अक्षर आकार:

श्रीनटराजहृदयभावनासप्तकम्

Shri NatarajahridayabhAvana Saptakam

श्रीनटराजहृदयभावनासप्तकम्

ॐ श्रीगणेशाय नमः । कामशासनमाश्रितार्तिनिवारणैकधुरन्धरं पाकशासनपूर्वलेखगणैः समर्चितपादुकम् । व्याघ्रपादफणीश्वरादिमुनीशसंघनिषेवितं चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ १॥ यक्षराक्षसदानवोरगकिन्नरादिभिरन्वहं भक्तिपूर्वकमत्युदारसुगीतवैभवशालिनम् । चण्डिकामुखपद्मवारिजबान्धवं विभुमव्ययं चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ २॥ कालपाशनिपीडितं मुनिबालकं स्वपदार्चकं ह्यग्रगण्यमशेषभक्तजनौघकस्य सदीडितम् । रक्षितुं सहसावतीर्य जघान यच्छमनं च तं चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ३॥ भीकरोदकपूरकैर्भुवमर्णवीकरणोद्यतां स्वर्धुनीमभिमानिनीमतिदुश्चरेण समाधिना । तोषितस्तु भगीरथेन दधार यो शिरसा च तं चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ४॥ योगिनः सनकादयो मुनिपुंगवा विमलाशयाः दक्षिणाभिमुखं गुरुं समुपास्य यं शिवमादरत् । सिद्धिमापुरनूपमांतमनन्यभावयुतस्त्वहं चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ५॥ क्षीरसागरमन्थनोद्भवकालकूटमहाविषं निग्रहीतुमशक्यमन्यसुरासुरैरपिबोऽर्थितः । रक्षति स्म जगत्त्रयं सविलासमेव निपीय तं चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ६॥ सर्वदेवमयं यमेव भजन्ति वैदिकसत्तमाः ज्ञानकर्मविबोधकाः सकलागमाः श्रुतिपूर्वकाः । आहुरेव यमीशमादरतश्च तं सकलेश्वरं चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ७॥ ॥ इति शिवम् ॥