अक्षर आकार:

श्रीमेधादक्षिणामूर्तित्रिशती

Shri Medha Dakshinamurti Trishati 300 Names

श्रीमेधादक्षिणामूर्तित्रिशती

ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा । मन्त्राक्षराद्यादिमा श्रीमेधादक्षिणामूर्तित्रिशती । ॐ ओङ्काररूपाय नमः । ओङ्कारगृहकर्पूरदीपकाय । ओङ्कारशैलपश्चास्याय । ओङ्कारसुमहत्पदाय । ओङ्कारपञ्जरशुकाय । ओङ्कारोद्यानकोकिलाय । ओङ्कारवनमायुराय ओङ्कारकमलाकराय । ओङ्कारकूटनिलयाय । ओङ्कारतरुपल्लवाय । ओङ्कार चक्रमध्यस्थाय । ओङ्कारेश्वरपूजिताय । ओङ्कारपदसंवेद्याय नमः । १३ नन्दीशाय नमः । नन्दिवाहनाय । नारायणाय । नराधाराय । नारीमानसमोहनाय नान्दीश्राद्धप्रियाय । नाट्यतत्पराय । नारदप्रियाय । नानाशास्ररहस्यज्ञाय । नदीपुलिनसंस्थिताय । नम्राय । नम्रप्रियाय । नागभूषणाय नमः । २६ मोहिनीप्रियाय नमः । महामान्याय । महादेवाय । महाताण्डवपण्डिताय । माधवाय । मधुरालापाय । मीनाक्षीनायकाय । मुनये । मधुपुष्पप्रियाय । मानिने । माननीयाय । मतिप्रियाय । महायज्ञप्रियाय नमः । ३९ भक्ताय नमः । भक्तकल्पमहातरवे । भूतिदाय । भगवते ॥ भक्तवत्सलाय । भवभैरवाय । भवाब्धितरणीपायाय । भाववेद्याय । भवापहाय । भवानीवल्लभाय । भानवे । भूतिभूषितविग्रहाय नमः । ५१ गणाधिपाय नमः । गणाराध्याय । गम्भीर । गणभृते । गुरवे । गानप्रियाय । गुणाधाराय । गौरीमानसमोहनाय । गोपालपूजिताय । गोप्ने । गौराङ्गाय । गिरिशाय । गुहायनमः नमः । ६४ वरिष्ठाय नमः । वीर्यवते । विदुषे । विद्याधाराय । वनप्रियाय । बसन्तपुष्परुचिरमालालङ्कृतमूर्धजाय । विद्वत्प्रियाय । वीतिहोत्राय । विश्वामित्रवरप्रदाय । वाक्पतये । वरदाय । वायवे । वाराहीहृदयङ्गमाय नमः । ७७ तेजःप्रदाय नमः । तन्त्रमयाय । तारकासुरसङ्घहृते । ताटकान्तकसम्पूज्याय । तारकाधिपभूषणाय । त्रैयम्बकाय । त्रिकालज्ञाय । तुषाराचलमन्दिराय । तपनाग्निशशाङ्काक्षाय ॥ तीर्थाटनपरायणाय । त्रिपुण्ड्रविलसत्फालफलकाय । तरुणाय । तरवे नमः । ९० दयालवे नमः । दक्षिणामूर्तये । दानवान्तकपूजिताय । दारिद्रचनाशकाय । दीनरक्षकाय । दिव्यलोचनाय । दिव्यरत्नसमाकीर्णकण्ठाभरणभूषिताय । दुष्टराक्षसदर्पघ्नाय । दुराराध्याय । दिगम्बराय । दिक्पालकसमाराध्यचरणाय । दीनवल्लभाय । दम्भाचारहराय नमः । १०३ क्षिप्रकारिणे नमः । क्षत्रियपूजिताय । क्षेत्रज्ञाय । क्षामरहिताय । क्षौमाम्बरविभूषिताय । क्षेत्रपालार्चिताय । क्षेमकारिणे । क्षीरोपमाकृतये । क्षीराब्धिजामनोनाथपूजिताय । क्षयरोगहृते । क्षपाकरधराय । क्षोभवर्जिताय । क्षितिसौख्यदाय नमः । ११६ नानारूपधराय नमः । नामरहिताय । नादतत्पराय । नरनाथप्रियाय । नग्नाय । नानालोकसमर्चिताय । नौकारूढाय । नदीभर्त्रे । निगमाश्चाय । निरञ्जनाय । नानाजिनधराय । नीललोहिताय । नित्ययौवनाय नमः । १२९ मूलाधारादिचक्रस्थाय नमः । महादेवीमनोहराय । माधवार्चितपादाब्जाय । माख्यपुष्पार्चनप्रियाय । मन्मथान्तकराय । मित्रमहामण्डलसंस्थिताय । मित्रप्रियाय । मित्रदन्तहराय । मङ्गलवर्धनाय । मन्मथानेकधिकारिलावण्याञ्चितविग्रहाय । मित्रेन्दुकृत चक्राढयमेदिनी रथनायकाय । मधुवैरिणे । महाबाणाय । मन्दराचलमन्दिराय नमः । १४३ तन्वीसहायाय नमः । त्रैलोक्यमोइनास्त्रकलामयाय । त्रिकालज्ञानसम्पन्नाय । त्रिकालज्ञानदायकाय । त्रयीनिपुणसंसेव्याय । त्रिशक्तिपरिसेविताय । त्रिणेत्राय । तीर्थफलकाय । तन्त्रमार्गप्रवर्तकाय । तृप्तिप्रदाय । तन्त्रयन्त्रमन्त्रतत्परसेविताय । त्रयीशिखामयाय नमः । १५५ यक्षकिन्नराधमरार्चिताय नमः । यमबाधाहराय । यज्ञनायकाय । यज्ञमूर्तिभृते । यज्ञेशाय । यज्ञकर्त्रे । यज्ञविघ्नविनाशनाय । यज्ञकर्मफलाध्याक्षाय । यज्ञभोक्त्रे । युगावहाय । युगाधीशाय । यदुपतिसेविताय नमः । १६७ महदाश्रयाय नमः । माणिक्यकङ्णकराय । मुक्ताहारविभूषिताय । मणिमञ्जीरचरणाय । मलयाचलनायकाय । मृत्युञ्जयाय । मृत्तिकराय । मुदिताय । मुनिसत्तमाय । मोहिनीनायकाय । मायापत्यै । मोहनरूपधृते नमः । १७९ हरिप्रियाय नमः । हविष्याशाय । हरिमानसगोचराय । हराय । हर्षप्रदाय । हालाहलभोजनतत्पराय । हरिध्वजसमाराध्याय । हरिब्रह्मेन्द्रपूजिताय । हारीतवरदाय । हासजितराक्षससंहतये । हृत्पुण्डरीकनिलयाय । हतभक्तविपद्गणाय नमः । १९१ मेरुशैलकृतावासाय नमः । मन्त्रिणीपरिसेविताय । मन्त्रज्ञाय । मन्त्रतत्वार्थपरिज्ञानिने । मदालसाय । महादेवीसमाराध्यदिव्यपादुकरञ्जिताय । मन्त्रात्मकाय । मन्त्रमयाय । महालक्ष्मीसमर्चिताय । महाभूतमयाय । मायापूजिताय । मधुरस्वनाय नमः । २०३ धाराधरोपमगलाय नमः । धरास्यन्दनसंस्थिताय । ध्रुवसम्पूजिताय । धात्रीनाथभक्तवरप्रदाय । ध्यानगम्याय । ध्याननिष्ठहृत्पद्मान्तरपूजिताय । धर्माधीनाय । धर्मरताय । धनदाय धनदप्रियाय । घनाध्यक्षार्चनप्रीताय । धीरविद्वज्जनाश्रयाय नमः । २१५ प्रणवाक्षरमध्यस्थाय नमः । प्रभवे । पौराणिकोत्तमाय । पद्मालयापतिनुताय । परस्त्रीविमुखप्रियाय । पञ्चब्रह्ममयाय । पञ्चमुखाय । परमपावनाय । पञ्चबाणप्रमथनाय । पुरारातये । परात्पराय । पुराणन्यायमीमांसधर्मशास्त्र प्रवर्तकाय नमः । २२७ ज्ञानप्रदाय नमः । ज्ञानगम्याय । ज्ञानतत्परपूजिताय । ज्ञानवेद्याय । ज्ञातिहीनाय । ज्ञेयमूर्तिस्वरूपधृते । ज्ञानदात्रे । ज्ञानशीलाय । ज्ञानवैराग्यसंयुताय । ज्ञानमुद्राश्चितकराय । ज्ञातमन्त्रकदम्बकाय । ज्ञानवैराग्यसम्पन्नवरदाय नमः । २३९ प्रकृतिप्रियाय नमः । पद्मासनसमाराध्याय । पद्मपत्रायतेक्षणाय । परस्मै ज्योतिषे । परस्मै धाम्ने । प्रधानपुरुषाय । परस्मै । प्रावृड्विवर्धनाय । प्रावृण्णिधये । प्रावृट्खगेश्वराय । पिनाकपाणये । पक्षीन्द्रवाहनाराध्यपादुकाय नमः । २५१ यजमानप्रियाय नमः । यज्ञपतये । यज्ञफलप्रदाय । यागाराध्याय । योगगम्याय । यमपीडाहराय । पतये । यातायातादिरहिताय । यतिधर्मपरायणाय । यादोनिधये । यादवेन्द्राय । यक्षकिन्नरसेविताय नमः । २६३ छन्दोमयाय नमः । छत्रपतये । छत्रपालनतत्पराय । छन्दः शास्त्रादिनिपुणाय । छान्दोग्यपरिपूरिताय । छिनाप्रियाय । छत्रहस्ताय । छिन्नामन्त्रजपप्रियाय । छायापतये । छद्मगारये । छलजात्यादिदूरगाय । छाद्यमानमहाभूतपञ्चकाय नमः । २७५ स्वादु तत्पराय नमः । सुराराध्याय । सुरपतये । सुन्दराय । सुन्दरीप्रियाय । सुमुखाय । सुभगाय । सौम्याय । सिद्धमार्गप्रवर्तकाय । सर्वशास्त्ररहस्यज्ञाय । सोमाय । सोमविभूषणाय नमः । २८७ हाटकाभजटाजूटाय नमः । हाटकाय । हाटकप्रियाय । हरिद्राकुङ्कुमोपेतदिव्यगन्धप्रियाय । हरये । हाटकाभरणोपेतरुद्राक्षकृतभूषणाय । हैह्येशाय । हतरिपवे । हरिमानसतोषणाय । हयग्रीवसमाराध्याय । हयग्रीववरप्रदाय । हारायितमहाभक्त सुरनाथमहोहराय । दक्षिणामूर्तये नमः । ३०० दक्षिणामूर्तये विद्महे ध्यानाधिष्ठाय धीमहि । तन्नो बोधः प्रचोदयात् ॥ ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा । मन्त्राक्षराद्यादिमा श्रीमेधादक्षिणामूर्तित्रिशती समाप्ता ।