसनो विघ्नहन्ता विनोदकः । विश‍ृङ्खलो वियद्धेतुर्विषमो विद्रुमप्रभः ॥ ९४॥ विश्वस्यायतनो वर्यो वन्दारुजनवत्सल । विज्ञानमात्रो विरजा विरामो विबुधाश्रय ॥ ९५॥ वीरप्रियो वीतभयो विन्ध्यदर्पविनाशन । वीरभद्रो विशालाक्षो विष्णुबाणो विशां पतिः ॥ ९६॥ वृद्धिक्षयविनिर्मुक्तो विद्योतो विश्ववञ्चकः । वेतालनटनप्रीतो वेतण्डत्वक्कृताम्बरः ॥ ९७॥ वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः । वेदान्तकृत्तुर्यपादो वैद्युतः सुकृतोद् भवः ॥ ९८॥ वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंस्तुतः । वेलातिलङ्घिकरुणो विलासी विक्रमोन्नतः ॥ ९९॥ वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः । वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः ॥ १००॥ वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः । व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ १०१॥ व्याघ्रपादप्रियो व्याघ्रचर्मधृद्वयाधिनाशनः । व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः ॥ १०२॥ व्युप्तकेशोऽथ विशदो विष्वक्सेनो विशोधकः । व्योमकेशो व्योममूर्तिर्व्योमाकारोऽव्ययाकृतिः ॥ १०३॥ व्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लकः क्षमी । शक्तिपातकरः शक्तः शाश्वतः श्रेयसां निधिः ॥ १०४॥ शयानः शन्तमः शान्तः शासकः श्यामलाप्रियः । शिवङ्करः शिवतरः शिष्टहृष्टः शिवागमः ॥ १०५॥ शीघ्रियश्शीभ्य आनन्दः क्षयद्वीरश्शरोऽक्षरः । शुद्धस्फटिकसङ्काशः श्रुतिप्रस्तुतवैभवः ॥ १०६॥ शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पर्ण्योऽणिमादिभूः । शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः ॥ १०७॥ शङ्गः प्रतरणोऽवार्यः फेन्यः शष्प्यः प्रवाहजः । श्राव्यः शत्रुहरः शूली श्रुतिस्मृतिविधायकः ॥ १०८॥ श्रीशिवः श्रीशिवानाथः श्रीमान् श्रीपतिपूजितः । श्रुत्यः पथ्यस्स्वतन्त्रस्थः काट्यो नीप्यः करोटिभृत् ॥ १०९॥ षडाधारगतः साङ्ख्यः षडक्षरसमाश्रयः । षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११०॥ सकृद्विभातः संवेत्ता सदसत्कोटिवर्जितः । सत्त्वसंस्थः सुषुप्तिस्थः सुतल्पः सत्स्वरूपगः ॥ १११॥ सद्योजातः सदाराध्यः सामगः सामसंस्तुतः । सनातनः समः सत्यः सत्यवादी समृद्धिदः ॥ ११२॥ समदृष्टिः सत्यकामः सनकादिमुनिस्तुतः । समस्तभुवनव्यापी समृद्धः सततोदितः ॥ ११३॥ सर्वकृत्सर्वजित्सर्वमयः सत्वावलम्बकः । सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः ॥ ११४॥ सर्वदृक् सर्वभृत्सर्गः सर्वहृत्कोशसंस्थितः । सर्वप्रियतमः सर्वदारिद्र्यक्लेशनाशनः ॥ ११५॥ सर्वविद्यानामीशान ईश्वराणामधीश्वरः । सर्वज्ञः सर्वदः स्थाणुः सर्वेशः समरप्रियः ॥ ११६॥ सर्वातीतः सारतरः साम्बः सारस्वतप्रदः । सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः ॥ ११७॥ सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः । सव्यताण्डवसम्पन्नो महाताण्डववैभवः ॥ ११८॥ सस्पिञ्जरः पशुपतिस्त्विषीमानध्वनां पतिः । सहमानस्सत्यधर्मा निव्याधी नियमो यमः ॥ ११९॥ सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः । सहस्राक्षार्चितः सम्राट् सन्धाता सम्पदालयः ॥ १२०॥ सिद्धेशः सिद्धिजनकः सिद्धान्तः सिद्धवैभवः । सुधारूपः सुराध्यक्षः सुभ्रूः सुखघनः सुधीः ॥ १२१॥ सुनिश्चितार्थो राद्धान्तः तत्वमर्थस्तपोमयः । सुव्रतः सत्यसङ्कल्पः स्वसंवेद्यः सुखावहः ॥ १२२॥ सूतः सदस्पतिः सूरिरहन्त्यो वनपो वरः । सूत्रभूतः स्वप्रकाशः समशीलः सदादयः ॥ १२३॥ सूत्रात्मा सुलभः स्वच्छः सूदरः सुन्दराननः । सूद्यस्सरस्यो वैशन्तो नाद्योऽवट्योटचोऽथ वर्षकः ॥ १२४॥ सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः । सृकावी मुष्णतां नाथः पञ्चाशद्वर्णरूपभृत् ॥ १२५॥ सोममण्डलमध्यस्थः सोमः सौम्यः सुहृद्वरः । सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२६॥ सम्पन्नः सङ्क्रमः सत्री सन्दाता सकलोर्जितः । सम्प्रवृद्धः सन्निकृष्टः संविमृष्टः समग्रदृक् ॥ १२७॥ सम्प्रहृष्टः सन्निविष्टः संस्पष्टः सम्प्रमर्दनः । संयद्वामः संयमीन्द्रः संशयच्छित् सहस्रदृक् ॥ १२८॥ संयमस्थः संहृदिस्थः सम्प्रविष्टः समुत्सुकः । संवत्सरः कलापूर्णस्सुरासुरनमस्कृतः ॥ १२९॥ संवर्ताग्न्युदरः सर्वान्तरस्थस्सर्वदुर्ग्रहः । संशान्तसर्वसङ्कल्पः संसदीशः सदोदितः ॥ १३०॥ स्फुरङ्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः । स्वच्छन्दः स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमतः ॥ १३१॥ स्वात्मस्थः स्वायुधः स्वामी स्वानन्यः स्वांशिताखिलः । स्वाहारूपो वसुमनाः वटुकः क्षेत्रपालकः ॥ १३२॥ हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाशयः । हिरण्यबाहुस्सेनानीर्हरिकेशो दिशाम्पतिः ॥ १३३॥ हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः । हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः ॥ १३४॥ हेलाविनिर्मितजगद्धेमश्वश्रुर्हिरण्मयः । ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽभासकः ॥ १३५॥ उत्तर पीठिका । इति कुञ्चितपादस्य नटराजस्य सुन्दरम् । नाम्नां सहस्रं सम्प्रोक्तं मया देवि त्वदादरात् ॥ १॥ सर्वमन्त्रमयं ह्येतत् न प्रकाश्यं कदाचन । सच्छिष्याय विनीताय भक्ताय नटनायके ॥ २॥ कराङ्गन्याससंयुक्तं प्रोक्तव्यं ध्यानसंयुतम् । कन्यार्थी लभते कन्यां धनार्थी धनमाप्नुयात् ॥ ३॥ विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्नुयात् । यद्यत् प्रार्थयते मर्त्यः तत्सर्वं लभते धुवम् ॥ ४॥ सर्वसिद्धिकरं पुण्यं सर्वविद्याविवर्द्धनम् । सर्वसम्पत्प्रदमिदं सर्वापद्घ्नमघापहम् ॥ ५॥ आभिचारप्रयोगादिमहाकृत्यानिवारणम् । अपस्मारमहाव्याधिज्वरकुष्ठादिनाशनम् ॥ ६॥ अत्युत्पातभयक्षोभक्षुद्रवारणकारणम् । कूश्माण्डरुद्रवेतालशाकिन्यादिभयापहम् ॥ ७॥ स्मरणादेव जन्तूनां ब्रह्महत्यादिनाशनम् । अस्मात्परतरं स्तोत्रं नास्ति लोकत्रयेऽम्बिके ॥ ८॥ एतन्नामसहस्रस्य पठनात्सकृदेव हि । महापातकयुक्तोऽपि शिवसायुज्यमाप्नुयात् ॥ ९॥ प्रयोगलक्षणं वक्ष्ये श‍ृणु शैलसुतेऽधुना । पञ्चम्यामथवाष्टम्यां दशम्यां वा विशेषतः ॥ १०॥ स्नात्वा शुभासने स्थित्वा ध्यायन् श्रीनटनायकम् । प्रजपेत्द्वादशावृत्या सर्वान्कामानवाप्नुयात् ॥ ११॥ आर्द्रायां प्रातरारभ्य नटनाथस्य सन्निधौ । आसायं प्रजपेदेतत् एवं संवत्सरत्रयम् ॥ १२॥ तस्य भक्तस्य देवेशः नटनं दर्शयेत्प्रभुः । बिल्ववृक्षस्य निकटे प्रदोषे प्रजपेदिदम् ॥ १३॥ षड्भिर्मासैमहैश्वर्यं लभते नचिरान्नरः । अनेन स्तोत्रराजेन मन्त्रितं भस्म धारयेत् ॥ १४॥ भस्मावलोकनान्मृत्युर्वश्यो भवति तत्क्षणात् । सलिलं प्राशयेद्धीमान्मन्त्रेणानेन मन्त्रितम् ॥ १५॥ सर्वविद्यामयो भूत्वा व्याकरोत्यश्रुतादिकम् । नाटकादिमहाग्रन्थं कुरुते नात्र संशयः ॥ १६॥ चतुर्थ्यन्तं समुच्चार्य नामैकं तु ततो जपेत् । पञ्चाक्षरं तथा नाम्रा सहस्रं प्रजपेत्क्रमात् ॥ १७॥ एवं त्रिवारं मासानां अष्टाविंशतिके गते । निग्रहानुग्रहौ कर्तुं शक्तिरस्योपजायते ॥ १८॥ नाम्नामादौ तथान्ते च पञ्चाक्षरमहामनुम् । जप्त्वा मध्यस्थितं नाम निर्नमोन्तं सदाऽसकृत् ॥ १९॥ चतुर्थ्यन्तं जपेद्धीमान् त्रिवर्षं च त्रिवारकैः । अणिमादिमहासिद्धिमचिरात्प्राप्नुयाद्ध्रुवम् ॥ २०॥ सर्वेष्वपि च लोकेषु सिद्धस्सन्नाचरेन्नरः । लक्ष्मीबीजद्वयक्षिप्तमाद्यन्ते नाम यश्शिवे ॥ २१॥ वाञ्छितां श्रियमाप्नोति सत्यमुक्तं वरानने । हृल्लेखामन्त्रसंयुक्तं पूर्ववत्संयुतं जपेत् ॥ २२॥ योगसिद्धिर्भवेत्तस्य त्रिचतुः पञ्चवत्सरैः । किमत्र बहुनोक्तेन या या सिद्धिरभीप्सिता ॥ २३॥ सा सा सिद्धिर्भवेदस्य सत्यमेव मयोदितम् । कण्ठदघ्नजले स्थित्वा त्रिवारं प्रजपेदिदम् ॥ २४॥ रिपूनुच्चाटयेच्छीघ्रमेकेनैव दिनेन सः । दक्षिणाभिमुखो भूत्वा धृत्वार्द्रवसनं शुचिः ॥ २५॥ शत्रुनाम समुच्चार्य मारयेति पदाङ्कितम् । पठेदिमं स्तवं क्रोधात्सप्तकृत्वः त्रिभिर्दिनैः ॥ २६॥ स रिपुर्मृत्युगेहस्य धुवमातिथ्यभाग्भवेत् । हरिद्रया नटाधीशं कृत्वा प्राणान्प्रतिष्ठिपेत् ॥ २७॥ पीतपुष्पैस्समभ्यर्च्य स्तोत्रमेतज्जपेन्नरः । स्तम्भयेत्सकलान् लोकान् किमिह क्षुद्रमानुषान् ॥ २८॥ आकर्षणाय सर्वेषामुत्तराभिमुखो जपेत् । वाञ्छिताः योषितस्सर्वास्तथा लोकान्तरस्थिताः ॥ २९॥ यक्षाश्च किन्नराश्चापि राजानो वशमाप्नुयुः । कुम्भस्थितं जलं स्पृष्ट्वा त्रिवारं प्रजपेदिदम् ॥ ३०॥ महाग्रहगणग्रस्तानभिषेकं तु कारयेत् । जलदर्शनमात्रेण मुच्यते च ग्रहादिभिः ॥ ३१॥ अकारादिज्ञकारान्तनामग्रथितमुत्तमम् । स्तोत्रमेतज्जपित्वा च पठित्वा श्रियमाप्नुयात् ॥ ३२॥ पूजयित्वा नामभिश्च नटेशप्रीतिभाग्भवेत् । किमत्र बहुनोक्तेन सिद्ध्यन्त्यखिलसिद्धयः ॥ ३३॥ साक्षान्नटेश्वरो देवो वश्यो भवति शैलजे । अस्मात्परतरा सिद्धिः का वास्ति कथय प्रिये ॥ ३४॥ निष्कामस्त्वचिरादेव ब्रह्मज्ञानमवाप्नुयात् । तस्मात्सर्वप्रयत्नेन यतिभिर्ब्रह्मचारिभिः ॥ ३५॥ वनस्थैश्च गृहस्थैश्च सर्वैर्जप्यं प्रयत्नतः । नित्यकर्मवदेवेदं स्तोत्रं जप्यं सदादरात् ॥ ३६॥ ब्रह्मादयोऽपि यन्नामपाठस्यैव प्रसादतः । सृष्टिस्थित्यन्तकर्तारो जगतां चिरजीविनः ॥ ३७॥ अन्ये च मुनयस्सर्वे हयग्रीवादयः पुरा । पठित्वा परमां सिद्धिं पुनरावृत्तिवर्जिताम् ॥ ३८॥ लेभिरे तदिदं स्तोत्रं पठ त्वमपि शैलजे । अस्मात्परतरं वेद्यं नास्ति सत्यं मयोदितम् ॥ ३९॥ ॥ श्रीभृङ्गिरिटि संहितायां श्रीशिवकामसुन्दरीसमेत श्री नटराजराज कुञ्चितपादसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ शिवम् ॥ ततः चिन्तामणिमन्त्रेण अङ्गन्यासं, ध्यायेत्कोटि रविप्रभमिति फालेरत्नत्रिपुण्ड्रं इति ध्यानं लं पृथिव्यात्मन इति पञ्च पूजां च कुर्यात् । भूर्भुवस्सुवरोमिति दिक्विमोकः इति तु विशेषः । चिन्तामणि मन्त्रः सनियमं गुरूपदेशात् ज्ञेयः ॥ यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला । तयोः संस्मरणान्नित्यं सर्वतो जयमङ्गलम् ॥ ॥ महोत्सवयात्राक्रमः ॥ मञ्चे चन्द्रार्कभूतेष्वपि वृषगजराड्राजताद्रिष्वथाश्वैः सोमास्कन्दस्वरूपस्स्वयमुरुनयने गोरथे मार्गणो यः । स्थित्वा ब्रह्मोत्सवेषु त्रिषु च नटपतिः प्रत्यहं वीथियात्रां कृत्वा स्नात्वा सह स्वं प्रविशति शिवया कुञ्चिताङ्घ्रिं भज्येऽहम् ॥ मङ्गलं चित्सभेशाय महनीयगुणात्मने । चक्रवर्तिनुताय श्रीनटराजाय मङ्गलम् ॥ ॥ नटराजराजः शुभमातनोतु ॥