अक्षर आकार:

श्रीनटराजाष्टोत्तरशतनामावलिः

Shri Nataraja Ashtottarashatanamavali

श्रीनटराजाष्टोत्तरशतनामावलिः

श्री आनन्दनटराजाष्टोत्तरशतनामावलिः श्रीनटराजध्यानं ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां श्यामलां कह्लारां जपसृक्षुकां कटिकरां देवीं सभेशं भजे ॥ ॐ कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतिवामभागं । सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि ॥ अथ श्रीनटराजाष्टोत्तरशतनामावलिः । ॐ श्रीचिदम्बरेश्वराय नमः । ॐ शम्भवे नमः । ॐ नटेशाय नमः । ॐ नटनप्रियाय नमः । ॐ अपस्मारहाराय नमः । ॐ हंसाय नमः । ॐ नृत्तराजाय नमः । ॐ सभापतये नमः । ॐ पुण्डरीकपुराधीशाय नमः । ॐ श्रीमत् हेमसभेशाय नमः । १० ॐ शिवाय नमः । ॐ चिदम्बरमनवे नमः । ॐ मन्त्रमूर्तये नमः । ॐ हरिप्रियाय नमः । ॐ द्वादशान्तस्थिताय नमः । ॐ नृत्ताय नमः । ॐ नृत्तमूर्तये नमः । ॐ परात्पराय नमः । ॐ परानन्दाय नमः । ॐ परंज्योतिषे नमः । २० ॐ आनन्दाय नमः । ॐ विबुधेश्वराय नमः । ॐ परप्रकाशाय नमः । ॐ नृत्ताङ्गाय नमः । ॐ नृत्तपादाय नमः । ॐ त्रिलोचनाय नमः । ॐ व्याघ्रपादप्रियाय नमः । ॐ मन्त्रराजाय नमः । ॐ तिल्ववनेश्वराय नमः । ॐ हराय नमः । ३० ॐ रत्नसभानाथाय नमः । ॐ पतञ्जलिवरप्रदाय नमः । ॐ मन्त्रविग्रहाय नमः । ॐ ॐकाराय नमः । ॐ शङ्कराय नमः । ॐ चन्द्रशेखराय नमः । ॐ नीलकण्ठाय नमः । ॐ ललाटाक्षाय नमः । ॐ वह्निहस्ताय नमः । ॐ महेश्वराय नमः । ४० ॐ आनन्दताण्डवाय नमः । ॐ श्वेताय नमः । ॐ गङ्गाधराय नमः । ॐ जटाधराय नमः । ॐ चक्रेशाय नमः । ॐ कुञ्चितपादाय नमः । ॐ श्रीचक्राङ्गाय नमः । ॐ अभयप्रदाय नमः । ॐ मणिनूपुरपादाब्जाय नमः । ॐ त्रिपुरावल्लभेश्वराय नमः । ५० ॐ बीजहस्ताय नमः । ॐ चक्रनाथाय नमः । ॐ बिन्दुत्रिकोणवासकाय नमः । ॐ पाञ्चभौतिकदेहाङ्काय नमः । ॐ परमानन्दताण्डवाय नमः । ॐ भुजङ्गभूषणाय नमः । ॐ मनोहरायपञ्चदशाक्षराय नमः । ॐ विश्वेश्वराय नमः । ॐ विरूपाक्षाय नमः । ॐ विश्वातीताय नमः । ६० ॐ जगद्गुरवे नमः । ॐ त्रिचत्वारिंशट्कोणाङ्गाय नमः । ॐ प्रभाचक्रेश्वराय नमः । ॐ प्रभवे नमः । ॐ नवावरणचक्रेश्वराय नमः । ॐ नवचक्रेश्वरीप्रियाय नमः । ॐ नाट्येश्वराय नमः । ॐ सभानथाय नमः । ॐ सिंहवर्माप्रपूजिताय नमः । ॐ भीमाय नमः । ७० ॐ क्लींकारनायकाय नमः । ॐ ऐंकाररुद्राय नमः । ॐ त्रिशिवाय नमः । ॐ तत्त्वाधीशाय नमः । ॐ निरञ्जनाय नमः । ॐ रामाय नमः । ॐ अनन्ताय नमः । ॐ तत्त्व मूर्तये नमः । ॐ रुद्राय नमः । ॐ कालान्तकाय नमः । ८० ॐ अव्ययाय नमः । ॐ क्ष्मर्य ॐकारशम्भवे नमः । ॐ अव्यक्ताय नमः । ॐ त्रिगुणाय नमः । ॐ चित्प्रकाशाय नमः । ॐ सौंकारसोमाय नमः । ॐ तत्त्वज्ञाय नमः । ॐ अघोराय नमः । ॐ दक्षाध्वरान्तकाय नमः । ॐ कामारये नमः । ९० ॐ गजसंहर्त्रे नमः । ॐ वीरभद्राय नमः । ॐ व्याघ्रचर्माम्बरधराय नमः । ॐ सदाशिवाय नमः । ॐ भिक्षाटनाय नमः । ॐ कृच्छ्रगतप्रियाय नमः । ॐ कङ्कालभैरवाय नमः । ॐ नृसिंहगर्वहरणाय नमः । ॐ भद्रकालीमदान्तकाय नमः । ॐ निर्विकल्पाय नमः । १०० ॐ निराकाराय नमः । ॐ निर्मलाङ्गाय नमः । ॐ निरामयाय नमः । ॐ ब्रह्मविष्णुप्रियाय नमः । ॐ आनन्दनटेशाय नमः । ॐ भक्तवत्सलाय नमः । ॐ श्रीमत् तत्परसभानाथाय नमः । ॐ शिवकामीमनोहराय नमः । १०८ ॐ चिदेकरससम्पूर्ण श्रीशिवाय श्रीमहेश्वराय नमः । इति श्रीचिदम्बरकल्पस्योक्त श्रीनटराजाष्टोत्तरशतनामावलिः समाप्ता ।