अक्षर आकार:

श्रीनटराजकुञ्चितपादसहस्रनामावलिः

shrInaTarAjakunchitapAdasahasranamavali

श्रीनटराजकुञ्चितपादसहस्रनामावलिः

अस्य श्री शिवकामसुन्दरीसमेत श्री नटराजराजकुञ्चितपादसहस्रनामस्तोत्र महामन्त्रस्य सदाशिव ऋषिः, महाविराट् छन्दः, श्रीशिवकामसुन्दरीसमेतश्रीनटराजराजो देवता । बीजं, शक्तिः,कलिकं, अङ्गन्यासकरन्यासौ च चिन्तामणि मन्त्रवत् ॥ ॐ श्रीशिवाय नमः इति बीजम् । ॐ अनन्तशक्तये नमः इति शक्तिः । महेश्वराय नमः इति कीलकम् । श्रीनटेश्वरप्रसादसिद्ध्यर्थे नामपरायणे अर्चने विनियोगः । ॐ नम्याय नमः अङ्गुष्ठाभ्यां नमः । स्वाहा नमः -तर्जनीभ्यां स्वाहा (नमः) । ॐ वषट्काराय नमः -मध्यमाभ्यां वषट् (नमः) । ॐ हुङ्काराय नमः -अनामिकाभ्यां हुं (नमः) ॐ वौषट्काराय नमः । कनिष्ठिकष्ठया वौषट् (नमः) ॐ फट्काराय नमः - करतलकरपृष्ठाभ्यां फट् (नमः) । ॐ नम्याय नमः - हृदयाय नमः । ॐ स्वाहा नमः शिरसे स्वाहा । ॐ वषट्काराय नमः - शिखायै वषट् । ॐ हुङ्काराय नमः - कवचाय हुम् । ॐ वौषट्काराय नमः - नेत्रत्रयाय वौषट् । ॐ फट्कराय नमः - अस्त्राय फट् । ॐ भृर्भुवस्सुवरों इति दिग्बन्धः । ध्यानम् ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां श्यामलां कल्हारां जपस्रक्षुकां कटिकरां देवीं सभेशं भणे ॥ १॥ फाले रत्नत्रिपुण्ड्रं फणिनमपि गले पादपीठे च भूतं बाह्वोर्वह्निं च ढक्कं वदनसरसिजे सूर्यचन्द्रौ शिखीन्द्रम् । ओङ्काराख्यप्रभायां सुरभुवनगणं पार्श्वयोर्वाद्यकारौ यः कृत्वाऽऽनन्दनृत्तं स्वसदसि कुरुते कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २॥ ऊरुन्याससुडोल - वह्रि - शुकभृद्वामं कराम्भोरुहं ढक्काच्छाक्षस्रगुत्पलाभयकरं वामं पदं कुञ्चितम् । उद्धृत्याधरभूत पृष्ठविलसद्दक्षाङ्घ्रिमर्धाम्बिकं सामीवस्त्रसुवेणिदृक्कुचभरं ध्यायेन्नटं मेलनम् ॥ ३॥ ध्यायेदात्मविमोहसंस्थितपदं रक्तांशुकं शङ्करं किञ्चित्कुञ्चितवामपादमतुलं व्यालम्बबाहुं त्रिभिः । वामे पौण्ड्र धनुश्च पाशदहनौ दक्षे करे चाभयं पौष्पं मार्गणमङ्कुशं डमरुकं बिभ्राणमच्छच्छविम् ॥ ४॥ अथ सहस्रनामावलिः । ॐ अखण्डबोधाय नमः । ॐ अखण्डात्मने नमः । ॐ घण्टामण्डलमण्डिताय नमः । ॐ अखण्डानन्दचिद्रूपाय नमः । ॐ परमानन्दताण्डवाय नमः । ॐ अगम्यमहिमाम्भोधये नमः । ॐ अनौपम्ययशोनिधये नमः । ॐ अग्रेवधाय नमः । ॐ अग्रेसम्पूज्याय नमः । ॐ हन्त्रे नमः । १० ॐ ताराय नमः । ॐ मयोभवाय नमः । ॐ अघोराय नमः । ॐ अद्बुतचारित्राय नमः । ॐ आनन्दवपुषे नमः । ॐ अग्रण्ये नमः । ॐ अजीर्णाय नमः । ॐ सुकुमाराय नमः । ॐ अन्यस्मै नमः । ॐ पारदर्शिने नमः । २० ॐ पुरन्दराय नमः । ॐ अतर्क्याय नमः । ॐ सुकराय नमः । ॐ साराय नमः । ॐ सत्तामात्राय नमः । ॐ सदाशिवाय नमः । ॐ अनन्तरूपाय नमः । ॐ एकात्मने नमः । ॐ स्वस्तरवे नमः । ॐ व्याहृतये नमः । ३० ॐ स्वदघ्ने नमः । ॐ अनन्तशक्तये नमः । ॐ अचार्याय नमः । ॐ पुष्कलाय नमः । ॐ सर्वपूरणाय नमः । ॐ अनर्घरत्नखचितकिरीटाय नमः । ॐ निकटेस्थिताय नमः । ॐ अनहङ्कृते नमः । ॐ अच्छेद्याय नमः । ॐ स्वानन्दैकघनाकृतये नमः । ४० ॐ अनावरणविज्ञानाय नमः । ॐ निर्विभागाय नमः । ॐ विभावसवे नमः । ॐ अनिर्देश्याय नमः । ॐ अनिलाय नमः । ॐ अगम्याय नमः । ॐ अविक्रियाय नमः । ॐ अमोघवैभवाय नमः । ॐ अनुत्तमाय नमः । ॐ परोदासाय नमः । ५० ॐ मुक्तिदाय नमः । ॐ मुदिताननाय