अक्षर आकार:

श्री मेधादक्षिणामूर्त्यष्टोत्तरशतनामावलिः

Shri Medha DakshinAmurti Ashtottarashata Namavali 108 Names

श्री मेधादक्षिणामूर्त्यष्टोत्तरशतनामावलिः

ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा । मूलमन्त्रवर्णाद्यात्मका अष्टोत्तरशतनामावलिः ओङ्काराचलसिंहेन्द्राय नमः । ओङ्कारोद्यानकोकिलाय । ओङ्कारनीडशुकराजे । ओङ्कारारण्यकुञ्जराय । नगराज सुताजानतये । नगराजनिजालयाय । नवमाणिक्यमालाढ्याय । नवचन्द्रशिखामणये । नन्दिताशेषमौनीन्द्राय । नन्दीशादिमदेशिकाय । मोहानलसुधाधाराय । मोहाम्बुजसुधाकराय । मोहान्धकारतरणये । मोहोत्पलनभोमणये । भक्तज्ञानाब्धिशीतांशवे । भक्तज्ञानतृणानलाय । भक्ताम्भोजसहस्रांशवे । भक्तकेकिघनाघनाय । भक्तकैरवराकेन्दवे । भक्तकोकदिवाकराय नमः । २० गजाननादिसम्पूज्याय नमः । गजचर्मोज्ज्वलाकृतये । गङ्गाधवलदिव्याङ्गाय । गङ्गाभङ्गलसज्जटाय । गगनाम्बरसंवीताय । गगनामुक्तमूर्धजाय । वदनाब्जजितश्रिये । वदनेन्दुस्फुरद्दिशाय । वरदानैकनिपुणाय । वरवीणोज्ज्वलत्कराय । वनवाससमुल्लासिने । वनलीलैकलोलुपाय । तेजः पुञ्जघनाकाराय । तेजसामविभासकाय । विधेयानां तेजःप्रदाय । तेजोमयनिजाश्रमाय । दमितानङ्गसङ्ग्रामाय । दरहासोज्ज्वलन्मुखाय । दयारस सुधासिन्धवे । दरिद्रधनशेवधये नमः । ४० क्षीरेन्दुस्फटिकाकाराय नमः । क्षितीन्द्रमकुटोज्ज्वलाय । क्षीरोपहाररसिकाय । क्षिप्रैश्वर्यफलप्रदाय । नानाभरणमुक्ताङ्गाय । नारीसम्मोहनाकृतये । नादब्रह्मरसास्वादिने । नागभूषणभूषिताय । मूर्तिनिन्दितकन्दर्पाय । मूर्तामूर्तजगद्वपुषे । मूकाज्ञानतमोभानवे । मूर्तिमत्कल्पपादपाय । तरुणादित्यसङ्कशाय । तन्त्रीवादनतत्पराय । तरुमूलैकनिलयाय । तप्तजाम्बूनदप्रभाय । तत्त्वपुस्तोल्लसत्पाणये । तपनोडुपलोचनाय । यमसन्नुतसङ्कीर्तये । यमसंयमसंयुताय नमः । ६० यतिरूपधराय नमः । मौनमुनीन्द्रोपास्यविग्रहाय । मन्दारहाररुचिराय । मदनायुतसुन्दराय । मन्दस्मितलसद्वक्त्राय । मधुराधरपल्लवाय । मञ्जीरमञ्जुपादाब्जाय । मणिपट्टोलसत्कटये । हस्ताङ्कुरितचिन्मुद्राय । हंसयोगपटूत्तमाय । हंसजप्याक्षमालाढ्याय । हंसेन्द्राराध्यपादुकाय । मेरुश‍ृङ्गसमुल्लासिने । मेघश्याममनोहराय । मेघाङ्कुरालवालाग्र्याय । मेधापक्वफलमाय । धार्मिकान्तकृतावासाय । धर्ममार्गप्रवर्तकाय । धामत्रयनिजारामाय । धरोत्तमहारथाय नमः । ८० प्रबोधोदारदीपश्रिये नमः । प्रकाशितजगत्त्रयाय । प्रज्ञाचन्द्रशिलाचन्द्राय । प्रज्ञामणिलसत्कराय । ज्ञानिहृद्भासमानात्मने । ज्ञातॄणामविदूरगाय । ज्ञानायादृतदिव्याङ्गाय । ज्ञातिजातिकुलातिगाय । प्रपन्नपारिजाताग्र्याय । प्रणतार्त्यब्धिबाडबाय । भूतानां प्रमाणभूताय । प्रपञ्चहितकारकाय । यमिसत्तमसंसेव्याय । यक्षगेयात्मवैभवाय । यज्ञाधिदेवतामूर्तये । यजमानवपुर्धराय । छत्राधिपदिगीशाय । छत्रचामरसेविताय । छन्दः शास्त्रादिनिपुणाय । छलजात्यादिदूरगाय नमः । १०० स्वाभाविकसुखैकात्मने नमः । स्वानुभूतिरसोदधये । स्वाराज्यसम्पदध्यक्षाय । स्वात्माराममहामतये । हाटकाभजटाजूटाय । हासोदस्तारिमण्डलाय । हालाहलोज्ज्वलगलाय । हारायितभुजङ्गमाय नमः । १०८ इति श्री मेधादक्षिणामूर्तिमनुवर्णाद्यादिमा अष्टोत्तरशतनामावलिः ॥ ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ।