अक्षर आकार:

श्रीमल्लिकार्जुनसुप्रभातं

Shri Mallikarjuna Suprabhatam

श्रीमल्लिकार्जुनसुप्रभातं

प्रातस्स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १॥ कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ २॥ नमस्ते नमस्ते महादेव! शम्भो! नमस्ते नमस्ते दयापूर्णसिन्धो! नमस्ते नमस्ते प्रपन्नात्मबन्धो! नमस्ते नमस्ते नमस्ते महेश ॥ ३॥ शश्वच्छ्रीगिरिमूर्धनि त्रिजगतां रक्षाकृतौ लक्षितां साक्षादक्षतसत्कटाक्षसरणिश्रीमत्सुधावर्षिणीम् । सोमार्धाङ्कितमस्तकां प्रणमतां निस्सीमसम्पत्प्रदां सुश्लोकां भ्रमराम्बिकां स्मितमुखीं शम्भोस्सखीं त्वां स्तुमः ॥ ४॥ मातः! प्रसीद, सदया भव, भव्यशीले ! लीलालवाकुलितदैत्यकुलापहारे ! श्रीचक्रराजनिलये ! श्रुतिगीतकीर्ते ! श्रीशैलनाथदयिते ! तव सुप्रभातम् ॥ ५॥ शम्भो ! सुरेन्द्रनुत ! शङ्कर ! शूलपाणे ! चन्द्रावतंस ! शिव ! शर्व ! पिनाकपाणे ! गङ्गाधर ! क्रतुपते ! गरुडध्वजाप्त ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ ६॥ विश्वेश ! विश्वजनसेवित ! विश्वमूर्ते ! विश्वम्भर ! त्रिपुरभेदन ! विश्वयोने ! फालाक्ष ! भव्यगुण ! भोगिविभूषणेश ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ ७॥ कल्याणरूप ! करुणाकर ! कालकण्ठ ! कल्पद्रुमप्रसवपूजित ! कामदायिन् ! दुर्नीतिदैत्यदलनोद्यत ! देव देव ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ ८॥ गौरीमनोहर ! गणेश्वरसेविताङ्घ्रे ! गन्धर्वयक्षसुरकिन्नरगीतकीर्ते ! गण्डावलम्बिफणिकुण्डलमण्डितास्य ! श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ ९॥ नागेन्द्रभूषण ! निरीहित ! निर्विकार ! निर्माय ! निश्चल ! निरर्गल ! नागभेदिन् । नारायणीप्रिय ! नतेष्टद ! निर्मलात्मन् ! श्रीपर्वताधिप ! विभो ! तव सुप्रभातम् ॥ १०॥ सृष्टं त्वयैव जगदेतदशेषमीश ! रक्षाविधिश्च विधिगोचर ! तावकीनः । संहारशक्तिरपि शङ्कर ! किङ्करी ते श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ ११॥ एकस्त्वमेव बहुधा भव ! भासि लोके निश्शङ्कधीर्वृषभकेतन ! मल्लिनाथ ! श्रीभ्रामरीप्रय ! सुखाश्रय ! लोकनाथ ! श्रीशैलशेखर विभो ! तव सुप्रभातम् ॥ १२॥ पातालगाङ्गजलमज्जननिर्मलाङ्गाः भस्मत्रिपुण्ड्रसमलङ्कृतफालभागाः । गायन्ति देवमुनिभक्तजना भवन्तं श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ १३॥ सारस्वताम्बुयुतभोगवतीश्रितायाः ब्रह्मेशविष्णुगिरिचुम्बितकृष्णवेण्याः । सोपानमार्गमधिरुह्य भजन्ति भक्ताः श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम् ॥ १४॥ श्रीमल्लिकार्जुनमहेश्वरसुप्रभात- स्तोत्रं पठन्ति भुवि ये मनुजाः प्रभाते । ते सर्व सौख्यमनुभूय परानवाप्यं श्रीशाम्भवं पदमवाप्य मुदं लभन्ते ॥ १५॥ इति श्रीमल्लिकार्जुनसुप्रभातं सम्पूर्णम् ।