नमः । ॐ अन्नानां पतये नमः । ॐ अत्युग्राय नमः । ॐ हरिध्येयाय नमः । ॐ अद्वयाकृतये नमः । ॐ अपरोक्षाय नमः । ॐ अव्रणाय नमः । ॐ अलिङ्गाय नमः । ॐ अद्वेष्ट्रे नमः । ६० ॐ प्रेमसागराय नमः । ॐ अपर्यन्ताय नमः । ॐ अपरिच्छेद्याय नमः । ॐ अगोचराय नमः । ॐ रुग्विमोचकाय नमः । ॐ अपस्मृतिन्यस्तपादाय नमः । ॐ कृत्तिवाससे नमः । ॐ कृपाकराय नमः । ॐ अप्रमेयाय नमः । ॐ अप्रतिरथाय नमः । ७० ॐ प्रद्युम्नाय नमः । ॐ प्रमथेश्वराय नमः । ॐ अमानिने नमः । ॐ मदनाय नमः । ॐ अमन्यवे नमः । ॐ अमानाय नमः । ॐ मानदाय नमः । ॐ मनवे नमः । ॐ अमूल्यमणिसभास्वत्फणीन्द्रकरकङ्कणाय नमः । ॐ अरुणाय नमः । ८० ॐ शरणाय नमः । ॐ शर्वाय नमः । ॐ शरण्याय नमः । ॐ शर्मदाय नमः । ॐ शिवाय नमः । ॐ अवशाय नमः । ॐ स्ववशाय नमः । ॐ स्थास्न्वे नमः । ॐ अन्तर्यामिणे नमः । ॐ शतक्रतवे नमः । ९० ॐ अशुभक्षयकृते नमः । ॐ ज्योतिषे नमः । ॐ अनाकाशाय नमः । ॐ अलेपकाय नमः । ॐ अस्नेहाय नमः । ॐ सङ्गनिर्मुक्ताय नमः । ॐ अह्रस्वाय नमः । ॐ अदीर्घाय नमः । ॐ अविशेषकाय नमः । ॐ अक्षराय नमः । १०० ॐ त्र्यक्षराय नमः । ॐ त्रयक्षाय नमः । ॐ पक्षपातविवर्जिताय नमः । ॐ आतताविने नमः । ॐ महारुद्राय नमः । ॐ क्षेत्राणामधिपाय नमः । ॐ अक्षदाय नमः । ॐ आतन्वानाय नमः । ॐ शतानन्दाय नमः । ॐ गृत्साय नमः । ११० ॐ गृत्सपतये नमः । ॐ सुराय नमः । ॐ आदित्यवर्णाय नमः । ॐ संञ्ज्योतिषे नमः । ॐ सम्यग्दर्शनतत्पराय नमः । ॐ आदिभूताय नमः । ॐ महाभूत नमः । ॐ स्वेच्छाकलितविग्रहाय नमः । ॐ आप्तकामाय नमः । ॐ अनुमन्त्रे नमः । १२० ॐ आत्मकामाय नमः । ॐ अभिन्नाय नमः । ॐ अनणवे नमः । ॐ हराय नमः । ॐ आभास्वराय नमः । ॐ परस्मैतत्वाय नमः । ॐ आदिमाय नमः । ॐ पेशलाय नमः । ॐ पवये नमः । ॐ आव्याधिपतये नमः । १३० ॐ आदित्याय नमः । ॐ ककुभाय नमः । ॐ कालकोविदाय नमः । ॐ इच्छानिच्छाविरहिताय नमः । ॐ विहारिणे नमः । ॐ वीर्यवर्धनाय नमः । ॐ उद्दण्डताण्डवाय नमः । ॐ चण्डाय नमः । ॐ ऊर्ध्वताण्डवपण्डिताय नमः । ॐ उदासीनाय नमः । १४० ॐ उपद्रष्ट्रे नमः । ॐ मौनगम्याय नमः । ॐ मुनीश्वराय नमः । ॐ ऊर्ध्वपदे नमः । ॐ उर्ध्वरेतसे नमः । ॐ प्रौढनर्तनलम्पटाय नमः । ॐ ओषधीशाय नमः । ॐ सतामीशाय नमः । ॐ उच्चैर्घोषाय नमः । ॐ विभीषणाय नमः । १५० ॐ कन्दर्पाकोटिसदृशाय नमः । ॐ कपर्दिने नमः । ॐ कमलाननाय नमः । ॐ कपालमालाभरणाय नमः । ॐ कङ्कालाय नमः । ॐ कलिनाशनाय नमः । ॐ कपालमालालङ्काराय नमः । ॐ कालान्तकवपुर्धराय नमः । ॐ कमनीयाय नमः । ॐ कलानाथशेखराय नमः । १६० ॐ कम्बुकन्धराय नमः । ॐ कमनीयनिजानन्दमुद्राञ्चितकराम्बुजाय नमः । ॐ कराब्जधृतकालाग्नये नमः । ॐ कदम्बकुसुमारुणाय नमः । ॐ करिचर्माम्बरधराय नमः । ॐ कपालिने नमः । ॐ कलुषापहाय नमः । ॐ कल्याणमूर्तये नमः । ॐ कल्याणीरमणाय नमः । ॐ कमलेक्षणाय नमः । १७० ॐ कक्षपाय नमः । ॐ भुवन्तये नमः । ॐ भवाख्याय नमः । ॐ वारिवस्कृताय नमः । ॐ कालकण्ठाय नमः । ॐ कालकालाय नमः । ॐ कालकूटविषाशनाय नमः । ॐ कालनेत्रे नमः । ॐ कालहन्त्रे नमः । ॐ कालचक्रप्रवर्तकाय नमः । १८० ॐ कालज्ञाय नमः । ॐ कामदाय नमः । ॐ कान्ताय नमः । ॐ कामारये नमः । ॐ कामपालकाय नमः । ॐ कालात्मने नमः । ॐ कालिकानाथाय नमः । ॐ कार्कोटकविभूषणाय नमः । ॐ कालिकानाट्यरसिकाय नमः । ॐ निशानटननिश्चलाय नमः । १९० ॐ कालीवादप्रियाय नमः । ॐ कालाय नमः । ॐ कालातीताय नमः । ॐ कलाधराय नमः । ॐ कुठारभृते नमः । ॐ कुलाद्रीशाय नमः । ॐ कुञ्चितैकपदाम्बुजाय नमः । ॐ कुलुञ्चानां पतये नमः । ॐ कूप्याय नमः । ॐ धन्वाविने नमः । २०० ॐ धनदाधिपाय नमः । ॐ कूटस्थाय नमः । ॐ कूर्मपीठस्थाय नमः । ॐ कूश्माण्डग्रहमोचकाय नमः । ॐ कूलङ्कषकृपासिन्धवे नमः । ॐ कुशलिने नमः । ॐ कुङ्कुमेश्वराय नमः । ॐ कृतज्ञाय नमः । ॐ कृतिसारज्ञाय नमः । ॐ कृशानवे नमः । २१० ॐ कृष्णपिङ्गलाय नमः । ॐ कृताकृताय नमः । ॐ कृशाय नमः । ॐ कृष्णाय नमः । ॐ शान्तिदाय नमः । ॐ शरभाकृतये नमः । ॐ कृतान्तकृते नमः । ॐ क्रियाधाराय नमः । ॐ कृतिने नमः । ॐ कृपणरक्षकाय नमः । २२० ॐ केवलाय नमः । ॐ केशवाय नमः । ॐ केलीकराय नमः । ॐ केवलनायकाय नमः । ॐ कैलासवासिने नमः । ॐ कामेशाय नमः । ॐ कवये नमः । ॐ कपटवर्जिताय नमः । ॐ कोटिकन्दर्पसौभाग्यसुन्दराय नमः । ॐ मधुरस्मिताय नमः । २३० ॐ गदाधराय नमः । ॐ गणस्वामिने नमः । ॐ गरिष्त्ठाय नमः । ॐ तोमरायुधाय नमः । ॐ गर्विताय नमः । ॐ गगनावासाय नमः । ॐ ग्रन्थित्रयविभेदनाय नमः । ॐ गह्वरेष्ठाय नमः । ॐ गणाधीशाय नमः । ॐ गणेशाय नमः । २४० ॐ गतिवर्जिताय नमः । ॐ गायकाय नमः । ॐ गरुडारूढाय नमः । ॐ गजासुरविमर्दनाय नमः । ॐ गायत्रीवल्लभाय नमः । ॐ गार्ग्याय नमः । ॐ गायकानुग्रहोन्मुखाय नमः । ॐ गुहाशयाय नमः । ॐ गुणातीताय नमः । ॐ गुरुमूर्तये नमः । २५० ॐ गुहप्रियाय नमः । ॐ गूढाय नमः । ॐ गुह्यतराय नमः । ॐ गोप्याय नमः । ॐ गोरक्षिने नमः । ॐ गणसेविताय नमः । ॐ चतुर्भुजाय नमः । ॐ शततनवे नमः । ॐ शमिताखिलायकौतुकाय नमः । ॐ चतुर्वक्त्राय नमः । २६० ॐ चक्रधराय नमः । ॐ पञ्चवक्त्राय नमः । ॐ परन्तपाय नमः । ॐ चिच्छक्तिलोचनानन्दकन्दलाय नमः । ॐ कुन्दपाण्डराय नमः । ॐ चिदानन्दनटाधीशाय नमः । ॐ चित्केवलवपुर्धराय नमः । ॐ चिदेकरससम्पूर्णाय नमः । ॐ ह्रीं शिवाय नमः । ॐ श्रीमहेश्वराय नमः । २७० ॐ चैतन्याय नमः । ॐ चिच्छिदे नमः । ॐ अद्वैताय नमः । ॐ चिन्मात्राय नमः । ॐ चित्सभाधिपाय नमः । ॐ जटाधराय नमः । ॐ अमृताधाराय नमः । ॐ अमृतांशवे नमः । ॐ अमृतोद्भवाय नमः । ॐ जटिलाय नमः । २८० ॐ चटुलापाङ्गाय नमः । ॐ महानटनलम्पटाय नमः । ॐ जनार्दनाय नमः । ॐ जगत्स्वामिणे नमः । ॐ जन्मकर्मनिवारकाय नमः । ॐ जवनाय नमः । ॐ जगदाधाराय नमः । ॐ जमदग्नये नमः । ॐ जराहराय नमः । ॐ जह्नुकन्याधराय नमः । २९० ॐ जन्मजरामृत्युनिवारकाय नमः । ॐ णान्तनादिनामयुक्तविष्णुनम्यपदाम्बुजाय नमः । ॐ तत्वावबोधाय नमः । ॐ तत्वेशाय नमः । ॐ तत्वभावाय नमः । ॐ तपोनिधये नमः । ॐ तरुणाय नमः । ॐ तारकाय नमः । ॐ ताम्राय नमः । ॐ तरिष्णवे नमः । ३०० ॐ तत्वबोधकाय नमः । ॐ त्रिधाम्ने नमः । ॐ त्रिज्जगद्धेतवे नमः । ॐ त्रिमूर्तये नमः । ॐ तिर्यगूर्ध्वगाय नमः । ॐ त्रिमातृक नमः । ॐ त्रिवृद्रूपाय नमः । ॐ तृतीयाय नमः । ॐ त्रिगुणाधिकाय नमः । ॐ दक्षाध्वरहराय नमः । ३१० ॐ दक्षाय नमः । ॐ दहरस्थाय नमः । ॐ दयानिधये नमः । ॐ दक्षिणाग्नये नमः । ॐ गार्हपत्याय नमः । ॐ दमनाय नमः । ॐ दानवान्तकाय नमः । ॐ दीर्घपिङ्गजटाजूटाय नमः । ॐ दीर्घबाहवे नमः । ॐ दिगम्बराय नमः । ३२० ॐ दुराराध्याय नमः । ॐ दुराधर्षाय नमः । ॐ दुष्टदूराय नमः । ॐ दुरासदाय नमः । ॐ दुर्विज्ञेयाय नमः । ॐ दुराचारनाशनाय नमः । ॐ दुर्मदान्तकाय नमः । ॐ दैव्याय नमः । ॐ भिषषे नमः । ॐ प्रमाणज्ञाय नमः । ३३० ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणात्मकाय नमः । ॐ द्रष्ट्रे नमः । ॐ दर्शयित्रे नमः । ॐ दान्ताय नमः । ॐ दक्षिणामूर्तिरूपभृते नमः । ॐ धन्विने नमः । ॐ धनाधिपाय नमः । ॐ धन्याय नमः । ॐ धर्मगोप्त्रे नमः । ३४० ॐ धराधिपाय नमः । ॐ धृष्णवे नमः । ॐ दूताय नमः । ॐ तीक्ष्णदम्ष्ट्राय नमः । ॐ सुधन्वने नमः । ॐ सुतदाय नमः । ॐ सुखिने नमः । ॐ ध्यानगम्याय नमः । ॐ ध्यातृरूपाय नमः । ॐ ध्येयाय नमः । ३५० ॐ धर्मविदां वराय नमः । ॐ नक्तञ्चराय नमः । ॐ प्रकृन्तानां पतये नमः । ॐ गिरिचराय नमः । ॐ गुरवे नमः । ॐ नन्दिनाट्यप्रियाय नमः । ॐ नन्दिने नमः । ॐ नटेशाय नमः । ॐ नटवेषभृते नमः । ॐ नमदानन्ददाय नमः । ३६० ॐ नम्याय नमः । ॐ नगराजनिकेतनाय नमः । ॐ नारसिंहाय नमः । ॐ नगाध्यक्षाय नमः । ॐ नादान्ताय नमः । ॐ नादवर्जिताय नमः । ॐ निचेरुकाय नमः । ॐ परिचराय नमः । ॐ अरण्यानां पतये नमः । ॐ अद्भुताय नमः । ३७० ॐ निरङ्कुशाय नमः । ॐ निराधाराय नमः । ॐ निरपायाय नमः । ॐ निरत्ययाय नमः । ॐ निरञ्जनाय नमः । ॐ नित्यशुद्धाय नमः । ॐ नित्यबुद्धाय नमः । ॐ निराश्रयाय नमः । ॐ निरंशाय नमः । ॐ निगमानन्दाय नमः । ३८० ॐ निरानन्दाय नमः । ॐ निदानभुवे नमः । ॐ निर्वाणदाय नमः । ॐ निर्वृतिस्थाय नमः । ॐ निर्वैराय नमः । ॐ निरुपाधिकाय नमः । ॐ निर्विकल्पाय नमः । ॐ निरालम्बाय नमः । ॐ निर्विकाराय नमः । ॐ निरामयाय नमः । ३९० ॐ निषङ्गणे नमः । ॐ इषुधिमते नमः । ॐ इन्द्राय नमः । ॐ तस्कराणामधीश्वराय नमः । ॐ निस्पन्दाय नमः । ॐ प्रत्ययानन्दाय नमः । ॐ निर्निमेषाय नमः । ॐ निरन्तराय नमः । ॐ नैष्कर्म्यदाय नमः । ॐ नवरसाय नमः । ४०० ॐ त्रिस्थाय नमः । ॐ त्रिपुरभैरवाय नमः । ॐ पञ्चभूतप्रभवे नमः । ॐ पञ्चपूजासन्तुष्टमानसाय नमः । ॐ पञ्चयज्ञप्रियाय नमः । ॐ पञ्चप्राणाधिपतये नमः । ॐ अव्ययाय नमः । ॐ पतञ्जलिप्राणनाथाय नमः । ॐ परापरविवर्जिताय नमः । ॐ पतये नमः । ४१० ॐ पञ्चत्वनिर्मुक्ताय नमः । ॐ पञ्चकृत्यपरायणाय नमः । ॐ पत्तीनामधिपाय नमः । ॐ कृत्स्नवीताय नमः । ॐ धावते नमः । ॐ सत्त्वपाय नमः । ॐ परमात्मने नमः । ॐ परस्मैज्योतिषे नमः । ॐ परमेष्ठिने नमः । ॐ परात्पराय नमः । ४२० ॐ पर्णशद्याय नमः । ॐ प्रत्यगात्मने नमः । ॐ प्रसन्नाय नमः । ॐ परमोन्नताय नमः । ॐ पवित्राय नमः । ॐ पार्वतीदाराय नमः । ॐ परमापन्निवारकाय नमः । ॐ पाटलाम्शवे नमः । ॐ पटुतराय नमः । ॐ पारिजातद्रुमूलगाय नमः । ४३० ॐ पापाटवीबृहद्भानवे नमः । ॐ भानुमत्कोटिकोटिभाय नमः । ॐ पाशिने नमः । ॐ पातकसंहर्त्रे नमः । ॐ तीक्ष्णेषवे नमः । ॐ तिमिरापहाय नमः । ॐ पुण्याय नमः । ॐ पुंसे नमः । ॐ पुरिशयाय नमः । ॐ पूष्णे नमः । ४४० ॐ पूर्णाय नमः । ॐ पुरातनाय नमः । ॐ पुरजिते नमः । ॐ पूर्वजाय नमः । ॐ पुष्पहासाय नमः । ॐ पुण्यफलप्रदाय नमः । ॐ पुरुहूताय नमः । ॐ पुरद्वेषिने नमः । ॐ पुरत्रयविहारवते नमः । ॐ पुलस्त्याय नमः । ४५० ॐ क्षयणाय नमः । ॐ गृह्याय नमः । ॐ गोष्ठ्याय नमः । ॐ गोपरिपालकाय नमः । ॐ पुष्टानां पतये नमः । ॐ अव्यग्राय नमः । ॐ भवहेतये नमः । ॐ जगत्पतये नमः । ॐ प्रकृतीशाय नमः । ॐ प्रतिष्ठात्रे नमः । ४६० ॐ प्रभवाय नमः । ॐ प्रमथाय नमः । ॐ प्रथिने नमः । ॐ प्रपञ्चोपशमाय नमः । ॐ नामरूपद्वयविवर्जिताय नमः । ॐ प्रपञ्चोल्लासनिर्मुक्ताय नमः । ॐ प्रत्यक्षाय नमः । ॐ प्रतिभात्मकाय नमः । ॐ प्रबुद्धाय नमः । ॐ परमोदाराय नमः । ४७० ॐ परमानन्दसागराय नमः । ॐ प्रमाणाय नमः । ॐ प्रणवाय नमः । ॐ प्राज्ञाय नमः । ॐ प्राणदाय नमः । ॐ प्राणनायकाय नमः । ॐ प्रवेगाय नमः । ॐ प्रमदार्धाङ्गाय नमः । ॐ प्रनर्तनपरायणाय नमः । ॐ बभ्रवे नमः । ४८० ॐ बहुविधाकाराय नमः । ॐ बलप्रमथनाय नमः । ॐ बलिने नमः । ॐ बभ्रुशाय नमः । ॐ भगवते नमः । ॐ भाव्याय नमः । ॐ विव्याधिने नमः । ॐ विगतज्वराय नमः । ॐ बिल्मिणे नमः । ॐ वरूथिने नमः । ४९० ॐ दुन्दुभ्याय नमः । ॐ आहनन्याय नमः । ॐ प्रमृशाभिधाय नमः । ॐ ब्रह्मविद्यागुरुवे नमः । ॐ गुह्याय नमः । ॐ गुह्यकैसमभिष्टुताय नमः । ॐ ब्रह्मविद्याप्रदाय नमः । ॐ ब्रह्मणे नमः । ॐ बृहद्गर्भाय नमः । ॐ बृहस्पतये नमः । ५०० ॐ ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवाय नमः । ॐ ब्रह्मिष्ठाय नमः । ॐ ब्रह्मसूत्रार्थाय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्रह्मचेतनाय नमः । ॐ भगनेत्रहराय नमः । ॐ भर्गाय नमः । ॐ भवघ्नाय नमः । ॐ भक्तिमन्निधये नमः । ॐ भद्राय नमः । ५१० ॐ भद्रप्रदाय नमः । ॐ भद्रवाहनाय नमः । ॐ भक्तवत्सलाय नमः । ॐ भावज्ञाय नमः । ॐ बन्धविच्छेत्त्रे नमः । ॐ भावातीताय नमः । ॐ अभयङ्कराय नमः । ॐ भावाभावविनिर्मुक्ताय नमः । ॐ भारूपाय नमः । ॐ भाविताय नमः । ५२० ॐ भराय नमः । ॐ भूतमुक्तावलीतन्तवे नमः । ॐ भूतपूर्वाय नमः । ॐ भुजङ्गभृते नमः । ॐ भूम्ने नमः । ॐ भूतपतये नमः । ॐ भव्याय नमः । ॐ भूर्भुवोव्याहृतिप्रियाय नमः । ॐ भृङ्गिनाट्यप्रमाणज्ञाय नमः । ॐ भ्रमरायितनाट्यकृते नमः । ५३० ॐ भ्राजिष्णवे नमः । ॐ भावनागम्याय नमः । ॐ भ्रान्तिज्ञानविनाशनाय नमः । ॐ मनीषिने नमः । ॐ मनुजाधीशाय नमः । ॐ मिथ्याप्रत्ययनाशनाय नमः । ॐ मनोभर्त्रे नमः । ॐ मनोगम्याय नमः । ॐ मननैकपरायणाय नमः । ॐ मनोवचोभिरग्राह्याय नमः । ५४० ॐ महाबिलकृतालयाय नमः । ॐ मयस्कराय नमः । ॐ महातिर्थ्याय नमः । ॐ कूल्याय नमः । ॐ पार्याय नमः । ॐ पदात्मकाय नमः । ॐ महर्द्धये नमः । ॐ महिमाधाराय नमः । ॐ महासेनगुरुवे नमः । ॐ महसे नमः । ५५० ॐ महाकर्त्रे नमः । ॐ महाभोक्त्रे नमः । ॐ महासंविन्मयाय नमः । ॐ मधवे नमः । ॐ महातात्पर्यनिलयाय नमः । ॐ प्रत्यग्ब्रह्मैक्यनिश्चयाय नमः । ॐ महानन्दाय नमः । ॐ महास्कन्दाय नमः । ॐ महेन्द्राय नमः । ॐ महसान्निधये नमः । ५६० ॐ महामायाय नमः । ॐ महाग्रासाय नमः । ॐ महावीर्याय नमः । ॐ महाभुजाय नमः । ॐ महोग्रताण्डवाभिज्ञाय नमः । ॐ परिभ्रमणताण्डवाय नमः । ॐ माणिभद्रार्चिताय नमः । ॐ मान्याय नमः । ॐ मायाविने नमः । ॐ मान्त्रिकाय नमः । ५७० ॐ महते नमः । ॐ मायानाटककृते नमः । ॐ मायाविने नमः । ॐ मायायन्त्रविमोचकाय नमः । ॐ मायानाट्यविनोदज्ञाय नमः । ॐ मायानटनशिक्षकाय नमः । ॐ मीढुष्टमाय नमः । ॐ मृगधराय नमः । ॐ मृकण्डुतनयप्रियाय नमः । ॐ मुनये नमः । ५८० ॐ आतार्याय नमः । ॐ आलाद्याय नमः । ॐ सिकत्याय नमः । ॐ किँशिलाय नमः । ॐ मोचकाय नमः । ॐ मोहविच्छेत्त्रे नमः । ॐ मोदनीयाय नमः । ॐ महाप्रभवे नमः । ॐ यशस्विने नमः । ॐ यजमानात्मने नमः । ५९० ॐ यज्ञभुजे नमः । ॐ यजनप्रियाय नमः । ॐ यक्षराजे नमः । ॐ यज्ञफलदाय नमः । ॐ यज्ञमूर्तये नमः । ॐ यशस्कराय नमः । ॐ योगगम्याय नमः । ॐ योगनिष्ठाय नमः । ॐ योगानन्दाय