अक्षर आकार:

श्रीमृत्युञ्जयमानसिकपूजास्तोत्रम्

mRityu~njaya mAnasa pUjA stotram

श्रीमृत्युञ्जयमानसिकपूजास्तोत्रम्

कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् । गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं कण्ठालंकृतशेषभूषणममुं मृत्युञ्जयं भावये ॥ १॥ आगत्य मृत्युञ्जय चन्द्रमौले व्याघ्राजिनालंकृत शूलपाणे । स्वभक्तसंरक्षणकामधेनो प्रसीद विश्वेश्वर पार्वतीश ॥ २॥ भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुधालंकृते सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते । ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ ३॥ मन्दारमल्लीकरवीरमाधवी- पुन्नागनीलोत्पलचम्पकान्वितैः । कर्पूरपाटीरसुवासितैर्जलै- राधत्स्व मृत्युञ्जय पाद्यमुत्तमम् ॥ ४॥ सुगन्धपुष्पप्रकरैः सुवासितै- र्वियन्नदीशीतलवारिभिः शुभैः । त्रिलोकनाथार्तिहरार्घ्यमादरा- द्गृहाण मृत्युञ्जय सर्ववन्दित ॥ ५॥ हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः । मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥ ६॥ गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम् । शुभकर मधुपर्कमाहर त्वं त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥ ७॥ पञ्चास्र शान्त पञ्चास्य पञ्चपातकसंहर । पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥ ८॥ जगत्त्रयीख्यात समस्ततीर्थ- समाहृतैः कल्मषहारिभिश्च । स्नानं सुतोयैः समुदाचर त्वं मृत्युञ्जयानन्तगुणाभिराम ॥ ९॥ आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् । मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥ १०॥ नानाहेमविचित्राणि चीरचीनाम्बराणि च । विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥ ११॥ विशुद्धमुक्ताफलजालरम्यं मनोहरं काञ्चनहेमसूत्रम् । यज्ञोपवीतं परमं पवित्र- माधत्स्व मृत्युञ्जय भक्तिगम्य ॥ १२॥ श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् । दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥ १३॥ अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः । मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥ १४॥ चम्पकपङ्कजकुरवककुन्दैः करवीरमल्लिकाकुसुमैः । विस्तारय निजमकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥ १५॥ माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे । पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥ १६॥ माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुण्डलैश्च । मञ्जीरमुख्याभरणैर्मनोज्ञै- रङ्गानि मृत्युञ्जय भूषयामि ॥ १७॥ गजवदनस्कन्दधृते- नातिस्वच्छेन चामरयुगेन । गलदलकाननपद्मं मृत्युञ्जय भावयामि हृत्पद्मे ॥ १८॥ मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चनदण्डयुक्तम् । माणिक्यसंस्थापितहेमकुम्भं सुरेश मृत्युञ्जय तेऽर्पयामि ॥ १९॥ मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकारसप्ताश्वे । कन्दर्पकोटिसदृशं मृत्युञ्जय पश्य वदनमात्मीयम् ॥ २०॥ कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमान्वितैश्च । समुद्भवं पावनगन्धधूपितं मृत्युञ्जयाङ्गं परिकल्पयामि ॥ २१॥ वर्तित्रयोपेतमखण्डदीप्त्या तमोहरं बाह्यमथान्तरं च । साज्यं समस्तामरवर्गहृद्यं सुरेश मृत्युञ्जय वंशदीपम् ॥ २२॥ राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः । शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥ २३॥ कूष्माण्डवार्ताकपटोलिकानां फलानि रम्याणि च कारवल्ल्या । सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥ २४॥ शीतलं मधुरं स्वच्छं पावनं वासितं लघु । मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥ २५॥ शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् । कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६॥ केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः । एलामरीचमिलितं मृत्युञ्जय देव भुङ्क्ष्व परमान्नम् ॥ २७॥ रम्भाचूतकपित्थकण्ठकफलैर्द्राक्षारसास्वादुम- त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः । कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥ २८॥ मनोज्ञरम्भावनखण्डखण्डिता- न्रुचिप्रदान्सर्षपजीरकांश्च । ससौरभान्सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य ॥ २९॥ हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् । बिसखण्डाँल्लावणयुतान्मृत्युञ्जय तेऽर्पयामि जगदीश ॥ ३०॥ एलाशुण्ठीसहीतं दध्यन्नं चारुहेमपात्रस्थम् । अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश ॥ ३१॥ जम्बीरनीराञ्चितश‍ृङ्गबेरं मनोहरानम्लशलाटुखण्डान् । मृदूपदंशान्सहसोपभुङ्क्ष्व मृत्युञय श्रीकरुणासमुद्र ॥ ३२॥ नागररामठयुक्तं सुललितजम्बीरनीरसम्पूर्णम् । मथितं सैन्धवसहितं पिब हर मृत्युञ्जय क्रतुध्वंसिन् ॥ ३३॥ मन्दारहेमाम्बुजगन्धयुक्तै- र्मन्दाकिनीनिर्मलपुण्यतोयैः । गृहाण मृत्युञ्जय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥ ३४॥ गगनधुनीविमलजलैर्मृत्युञ्जय पद्मरागपात्रगतैः । मृगमदचन्दनपूर्णं प्रक्षालय चारु हस्तपदयुग्मम् ॥ ३५॥ पुंनागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः । मृत्युञ्जय महादेव पुनराचमनं कुरु ॥ ३६॥ मौक्तिकचूर्णसमेतैर्मृगमदघनसारवासितैः पूगैः । पर्णैः स्वर्णसमानैर्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥ ३७॥ नीराजनं निर्मलदीप्तिमद्भि- र्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च । घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय ॥ ३८॥ विरिञ्चिमुख्यामरबृन्दवन्दिते सरोजमत्स्याङ्कितचक्रचिह्निते । ददामि मृत्युञ्जय पादपङ्कजे फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥ ३९॥ पुंनागनीलोत्पलकुन्दजाजी- मन्दारमल्लीकरवीरपङ्कजैः । पुष्पाञ्जलिं बिल्वदलैस्तुलस्या मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥ ४०॥ पदे पदे सर्वतमोनिकृन्तनं पदे पदे सर्वशुभप्रदायकम् । प्रदक्षिणं भक्तियुतेन चेतसा करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥ ४१॥ नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो नमो लोकेशाय स्तुतविबुधलोकाय च नमः । नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥ ४२॥ संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् । गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३॥ सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः । कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥ ४४॥ चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै- र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम् । करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा- न्प्रयाति श्रीमृत्युञ्जयपदमनेकाद्भुतपदम् ॥ ४५॥ प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गदं मध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्षदम् । भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥ ४६॥ ॥ इति श्रीमच्छङ्करभगवतः कृतौ मृत्युञ्जयमानसिकपूजास्तोत्रं सम्पूर्णम् ॥