अक्षर आकार:

श्रीमेधादक्षिणामूर्तिसहस्रनामस्तोत्रं १

Medhadakshinamurti SahasranAmastotra 1

श्रीमेधादक्षिणामूर्तिसहस्रनामस्तोत्रं १

॥ श्री गुरुभ्यो नमः ॥ श्रीः अस्य श्री मेधादक्षिणामूर्तिसहस्रनामस्तोत्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । दक्षिणामूर्तिर्देवता । ओं बीजम् । स्वाहा शक्तिः । नमः कीलकम् । मेधादक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः । ह्राम् इत्यादिना अङ्ग न्यासः । ध्यानम् । सिद्धितोयनिधेर्मध्ये रत्नग्रीवे मनोरमे । कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ १॥ आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् । शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ २॥ दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके । जटामण्डलसंलग्नशीताम्शुकरमण्डितम् ॥ ३॥ नागहारधरं चारुकङ्कणैः कटिसूत्रकैः । विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ ४॥ चिन्तामणिमहाबृन्दैः कल्पकैः कामधेनुभिः । चतुष्षष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ ५॥ रत्नसिंहासने साधुद्वीपिचर्मसमायुतम् । तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ ६॥ वीरासने समासीनं लम्बदक्षपदांबुजम् । ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ ७॥ पादमूलसमाक्रान्तमहापस्मारवैभवम् । रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ ८॥ गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् । सिद्धबृन्दैर्योगिबृन्दैर्मुनिबृन्दैर्निषेवितम् ॥ ९॥ आराध्यमानवृषभं अग्नीन्दुरविलोचनम् । पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ १०॥ एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ ११॥ लं इत्यादिना पञ्चोपचाराः ॥ देवदेवो महादेवो देवानामपि देशिकः । दक्षिणामूर्तिरीशानो दयापूरितदिङ्मुखः ॥ १॥ कैलासशिखरोत्तुङ्ग-कमनीयनिजाकृतिः । वटद्रुमतटीदिव्यकनकासनसंस्थितः ॥ २॥ कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतिः । पाटीरापाण्डुराकारपरिपूर्णसुधाधिपः ।३॥ जपाकोटीरघटितसुधाकरसुधाप्लुतः । पश्यल्ललाटसुभगसुन्दरभ्रूविलासवान् ॥ ४॥ कटाक्षसरणीनिर्यत्करुणापूर्णलोचनः । कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभूः ॥ ५॥ तिलप्रसूनसंकाशनासिकापुटभासुरः । मन्दस्मितस्पुरन्मुग्धमहनीयमुखाम्बुजः ॥ ६॥ कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजितः । सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवः ॥ ७॥ शङ्खाटोपगलद्दिव्यगळवैभवमञ्जुलः । करकन्दलितज्ञानमुद्रारुद्राक्षमालिकः ॥ ८॥ अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुः । विशालरुचिरोरस्कवलिमत्पल्लवोदरः ॥ ९॥ बॄहत्कटिनितंबाढ्यः पीवरोरुद्वयान्वितः । जङ्घाविजिततूणीरस्तुङ्गगुल्फयुगोज्ज्वलः ॥ १०॥ मृदुपाटलपादाब्जश्चन्द्राभनखदीधितिः । अपसव्योरुविन्यस्तसव्यपादसरोरुहः ॥ ११॥ घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजः । सनकादिमुनिध्येयः सर्वाभरणभूषितः ॥ १२॥ दिव्यचन्दनलिप्ताङ्गश्चारुहासपरिष्कृतः । कर्पूरधवलाकारः कन्दर्पशतसुन्दरः ॥ १३॥ कात्यायनीप्रेमनिधिः करुणारसवारिधिः । कामितार्थप्रदःश्रीमत्कमलावल्लभप्रियः ॥ १४॥ कटाक्षितात्मविज्ञानः कैवल्यानन्दकन्दलः । मन्दहाससमानेन्दुः छिन्नाज्ञानतमस्ततिः ॥ १५॥ संसारानलसंतप्तजनतामृतसागरः । गंभीरहृदयाम्भोजनभोमणिनिभाकृतिः ॥ १६॥ निशाकरकराकारवशीकृतजगत्त्रयः । तापसाराध्यपादाब्जस्तरुणानन्दविग्रहः ॥ १७॥ भूतिभूषितसर्वाङ्गो भूताधिपतिरीश्वरः । वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतिः ॥ १८॥ तापत्रयतमोभानुः पापारण्यदवानलः । संसारसागरोद्धर्ता हंसाग्र्योपास्यविग्रहः ॥ १९॥ ललाटहुतभुग्दग्धमनोभवशुभाकृतिः । तुच्छीकृतजगज्जालस्तुषारकरशीतलः ॥ २०॥ अस्तंगतसमस्तेच्छो निस्तुलानन्दमन्थरः । धीरोदात्तगुणाधार उदारवरवैभवः ॥ २१॥ अपारकरुणामूर्तिरज्ञानध्वान्तभास्करः । भक्तमानसहंसाग्र्यभवामयभिषक्तमः ॥ २२॥ योगीन्द्रपूज्यपादाब्जो योगपट्टोल्लसत्कटिः । शुद्धस्फटिकसंकाशो बद्धपन्नगभूषणः ॥ २३॥ नानामुनिसमाकीर्णो नासाग्रन्यस्तलोचनः । वेदमूर्धैकसंवेद्यो नादध्यानपरायणः ॥ २४॥ धराधरेन्दुरानन्दसन्दोहरससागरः । द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुतः ॥ २५॥ प्रत्यगात्मा परंज्योतिः पुराणः परमेश्वरः । प्रपञ्चोपशमः प्राज्ञः पुण्यकीर्तिः पुरातनः ॥ २६॥ सर्वाधिष्ठानसन्मात्रस्स्वात्मबन्धहरो हरः । सर्वप्रेमनिजाहासः सर्वानुग्रहकृत् शिवः ॥ २७॥ सर्वेन्द्रियगुणाभासः सर्वभूतगुणाश्रयः । सच्चिदानन्दपूर्णात्मा स्वे महिम्नि प्रतिष्ठितः ॥ २८॥ सर्वभूतान्तरस्साक्षी सर्वज्ञस्सर्वकामदः । सनकादिमहायोगिसमाराधितपादुकः ॥ २९॥ आदिदेवो दयासिन्धुः शिक्षितासुरविग्रहः । यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः ॥ ३०॥ ब्रह्मादिदेवविनुतो योगमायानियोजकः । शिवयोगी शिवानन्दः शिवभक्तसमुद्धरः ॥ ३१॥ वेदान्तसारसन्दोहः सर्वसत्त्वावलम्बनः । वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ॥ ३२॥ सुशीलो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ॥ नृत्तगीतकलाभिज्ञः कर्मवित् कर्ममोचकः ॥ ३३॥ कर्मसाक्षी कर्ममयः कर्मणां च फलप्रदः । ज्ञानदाता सदाचारः सर्वोपद्रवमोचकः ॥ ३४॥ अनाथनाथो भगवानाश्रितामरपादपः । वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ ३५॥ व्याघ्रचर्मासनासीन आदिकर्ता महेश्वरः । सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ ३६॥ चिन्ताशोकप्रशमनो जगदानन्दकारकः । रश्मिमान् भुवनेशश्च देवासुरसुपूजितः ॥ ३७॥ मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्त्वसङ्ग्रहः । अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ ३८॥ समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः । सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ ३९॥ विश्वाधिकः पशुपतिः पशुपाशविमोचकः । अष्टमूर्तिर्दीप्तमूर्तिः नामोच्चारणमुक्तिदः ॥ ४०॥ सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः । दिव्यकेलीसमायुक्तो दिव्यमाल्याम्बरावृतः ॥ ४१॥ अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः । तप्तचामीकराकारो जितदावानलाकृतिः ॥ ४२॥ निरञ्जनो निर्विकारो निजावासो निराकृतिः । जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ ४३॥ कामहन्ता काममूर्तिः कल्याणवृषवाहनः । गङ्गाधरो महादेवो दीनबन्धविमोचकः ॥ ४४॥ धूर्जटिः खण्डपरशुः सद्गुणो गिरिजासखः । अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ ४५॥ उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशनः । नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ ४६॥ प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः । आश्चर्यवैभवो देवः संसारार्णवतारकः ॥ ४७॥ यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः । अनन्तस्तारकः स्थाणुः सर्वविद्येश्वरो हरिः ॥ ४८॥ विश्वरूपो विरूपाक्षः प्रभुः परिबृडो दृढः । भव्यो जितारिषद्वर्गो महोदारो विषाशनः ॥ ४९॥ सुकीर्तिरादिपुरुषो जरामरणवर्जितः । प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ ५०॥ गुणाकारो गुणश्रेष्ठः सच्चिदानन्दविग्रहः । सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ ५१॥ अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ५२॥ चराचरात्मा सूक्ष्मात्मा विश्वकर्मा तमोऽपहृत् । भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ ५३॥ अणिमादिगुणोपेतो लोकवश्यविधायकः । योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ ५४॥ गुरुरूपधरः श्रीमत्परमानन्दसागरः । सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ ५५॥ सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् । निराभासः सूक्ष्मतनुर्हृदि ज्ञातः परात्परः ॥ ५६॥ सर्वात्मगः सर्वसाक्षी निःसङ्गो निरुपद्रवः । निष्कलः सकलाध्यक्षश्चिन्मयस्तमसः परः ॥ ५७॥ ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः । शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ ५८॥ सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः । तारकब्रह्मसम्पूर्णस्तपस्विजनसंवृतः ॥ ५९॥ विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः । निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ ६०॥ निरवद्यो निरातङ्को भीमो भीमपराक्रमः । वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ ६१॥ अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः । विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानैकमन्थरः ॥ ६२॥ अग्रेसरस्तीर्थभूतः सितभस्मावकुण्ठनः । अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ ६३॥ ललाटोज्ज्वलनेत्राब्जस्तुषारकरशेखरः । गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ ६४॥ कल्याणाचलकोदण्डः कमलापतिसायकः । वारांशेवधितूणीरःसरोजासनसारथिः ॥ ६५॥ त्रयीतुरङ्गसंक्रान्तो वासुकिज्याविराजितः । रवीन्दुचरणाचारिधरारथविराजितः ॥ ६६॥ त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलः । उत्तानपर्वलोमाढ्यो लीलाविजितमन्मथः ॥ ६७॥ जातुप्रपन्नजनताजीवनोपायनोत्सुकः । संसारार्णवनिर्मग्नसमुद्धरणपण्डितः ॥ ६८॥ मदद्विरदधिक्कारिगतिमञ्जुलवैभवः । मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणः ॥ ६९॥ कैवल्योदधिकल्लोललीलाताण्डवपण्डितः । विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ ७०॥ वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः । अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ ७१॥ सर्पभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः । अनादिमध्यनिधनो गिरीशो गिरिजापतिः ॥ ७२॥ वीतरागो विनीतात्मा तपस्वी भूतभावनः । देवासुरगुरुध्येयो देवासुरनमस्कृतः ॥ ७३॥ देवादिदेवो देवर्षिर्देवासुरवरप्रदः । सर्वदेवमयोऽचिन्त्यो देवात्मा चात्मसंभवः ॥ ७४॥ निर्लेपो निष्प्रपञ्चात्मा निर्विघ्नो विघ्ननाशकः । एकज्योतिर्निरातङ्को व्याप्तमूर्तिरनाकुलः ॥ ७५॥ निरवद्यपदोपाधिर्विद्याराशिरनुत्तमः । नित्यानन्दः सुराध्यक्षो निःसंकल्पो निरञ्जनः ॥ ७६॥ निष्कलङ्को निराकारो निष्प्रपञ्चो निरामयः । विद्याधरो वियत्केशो मार्कण्डेयवरप्रदः ॥ ७७॥ भैरवो भैरवीनाथः कामदः कमलासनः । वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ ७८॥ चूडामणिः सुराधीशो यज्ञगेयो हरिप्रियः । निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ ७९॥ धर्मदक्षो महाराजःकिरीटी वन्दितो गुहः । माधवो यामिनीनाथः शम्बरः शबरीप्रियः ॥ ८०॥ सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसंभवः । ब्रह्मण्यो वरदो नित्यः शूली गुरुवरो हरः ॥ ८१॥ मार्ताण्डः पुण्डरीकाक्षो लोकनायकविक्रमः । मुकुन्दार्च्यो वैद्यनाथः पुरन्दरवरप्रदः ॥ ८२॥ भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः । किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ ८३॥ विजयो भूतभावज्ञो भीमसेनो दिवाकरः । बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ ८४॥ ओषधीशो वामदेवो गोविन्दो नीललोहितः । षडर्धनयनः श्रीमन्महादेवो वृषध्वजः ॥ ८५॥ कर्पूरदीपिकालोलः कर्पूररसचर्चितः । अव्याजकरुणामूर्तिस्त्यागराजः क्षपाकरः ॥ ८६॥ आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः । देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ ८७॥ निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् । निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ ८८॥ भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः । दारिद्र्यतृणकूटाग्निर्दारितासुरसन्ततिः ॥ ८९॥ मुक्तिदो मुदितोऽकुब्जो धार्मिको भक्तवत्सलः । अभ्यासातिशयज्ञेयस्चन्द्रमौलिः कलाधरः ॥ ९०॥ महाबलो महावीर्यो विभुः श्रीशः शुभप्रदः । सिद्धः पुराणपुरुषो रणमण्डलभैरवः ॥ ९१॥ सद्योजातो वटारण्यवासी पुरुषवल्लभः । हरिकेशो महात्राता नीलग्रीवस्सुमङ्गलः ॥ ९२॥ हिरण्यबाहुस्तीक्ष्णांशुः कामेशः सोमविग्रहः । सर्वात्मा सर्वकर्ता च ताण्डवो मुण्डमालिकः ॥ ९३॥ अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः । प्रसन्नदेवो वागीशश्चिन्तातिमिरभास्करः ॥ ९४॥ गौरीपतिस्तुङ्गमौलिर्मखराजो महाकविः । श्रीधरस्सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ ९५॥ अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषमनोहरः । कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ ९६॥ महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः । महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ ९७॥ छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः । सार्वभौमस्सदानन्दः करुणामृतवारिधिः ॥ ९८॥ कालकालः कलिध्वंसी जरामरणनाशकः । शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ ९९॥ चण्डीईशः शुकसंवेद्यः पुण्यश्लोको दिवस्पतिः । स्थायी सकलतत्त्वात्मा सदासेवकवर्धनः ॥ १००॥ रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः । त्रियंबको वररुचिर्देवदेवश्चतुर्भुजः ॥ १०१। विश्वंभरो विचित्राङ्गो विधाता पुरशासनः । सुब्रह्मण्यो जगत्स्वामी रोहिताक्षः शिवोत्तमः ॥ १०२॥ नक्षत्रमालाभरणो मघवान् अघनासनः । विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ १०३॥ चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः । गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ १०४॥। सर्वानन्दो दयारूपी शैलजासुमनोहरः । सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ १०५॥ वृषाङ्को रमणीयाङ्गः सदङ्घ्रिः सामपारगः । मन्त्रात्मा कोटिकन्दर्पसौन्दर्यरसवारिधिः ॥ १०६ ॥ यज्ञेशो यज्ञपुरुषः सृष्टिस्थित्यन्तकारणम् । परहंसैकजिज्ञास्यः स्वप्रकाशस्वरूपवान् ॥ १०७॥ मुनिमृग्यो देवमृग्यो मृगहस्तो मृगेश्वरः । मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ॥ १०८॥ मुनिवन्द्यो मुनिश्रेष्ठो मुनिबृन्दनिषेवितः । दुष्टमृत्युरदुष्टेहो मृत्युहा मृत्युपूजितः ॥ १०९॥ अव्यक्तोऽम्बुजजन्मादिकोटिकोटिसुपूजितः । लिङ्गमूर्तिरलिङ्गात्मा लिङ्गात्मा लिङ्गविग्रहः ॥ ११०॥ यजुर्मूर्तिः साममूर्तिरृङ्मूर्तिर्मूर्तिवर्जितः । विश्वेशो गजचर्मैकचेलाञ्चितकटीतटः ॥ १११॥ पावनान्तेवसद्योगिजनसार्थसुधाकरः । अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ ११२॥ चिन्ताशोकप्रशमनः सर्वविद्याविशारदः । भक्तविज्ञाप्तिसन्धाता कर्ता गिरिवराकृतिः ॥ ११३॥ ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः । सुरोत्तमश्चित्रभानुः सदावैभवतत्परः ॥ ११४॥ सुहृदग्रेसरः सिद्धज्ञानमुद्रो गणाधिपः । आगमश्चर्मवसनो वाञ्छितार्थफलप्रदः ॥ ११५॥ अन्तर्हितोऽसमानश्च देवसिंहासनाधिपः । विवादहन्ता सर्वात्मा कालः कालविवर्जितः ॥ ११६॥ विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणम् । योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ॥ ११७॥ ओंकाररूपो भगवान् बिन्दुनादमयः शिवः । चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ॥ ११८॥ सह्याचलगुहावासी साक्षान्मोक्षरसामृतः । दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ॥ ११९॥ ओंकारवाचकः शंभुः शंकरः शशिशीतलः । पङ्कजासनसंसेव्यः किंकरामरवत्सलः ॥ १२०॥ नतदौर्भाग्यतूलाग्निः कृतकौतुकमङ्गलः । त्रिलोकमोहनः श्रीमत्त्रिपुण्ड्राङ्कितमस्तकः ॥ १२१॥ क्रौञ्चारिजनकः श्रीमद्गणनाथसुतान्वितः । अद्भुतानन्तवरदोऽपरिच्छिनात्मवैभवः ॥ १२२॥ इष्टापूर्तप्रियः शर्व एकवीरः प्रियंवदः । ऊहापोहविनिर्मुक्त ओंकारेश्वरपूजितः ॥ १२३॥ रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः । भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ १२४॥ कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः । सुन्दरभ्रूः सुनयनः सुललाटः सुकन्धरः ॥ १२५॥ विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः । विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ १२६॥ अतिरागी वीतरागी रागहेतुर्विरागवित् । रागहा रागशमनो रागदो रागिरागवित् ॥ १२७॥ मनोन्मनो मनोरूपो बलप्रमथनो बलः । विद्याकरो महाविद्यो विद्याविद्याविशारदः ॥ १२८॥ वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः । प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ॥ १२९॥ शरन्नाथो शरत्कालनाशकः शरदाश्रयः । कुन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १३०॥ दिव्यदेहप्रभाकूटसंदीपितदिगन्तरः । देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ॥ १३१॥ वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियः । कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १३२॥ शरणागतदीनार्तपरित्राणपरायणः । महाप्रेतासनासीनो जितसर्वपितामहः ॥ १३३॥ मुक्तादामपरीताङ्गो नानागानविशारदः । विष्णुब्रह्मादिवन्द्याङ्घ्रिर्नानादेशैकनायकः ॥ १३४॥ धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः । विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ १३५॥ भवाब्धितरणोपायः कविर्दुःस्वप्ननाशनः । गौरीविलाससदनः पिशचानुचरावृतः ॥ १३६॥ दक्षिणाप्रेमसंतुष्टो दारिद्र्यवडवानलः । अद्भुतानन्तसंग्रामो डक्कावादनतत्परः ॥ १३७॥ प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः । ऊर्ध्वाद्यन्यदिगाकारो मर्मज्ञः सर्वशिक्षकः ॥ १३८॥ युगावहो युगाधीशो युगात्मा युगनायकः । जङ्गमः स्थावराकारः कैलासशिखरप्रियः ॥ १३९॥ हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः । लीलाविडंबितवपुर्भक्तमानसमण्डितः ॥ १४०॥ बृन्दारकप्रियतमो बृन्दारकवरार्चितः । नानाविधानेकरत्नलसत्कुण्डलमण्डितः ॥ १४१॥ निःसीममहिमा नित्यलीलाविग्रहरूपधृत् । चन्दनद्रवदिग्धाङ्गश्चाम्पेयकुसुमार्चितः ॥ १४२॥ समस्तभक्तसुखदः परमाणुर्महाह्रदः । अलौकिको दुष्प्रधर्षः कपिलः कालकन्धरः ॥ १४३॥ कर्पूरगौरः कुशलः सत्यसन्धो जितेन्द्रियः । शाश्वतैश्वर्यविभवः पोषकः सुसमाहितः ॥ १४४॥ महर्षिनाथितो ब्रह्मयोनिः सर्वोत्तमोत्तमः । भूतिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ॥ १४५॥ त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः । सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ॥ १४६॥ पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः । सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः ॥ १४७॥ सद्भक्तध्याननिगलः शरणागतपालकः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ १४८॥ सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः । सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणः ॥ १४९॥ अमोदो मोदजनकः सर्पराजोत्तरीयकः । कपाली कोविदः सिद्धकान्तिसंवलिताननः ॥ १५०॥ सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः । विलासिनीकृतोल्लास इच्छाशक्तिनिषेवितः ॥ १५१॥ अनन्तानन्दसुखदो नन्दनः श्रीनिकेतनः । अमृताब्धिकृतावासो नित्यक्लीबो निरामयः ॥ १५२॥ अनपायोऽनन्तदृष्टिरप्रमेयोऽजरोऽमरः । तमोमोहप्रतिहतिरप्रतर्क्योऽमृतोऽक्षरः ॥ १५३॥ अमोघबुद्धिराधार आधाराधेयवर्जितः । ईषणात्रयनिर्मुक्त इहामुत्रविवर्जितः ॥ १५४॥ ऋग्यजुःसामनयनो बुद्धिसिद्धिसमृद्धिदः । औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ॥ १५५॥ शुद्धसन्मात्रसंविद्धी-स्वरूपसुखविग्रहः । दर्शनप्रथमाभासो दृष्टिदृश्यविवर्जितः ॥ १५६॥ अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः । विमर्शरूपो विमलो नित्यरूपो निराश्रयः ॥ १५७॥ नित्यशुद्धो नित्यबुद्धः नित्यमुक्तोऽपराकृतः । मैत्र्यादिवासनालभ्यो महाप्रलयस<ंस्थितः ॥ १५८॥ महाकैलासनिलयः प्रज्ञानघनविग्रहः । श्रीमान् व्याघ्रपुरावासो भुक्तिमुक्तिप्रदायकः ॥ १५९॥ जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः । जपो जपपरो जप्यो विद्यासिंहासनप्रभुः ॥ १६०॥ तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः । दिक्कालाद्यनवच्छिन्नः सहजानन्दसागरः ॥ १६१॥ प्रकृतिः प्राकृतातीतो विज्ञानैकरसाकृतिः । निःशङ्कमतिदूरस्थश्चैत्यचेतनचिन्तनः ॥ १६२॥ तारकानां हृदन्तस्थस्तारकस्तारकान्तकः । ध्यानैकप्रकटो ध्येयो ध्यानी ध्यानविभूषणः ॥ १६३॥ परं व्योम परं धाम परमात्मा परं पदम् । पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः ॥ १६४॥ प्रमाविपर्ययातीतः प्रणताज्ञाननाशकः । बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहली ॥ १६५॥ ब्रह्मरूपी ब्रह्मपदं ब्रह्मविद् ब्राह्मणप्रियः । भूक्षेपदत्तलक्ष्मीको भूमध्यध्यानलक्षितः ॥ १६६॥ यशस्करो रत्नगर्भो महाराज्यसुखप्रदः । शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः ॥ १६७॥ शास्ता शिवाद्रिनिलयः शरण्यो याजकप्रियः । संसारवैद्यः सर्वज्ञः सभेषजविभेषजः ॥ १६८॥ मनोवचोभिरग्राह्यः पञ्चकोशविलक्षणः । अवस्थात्रयनिर्मुक्तस्त्ववस्थासाक्षितुर्यकः ॥ १६९॥ पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः । षट्चक्रान्तर्गतोल्लासी षड्विकारविवर्जितः ॥ १७०॥ विज्ञानघनसम्पूर्णो वीणावादनतत्परः । नीहाराकारगौराङ्गो महालावण्यवारिधिः ॥ १७१॥ पराभिचारशमनः षडध्वोपरिसंस्थितः । सुषुम्नामार्गसंचारी बिसतन्तुनिभाकृतिः ॥ १७२॥ पिनाकी लिङ्गरूपश्रीः मङ्गलावयवोज्ज्वलः । क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः ॥ १७३॥ सर्ववश्यकरः सर्वदोषहा पुत्रपौत्रदः । तैलदीपप्रियस्तैलपक्वान्नप्रीतमानसः ॥ १७४॥ तैलाभिषेकसंतुष्टस्तिलभक्षणतत्परः । आपादकनिकामुक्ताभूषाशतमनोहरः ॥ १७५॥ शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः । मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजः ॥ १७६॥ अपस्मारोपरिन्यस्तसव्यपादसरोरुहः । कन्दर्पतूणाभजङ्घो गुल्फोदञ्चितनूपुरः ॥ १७७॥ करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुभृत् । विशङ्कटकटिन्यस्तवाचालमणिमेखलः ॥ १७८॥ आवर्तनाभिरोमालिवलिमत्पल्लवोदरः । मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जितः ॥ १७९॥ वीरासनसमासीनो वीणापुस्तोल्लसत्करः । अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः ॥ १८०॥ माणिक्यकङ्कणोल्लासिकराम्बुजविराजितः । अनर्घरत्नग्रैवेयविलसत्कंबुकन्धरः ॥ १८१॥ अनाकलितसादृश्यचिबुकश्रीविराजितः । मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ १८२॥ चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः । वरवज्रशिलादर्शपरिभाविकपोलभूः ॥ १८३॥ कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डित्तः । करुणालहरीपूर्णकर्णान्तायतलोचनः ॥ १८४॥ अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः । चारुचामीकराकारजटाचर्चितचन्दनः । कैलासशिखरस्फर्धिकमनीयनिजाकृतिः ॥ १८५॥ इति श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ ॐ तत् सत् ॥