नमः । ॐ युधिष्ठिराय नमः । ६०० ॐ योगयोनये नमः । ॐ यथाभूताय नमः । ॐ यक्षगन्धर्ववन्दिताय नमः । ॐ रविमण्डलमध्यस्थाय नमः । ॐ रजोगुणविवर्जिताय नमः । ॐ राजराजेश्वराय नमः । ॐ रम्याय नमः । ॐ रात्रिञ्चरायविनाशनाय नमः । ॐ रातये नमः । ॐ दातये नमः । ६१० ॐ चतुष्पादाय नमः । ॐ स्वात्मबन्धहराय नमः । ॐ स्वभुवे नमः । ॐ रुद्राक्षस्रङ्मयाकल्पाय नमः । ॐ कह्लारकिरणद्युतये नमः । ॐ रोहिताय नमः । ॐ स्थपतये नमः । ॐ वृक्षपतये नमः । ॐ मन्त्रिणे नमः । ॐ वाणिजाय नमः । ६२० ॐ लास्यामृताब्धिलहरीपूर्णेन्दवे नमः । ॐ पुण्यगोचराय नमः । ॐ वरदाय नमः । ॐ वामनाय नमः । ॐ वन्द्याय नमः । ॐ वरिष्ठाय नमः । ॐ वज्रवर्मभृते नमः । ॐ वराभयप्रदाय नमः । ॐ ब्रह्मपुच्छाय नमः । ॐ ब्रह्मविदां वराय नमः । ६३० ॐ वशिने नमः । ॐ वरेण्याय नमः । ॐ वितताय नमः । ॐ वज्रभृते नमः । ॐ वरुणात्मकाय नमः । ॐ वह्निमण्डलमध्यस्थाय नमः । ॐ वर्षीयसे नमः । ॐ वरुणेश्वराय नमः । ॐ वाच्यवाचकनिर्मुक्ताय नमः । ॐ वागीशाय नमः । ६४० ॐ वागगोचराय नमः । ॐ विकाररहिताय नमः । ॐ विष्णवे नमः । ॐ विराडीशाय नमः । ॐ विराण्मयाय नमः । ॐ विघ्नेश्वराय नमः । ॐ विघ्ननेत्रे नमः । ॐ शक्तिपाणये नमः । ॐ शरोद्भवाय नमः । ॐ विजिघत्साय नमः । ६५० ॐ विगतभिये नमः । ॐ विपिपासाय नमः । ॐ विभावनाय नमः । ॐ विदग्धमुग्धवेषाड्याय नमः । ॐ विश्वातीताय नमः । ॐ विशोकदाय नमः । ॐ विद्यानिधये नमः । ॐ विरूपाक्षाय नमः । ॐ विश्वयोनये नमः । ॐ वृषध्वजाय नमः । ६६० ॐ विद्युत्याय नमः । ॐ विवहाय नमः । ॐ मेध्याय नमः । ॐ रेष्मियाय नमः । ॐ वास्तुपाय नमः । ॐ वसवे नमः । ॐ विद्वत्तमाय नमः । ॐ विदूरस्थाय नमः । ॐ विश्रमाय नमः । ॐ वेदनामयाय नमः । ६७० ॐ वियदादिजगत्स्रष्ट्रे नमः । ॐ विविधानन्ददायकाय नमः । ॐ विराठृदयपद्मस्थाय नमः । ॐ विधये नमः । ॐ विश्वाधिकाय नमः । ॐ विभवे नमः । ॐ विरूपाय नमः । ॐ विश्वदिग्व्यापिणे नमः । ॐ वीतशोकाय नमः । ॐ विरोचनाय नमः । ६८० ॐ विश्रान्तिभूवे नमः । ॐ विवसनाय नमः । ॐ विघ्नहन्त्रे नमः । ॐ विनोदकाय नमः । ॐ विश‍ृङ्खलाय नमः । ॐ वियद्धेतवे नमः । ॐ विषमाय नमः । ॐ विद्रुमप्रभाय नमः । ॐ विश्वस्यायतनाय नमः । ॐ वर्याय नमः । ६९० ॐ वन्दारुजनवत्सलाय नमः । ॐ विज्ञानमात्राय नमः । ॐ विरजसे नमः । ॐ विरामाय नमः । ॐ विबुधाश्रयाय नमः । ॐ वीरप्रियाय नमः । ॐ वीतभयाय नमः । ॐ विन्ध्यदर्पविनाशन नमः । ॐ वीरभद्राय नमः । ॐ विशालाक्षाय नमः । ७०० ॐ विष्णुबाणाय नमः । ॐ विशां पतये नमः । ॐ वृद्धिक्षयविनिर्मुक्ताय नमः । ॐ विद्योताय नमः । ॐ विश्ववञ्चकाय नमः । ॐ वेतालनटनप्रीताय नमः । ॐ वेतण्डत्वक्कृताम्बराय नमः । ॐ वेदवेद्याय नमः । ॐ वेदरूपाय नमः । ॐ वेदवेदान्तवित्तमाय नमः । ७१० ॐ वेदान्तकृते नमः । ॐ तुर्यपादाय नमः । ॐ वैद्युताय नमः । ॐ सुकृतोभवाय नमः । ॐ वेदार्थविद्वे नमः । ॐ वेदयोनये नमः । ॐ वेदाङ्गाय नमः । ॐ वेदसंस्तुताय नमः । ॐ वेलातिलङ्घिकरुणाय नमः । ॐ विलासिने नमः । ७२० ॐ विक्रमोन्नताय नमः । ॐ वैकुण्ठवल्लभाय नमः । ॐ अवर्ष्याय नमः । ॐ वैश्वानरविलोचनाय नमः । ॐ वैराग्यशेवधये नमः । ॐ विश्वभोक्त्रे नमः । ॐ सर्वोर्ध्वसंस्थिताय नमः । ॐ वौषट्काराय नमः । ॐ वषट्काराय नमः । ॐ हुङ्काराय नमः । ७३० ॐ फट्कराय नमः । ॐ पटवे नमः । ॐ व्याकृताय नमः । ॐ व्यापृताय नमः । ॐ व्यापिणे नमः । ॐ व्याप्यसाक्षिने नमः । ॐ विशारदाय नमः । ॐ व्याघ्रपादप्रियाय नमः । ॐ व्याघ्रचर्मधृते नमः । ॐ वयाधिनाशनाय नमः । ७४० ॐ व्यामोहनाशनाय नमः । ॐ व्यासाय नमः । ॐ व्याख्यामुद्रालसत्कराय नमः । ॐ व्युप्तकेशाय नमः । ॐ अथाय नमः । ॐ विशदाय नमः । ॐ विष्वक्सेनाय नमः । ॐ विशोधकाय नमः । ॐ व्योमकेशाय नमः । ॐ व्योममूर्तये नमः । ७५० ॐ व्योमाकाराय नमः । ॐ अव्ययाकृतये नमः । ॐ व्राताय नमः । ॐ व्रातपतिर्विप्राय नमः । ॐ वरीयते नमः । ॐ क्षुल्लकाय नमः । ॐ क्षमिणे नमः । ॐ शक्तिपातकराय नमः । ॐ शक्ताय नमः । ॐ शाश्वताय नमः । ७६० ॐ श्रेयसां निधये नमः । ॐ शयानाय नमः । ॐ शन्तमाय नमः । ॐ शान्ताय नमः । ॐ शासकाय नमः । ॐ श्यामलाप्रियाय नमः । ॐ शिवङ्कराय नमः । ॐ शिवतराय नमः । ॐ शिष्टहृष्टाय नमः । ॐ शिवागमाय नमः । ७७० ॐ शीघ्रियाय नमः । ॐ शीभ्याय नमः । ॐ आनन्दाय नमः । ॐ क्षयद्वीराय नमः । ॐ शराय नमः । ॐ अक्षराय नमः । ॐ शुद्धस्फटिकसङ्काशाय नमः । ॐ श्रुतिप्रस्तुतवैभवाय नमः । ॐ शुष्क्याय नमः । ॐ हरित्याय नमः । ७८० ॐ लोप्याय नमः । ॐ सूर्म्याय नमः । ॐ पर्ण्याय नमः । ॐ अणिमादिभौवे नमः । ॐ शूरसेनाय नमः । ॐ शुभाकाराय नमः । ॐ शुभ्रमूर्तये नमः । ॐ शुचिस्मिताय नमः । ॐ शङ्गाय नमः । ॐ प्रतरणाय नमः । ७९० ॐ अवार्याय नमः । ॐ फेन्याय नमः । ॐ शष्प्याय नमः । ॐ प्रवाहजाय नमः । ॐ श्राव्याय नमः । ॐ शत्रुहराय नमः । ॐ शूलिने नमः । ॐ श्रुतिस्मृतिविधायकाय नमः । ॐ श्रीशिवाय नमः । ॐ श्रीशिवानाथाय नमः । ८०० ॐ श्रीमते नमः । ॐ श्रीपतिपूजिताय नमः । ॐ श्रुत्याय नमः । ॐ पथ्याय नमः । ॐ स्वतन्त्रस्थाय नमः । ॐ काट्याय नमः । ॐ नीप्याय नमः । ॐ करोटिभृते नमः । ॐ षडाधारगताय नमः । ॐ साङ्ख्याय नमः । ८१० ॐ षडक्षरसमाश्रयाय नमः । ॐ षडूर्मिरहिताय नमः । ॐ स्तव्याय नमः । ॐ षड्गुणैश्वर्यदायकाय नमः । ॐ सकृद्विभाताय नमः । ॐ संवेत्त्रे नमः । ॐ सदसत्कोटिवर्जिताय नमः । ॐ सत्त्वसंस्थाय नमः । ॐ सुषुप्तिस्थाय नमः । ॐ सुतल्पाय नमः । ८२० ॐ सत्स्वरूपगाय नमः । ॐ सद्योजाताय नमः । ॐ सदाराध्याय नमः । ॐ सामगाय नमः । ॐ सामसंस्तुताय नमः । ॐ सनातनाय नमः । ॐ समाय नमः । ॐ सत्याय नमः । ॐ सत्यवादिने नमः । ॐ समृद्धिदाय नमः । ८३० ॐ समदृष्टये नमः । ॐ सत्यकामाय नमः । ॐ सनकादिमुनिस्तुताय नमः । ॐ समस्तभुवनव्यापिणे नमः । ॐ समृद्धाय नमः । ॐ सततोदिताय नमः । ॐ सर्वकृते नमः । ॐ सर्वजिते नमः । ॐ सर्वमयाय नमः । ॐ सत्वावलम्बकाय नमः । ८४० ॐ सर्वद्वन्द्वक्षयकराय नमः । ॐ सर्वापद्विनिवारकाय नमः । ॐ सर्वदृषे नमः । ॐ सर्वभृते नमः । ॐ सर्गाय नमः । ॐ सर्वहृत्कोशसंस्थिताय नमः । ॐ सर्वप्रियतमाय नमः । ॐ सर्वदारिद्र्यक्लेशनाशनाय नमः । ॐ सर्वविद्यानामीशनाय नमः । ॐ ईश्वराणामधीश्वराय नमः । ८५० ॐ सर्वज्ञाय नमः । ॐ सर्वदाय नमः । ॐ स्थाणवे नमः । ॐ सर्वेशाय नमः । ॐ समरप्रियाय नमः । ॐ सर्वातीताय नमः । ॐ सारतराय नमः । ॐ साम्बाय नमः । ॐ सारस्वतप्रदाय नमः । ॐ सर्वार्थाय नमः । ८६० ॐ सर्वदायतुष्टाय नमः । ॐ सर्वशास्त्रार्थसम्मताय नमः । ॐ सर्वेश्वराय नमः । ॐ सर्वसाक्षिने नमः । ॐ सर्वात्मने नमः । ॐ साक्षिवर्जिताय नमः । ॐ सव्यताण्डवसम्पन्नाय नमः । ॐ महाताण्डववैभवाय नमः । ॐ सस्पिञ्जराय नमः । ॐ पशुपतये नमः । ८७० ॐ त्विषीमते नमः । ॐ अनध्वनां पतये नमः । ॐ सहमनाय नमः । ॐ सत्यधर्मणे नमः । ॐ निव्याधिने नमः । ॐ नियमाय नमः । ॐ यमाय नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्राङ्घ्रये नमः । ॐ सहस्रवदनाम्बुजाय नमः । ८८० ॐ सहस्राक्षार्चिताय नमः । ॐ सम्राजे नमः । ॐ सन्धात्रे नमः । ॐ सम्पदालयाय नमः । ॐ सिद्धेशाय नमः । ॐ सिद्धिजनकाय नमः । ॐ सिद्धान्ताय नमः । ॐ सिद्धवैभवाय नमः । ॐ सुधारूपाय नमः । ॐ सुराध्यक्षाय नमः । ८९० ॐ सुभ्रुवे नमः । ॐ सुखघनाय नमः । ॐ सुधिये नमः । ॐ सुनिश्चितार्थाय नमः । ॐ राद्धान्ताय नमः । ॐ तत्वमर्थाय नमः । ॐ तपोमयाय नमः । ॐ सुव्रताय नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ स्वसंवेद्याय नमः । ९०० ॐ सुखावहाय नमः । ॐ सूताय नमः । ॐ सदस्पतये नमः । ॐ सूरये नमः । ॐ अहन्त्याय नमः । ॐ वनपाय नमः । ॐ वराय नमः । ॐ सूत्रभूताय नमः । ॐ स्वप्रकाशाय नमः । ॐ समशीलाय नमः । ९१० ॐ सदादयाय नमः । ॐ सूत्रात्मने नमः । ॐ सुलभाय नमः । ॐ स्वच्छाय नमः । ॐ सूदराय नमः । ॐ सुन्दराननाय नमः । ॐ सूद्याय नमः । ॐ सरस्याय नमः । ॐ वैशन्ताय नमः । ॐ नाद्याय नमः । ९२० ॐ अव्ट्याय नमः । ॐ वर्षकाय नमः । ॐ सूक्ष्मात्सूक्ष्मतराय नमः । ॐ सूर्याय नमः । ॐ सूक्ष्मस्थूलत्ववर्जिताय नमः । ॐ सृकाविने नमः । ॐ मुष्णतां नाथाय नमः । ॐ पञ्चाशद्वर्णरूपभृते नमः । ॐ सोममण्डलमध्यस्थाय नमः । ॐ सोमाय नमः । ९३० ॐ सौम्याय नमः । ॐ सुहृद्वराय नमः । ॐ सङ्कल्पोल्लासनिर्मुक्ताय नमः । ॐ समनीरागचेतनाय नमः । ॐ सम्पन्नाय नमः । ॐ सङ्क्रमाय नमः । ॐ सत्रिणे नमः । ॐ सन्दात्रे नमः । ॐ सकलोर्जिताय नमः । ॐ सम्प्रवृद्धाय नमः । ९४० ॐ सन्निकृष्टाय नमः । ॐ संविमृष्टाय नमः । ॐ समग्रदृषे नमः । ॐ सम्प्रहृष्टाय नमः । ॐ सन्निविष्टाय नमः । ॐ संस्पष्टाय नमः । ॐ सम्प्रमर्दनाय नमः । ॐ संयद्वामाय नमः । ॐ संयमीन्द्राय नमः । ॐ संशयच्छिदे नमः । ९५० ॐ सहस्रदृषे नमः । ॐ संयमस्थाय नमः । ॐ संहृदिस्थाय नमः । ॐ सम्प्रविष्टाय नमः । ॐ समुत्सुकाय नमः । ॐ संवत्सराय नमः । ॐ कलापूर्णाय नमः । ॐ सुरासुरनमस्कृताय नमः । ॐ संवर्ताग्न्युदराय नमः । ॐ सर्वान्तस्थाय नमः । ९६० ॐ सर्वदुर्गहाय नमः । ॐ संशान्तसर्वसङ्कल्पाय नमः । ॐ संसदीशाय नमः । ॐ सदोदिताय नमः । ॐ स्फुरङ्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनाय नमः । ॐ स्वच्छन्दाय नमः । ॐ स्वच्छसंवित्त्ये नमः । ॐ अन्वेष्टव्याय नमः । ॐ अश्रुताय नमः । ॐ अमताय नमः । ९७० ॐ स्वात्मस्थाय नमः । ॐ स्वायुधाय नमः । ॐ स्वामिणे नमः । ॐ स्वानन्याय नमः । ॐ स्वांशिताखिलाय नमः । ॐ स्वाहारूपाय नमः । ॐ वसुमनसे नमः । ॐ वटुकाय नमः । ॐ क्षेत्रपालकाय नमः । ॐ हिताय नमः । ९८० ॐ प्रमात्रे नमः । ॐ प्राग्वर्तिने नमः । ॐ सर्वोपनिषदाशयाय नमः । ॐ हिरण्यबाहवे नमः । ॐ सेनान्ये नमः । ॐ हरिकेशाय नमः । ॐ दिशाम्पतये नमः । ॐ हेतुदृष्टान्तनिर्मुक्ताय नमः । ॐ हेतवे नमः । ॐ हेरम्बजन्मभुवे नमः । ९९० ॐ हेयादेयविनिर्मुक्ताय नमः । ॐ हेलाकलितताण्डवाय नमः । ॐ हेलाविनिर्मितजगते नमः । ॐ हेमश्वश्रवे नमः । ॐ हिरण्मयाय नमः । ॐ ज्ञानलिङ्गाय नमः । ॐ गतये नमः । ॐ ज्ञानिने नमः । ॐ ज्ञानगम्याय नमः । ॐ अवभासकाय नमः । १००० इति श्रीभृङ्गिरिटि संहितायां श्रीशिवकामसुन्दरीसमेत श्रीनटराजकुञ्चितपादसहस्रनामावलिः समाप्ता ।