अक्षर आकार:

श्रीमल्लारिसहस्रनामस्तोत्रम्

Shri Mallari Sahasranama Stotram 1000 names

श्रीमल्लारिसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । स्थितं कैलासनिलये प्राणेशं लोकशङ्करम् । उवाच शङ्करं गौरी जगद्धितचिकीर्षया ॥ १॥ पार्वत्युवाच । देवदेव महादेव भक्तानन्दविवर्धन । पृच्छामि त्वामहं चैकं दुःखदारिद्र्यनाशनम् ॥ २॥ कथयस्व प्रसादेन सर्वज्ञोसि जगत्प्रभो । स्तोत्रं दानं तपो वापि सद्यः कामफलप्रदम् ॥ ३॥ ईश्वर उवाच । मार्तण्डो भैरवो देवो मल्लारिरहमेव हि । तस्य नामसहस्रं ते वदामि श‍ृणु भक्तितः ॥ ४॥ सर्वलोकार्तिशमनं सर्वसम्पत्प्रदायकम् । पुत्रपौत्रादि फलदं अपवर्गप्रदं शिवम् ॥ ५॥ ईश्वरोस्य ऋषिः प्रोक्तः छन्दोऽनुष्टुप् प्रकीर्तितः । मल्लारिर्म्हालसायुक्तो देवस्त्रत्र समीरितः ॥ ६॥ सर्वपापक्षयद्वारा मल्लारिप्रीतये तथा । समस्तपुरुषार्थस्य सिद्धये विनियोजितः ॥ ७॥ मल्लारिर्म्हालसानाथो मेघनाथो महीपतिः । मैरालः खड्गराजश्चेत्यमीभिर्नाममन्त्रकैः ॥ ८॥ एतैर्नमोन्तैरोमाद्यै करयोश्च हृदादिषु । न्यासषट्कं पुरा कृत्वा नामावलिं पठेत ॥ ९॥ अस्य श्रीमल्लारिसहस्रनामस्तोत्रमन्त्रस्य ईश्वर ऋषिः । म्हालसायुक्त मल्लारिर्देवता । अनुष्टुप्छन्दः । सर्वपापक्षयद्वारा श्रीमल्लारिप्रीतये सकलपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । ॐ ह्रं ह्रांम्रियमाणानन्दमहालक्ष्मणेनम इति । अथन्यासः । मल्लारये नमः अङ्गुष्ठाभ्यां नमः । म्हालसानाथाय नमः तर्जनीभ्यां नमः । मेघनाथाय नमः मध्यमाभ्यां नमः । महीपतये नमः अनामिकाभ्यां नमः । मैरालायनमः कनिष्ठिकाभ्यां नमः । खड्गराजाय नमः करतलकरपृष्ठाभ्यां नमः । ॐ मल्हारये नमः हृदयाय नमः । ॐ म्हालसानाथाय नमः शिरसे स्वाहा । ॐ मेघनाथाय नमः शिखायै वषट् । ॐ महीपतये नमः कववाय हुं । ॐ मैरालाय नमः नेत्रत्रयाय वौषट् । ॐ खड्गराजाय नमः अस्त्राय फट् । अथ ध्यानम् । ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हालसाभूषिताङ्कं श्वेताश्वं खड्गहस्तं विबुधबुधगणैः सेव्यमानं कृतार्थैः । युक्ताघ्रिं दैत्यमूर्घ्नीडमरुविलसितं नैशचूर्णाभिरामं नित्यं भक्तेषुतुष्टं श्वगणपरिवृतं वीरमोङ्कारगम्यम् ॥ १॥ मूलमन्त्रः । ॐ ह्रीं क्रूं त्क्रूं स्त्रूं ह्रूं ह्रां म्रियमाणानन्दमहालक्ष्मणे नमः । इति अलोभः उच्चार्य । अथनामावलीजपः । ॐ प्रणवो ब्रह्म उद्गीथ ॐकारार्थो महेश्वरः । मणिमल्लमहादैत्यसंहर्ता भुवनेश्वरः ॥ १॥ देवाधिदेव ॐकारः सन्तप्तामरतापहा । गणकोटियुतः कान्तो भक्तर्चितामणिः प्रभु ॥ २॥ प्रीतात्मा प्रथितः प्राण ऊर्जितः सत्यसेवकः । मार्तण्डभैरवो देवो गङ्गाह्मालसिकाप्रियः ॥ ३॥ गुणग्रामान्वितः श्रीमान् जयवान् प्रमथाग्रणीः । दीनानाथप्रतीकाशः स्वयम्भूरजरामरः ॥ ४॥ अखण्डितप्रीतमना मल्लहा सत्यसङ्गरः । आनन्दरूपपरमपरमाश्चर्यकृद्गुरुः ॥ ५॥ अजितोविश्वसञ्जेता समराङ्गणदुर्जयः । खण्डिताखिलाविघ्नौघः परमार्थप्रतापवान् ॥ ६॥ अमोघविद्यः सर्वज्ञः शरण्यः सर्वदैवतम् । अनङ्गविजयी ज्यायान् जनत्राता भयापहा ॥ ७॥ महाहिवलयो धाता चन्द्रमार्तण्ड्कुण्डलः । हरो डमरुडाङ्कारी त्रिशूली खड्गपात्रवान् ॥ ८॥ मणियुद्धमहा हृष्टोमुण्डमालाविराजितः । खण्डेन्दुशेखरस्त्र्यक्षो महामुकुटमण्डितः ॥ ९॥ वसन्तकेलिदुर्धर्षः शिखिपिच्छशिखामणिः । गङ्गाम्हालसिकाङ्कश्च गङ्गाम्हालसिकापतिः ॥ १०॥ तुरङ्गमसमारूढो लिङ्गद्वयकृताकृतिः । ऋषिदेवगणाकीर्णः पिशाचबलिपालकः ॥ ११॥ सूर्यकोटिप्रतीकाशश्चन्द्रकोटिसमप्रभः । अष्टसिद्धिसमायुक्तः सुरश्रेष्ठः सुखार्णवः ॥ १२॥ महाबलोदुराराध्योदक्षसिद्धिप्रदायकः । वरदोवीतरागश्चकलिप्रमथनः स्वराट् ॥ १३॥ दुष्टहादानवारातिरुत्कृष्टफलदायकः । भवः कृपालुर्विश्वात्माधर्मपुत्रर्षिभीतिहा ॥ १४॥ रुद्रो विविज्ञः श्रीकण्ठः पञ्चवक्त्रः सुधैकभूः । प्रजापालो विशेषज्ञश्चतुर्वक्त्रः प्रजापतिः ॥ १५॥ खड्गराजः कृपासिन्धुर्मल्लसैन्यविनाशनः । अद्वैतः पावनः पाता परार्थैकप्रयोजनम् ॥ १६॥ ज्ञानसाध्योमल्लहरः पार्श्वस्थमणिकासुरः । अष्टधा भजनप्रीतो भर्गोमृन्मयचेतनः ॥ १७॥ महीमयमहामूर्तिर्महीमलयसत्तनुः । उल्लोलखड्गो मणिहा मणिदैत्यकृतस्तुतिः ॥ १८॥ सप्तकोटिगणाधीशो मेघनाथो महीपतिः । महीतनुः खड्गराजो मल्लस्तोत्रवरप्रदः ॥ १९॥ प्रतापी दुर्जयः सेव्यः कलावान्विश्वरञ्जकः । स्वर्णवर्णोद्भुताकारः कार्तिकेयो मनोजवः ॥ २०॥ देवकृत्यकरःपूर्णोमणिस्तोत्रवरप्रदः । इन्द्रः सुरार्चितो राजा शङ्करोभूतनायकः ॥ २१॥ शीतः शाश्वत ईशानः पवित्रः पुण्यपूरुषः । अग्निपुष्टिप्रदः पूज्यो दीप्यमानसुधाकरः ॥ २२॥ भावी सुमङ्गलः श्रेयान्पुण्यमूर्तिर्यमो मनुः । जगत्क्षतिहरो हारशरणागतभीतिहा ॥ २३॥ मल्लद्वेष्टा मणिदेष्टा खण्डराड् म्हालसापतिः । आधिहा व्याधिहा व्याली वायुः प्रेमपुरप्रियः ॥ २४॥ सदातुष्टो निधीशाग्र्यः सुधनश्चिन्तितप्रदः । ईशानः सुजयो जय्योभजत्कामप्रदः परः ॥ २५॥ अनर्घ्यः शम्भुरार्तिघ्नो मैरालः सुरपालकः । गङ्गाप्रियो जगत्त्राता खड्गराण्णयकोविदः ॥ २६॥ अगण्योवरदो वेधा जगन्नाथः सुराग्रणीः । गङ्गाधरोऽद्भुताकारः कामहा कामदोमृतम् ॥ २७॥ त्रिनेत्रः कामदमनो मणिमल्लदयार्द्रहृत् । मल्लदुर्मतिनाशाङ्घ्रिर्मल्लासुरकृत स्तुतिः ॥ २८॥ त्रिपुरारिर्गणाध्यक्षो विनीतोमुनिवर्णितः । उद्वेगहा हरिर्भीमो देवराजो बुधोऽपरः ॥ २९॥ सुशीलः सत्त्वसम्पन्नः सुधीरोऽधिकभूतिमान् । अन्धकारिर्महादेवः साधुपालो यशस्करः ॥ ३०॥ सिंहासनस्थः स्वानन्दो धर्मिष्ठो रुद्र आत्मभूः । योगीश्वरो विश्वभर्ता नियन्ता सच्चरित्रकृत् ॥ ३१॥ अनन्तकोशः सद्वेषः सुदेशः सर्वतो जयी । भूरिभाग्यो ज्ञानदीपो मणिप्रोतासनो ध्रुवः ॥ ३२॥ अखण्डित श्रीः प्रीतात्मा महामहात्म्यभूषितः । निरन्तरसुखीजेता स्वर्गदः स्वर्गभूषणः ॥ ३३॥ अक्षयः सुग्रहः कामः सर्वविद्याविशारदः । भक्त्यष्टकप्रियोज्यायाननन्तोऽनन्तसौख्यदः ॥ ३४॥ अपारो रक्षिता नादिर्नित्यात्माक्षयवर्जितः । महादोषहरो गौरो ब्रह्माण्डप्रतिपादकः ॥ ३५॥ म्हालसेशो महाकीर्तिः कर्मपाशहरो भवः । नीलकण्ठो मृडो दक्षो मृत्युञ्जय उदारधीः ॥ ३६॥ कपर्दी काशिकावासः कैलासनिलयोऽमहान् । कृत्तिवासाः शूलधरो गिरिजेशो जटाधरः ॥ ३७॥ वीरभद्रो जगद्वन्द्यः शरणागतवत्सलः । आजानुबाहुर्विश्वेशः समस्तभयभञ्जकः ॥ ३८॥ स्थाणुः कृतार्थः कल्पेशः स्तवनीयमहोदयः । स्मृतमात्राखिलाभिज्ञो वन्दनीयो मनोरमः ॥ ३९॥ अकालमृत्युहरणो भवपापहरो मृदुः । त्रिनेत्रो मुनिहृद्वासः प्रणताखिलदुःखहा ॥ ४०॥ उदारचरितो ध्येयः कालपाशविमोचकः । नग्नः पिशाचवेषश्च सर्वभूतनिवासकृत् ॥ ४१॥ मन्दराद्रिकृतावासाः कलिप्रमथनो विराट् । पिनाकी मानसोत्साही सुमुखो मखरक्षितः ॥ ४२॥ var सुखरक्षितः देवमुख्यःशम्भुराद्यः खलहा ख्यातिमान् कविः । कर्पूरगौरः कृतधीः कार्यकर्ता कृताध्वरः ॥ ४३॥ तुष्टिप्रदस्तमोहन्ता नादलुब्धः स्वयं विभुः । var पुष्टिप्रद सिंहनाथो योगनाथो मन्त्रोद्धारो गुहप्रियः ॥ ४४॥ भ्रमहा भगवान्भव्यः शस्त्रधृक् क्षालिताशुभः । अश्वारूढो वृषस्कन्धो धृतिमान् वृषभध्वजः ॥ ४५॥ अवधूतसदाचारः सदातुष्टः सदामुनिः । वदान्यो म्हालसानाथः खण्डेशः शमवान्पतिः ॥ ४६॥ अलेखनीयः संसारी सरस्वत्यभिपूजितः । सर्वशास्त्रार्थनिपुणः सर्वमायान्वितो रथी ॥ ४७॥ हरिचन्दनलिप्ताङ्गः कस्तूरीशोभितस्तनुः । कुङ्कुमागरुलिप्ताङ्गः सिन्दूराङ्कितसत्तनुः ॥ ४८॥ अमोघवरदः शेषः शिवनामा जगद्धितः । भस्माङ्गरागः सुकृती सर्पराजोत्तरीयवान् ॥ ४९॥ बीजाक्षरंमन्त्रराजो मृत्युदृष्टिनिवारणः । प्रियंवदो महारावो युवा वृउद्धोऽतिबालकः ॥ ५०॥ नरनाथो महाप्राज्ञो जयवान्सुरपुङ्गवः । धनराट्क्षोभहृद्दक्षः सुसैन्यो हेममालकः ॥ ५१॥ आत्मारामो वृष्टिकर्ता नरो नारायणःप्रियः । रणस्थो जयसन्नादो व्योमस्थो मेघवान्प्रभुः ॥ ५२॥ सुश्राव्यशब्दः सत्सेव्यस्तीर्थवासी सुपुण्यदः । भैरवो गगनाकारः सारमेयसमाकुलः ॥ ५३॥ मायार्णवमहाधैर्यो दशहस्तोद्भुतङ्करः ॥ ५४॥ गुर्वर्थदः सतां नाथो दशवक्त्रवरप्रदः । सत्क्षेत्रवासः सद्वस्त्रोभूरिदो भयभञ्जनः ॥ ५५॥ कल्पनीहरितो कल्पः सज्जीकृतधनुर्धरः । क्षीरार्णवमहाक्रीडः सदासागरसद्गतिः ॥ ५६॥ सदालोकः सदावासः सदापातालवासकृत् । प्रलयाग्नि जटोत्युग्रः शिवस्त्रिभुवनेश्वरः ॥ ५७॥ उदयाचलसर्द्वीपः पुण्यश्लोकशिखामणिः । महोत्सवः सुगान्धर्वः समालोक्यः सुशान्तधीः ॥ ५८॥ मेरुवासः सुगन्धाढ्यः शीघ्रलाभप्रदोऽव्ययः । अनिवार्यः सुधैर्यार्थी सदार्थितफलप्रदः ॥ ५९॥ गुणसिन्धुः सिंहनादो मेघगर्जितशब्दवान् । भाण्डारसुन्दरतनुर्हरिद्राचूर्ण मण्डितः ॥ ६०॥ गदाधरकृतप्रैषो रजनीचूर्णरञ्जितः । घृतमारी समुत्थानं कृतप्रेमपुरस्थितिः ॥ ६१॥ बहुरत्नाङ्कितो भक्तः कोटिलाभप्रदोऽनघः । मल्लस्तोत्रप्रहृष्टात्मा सदाद्वीपपुरप्रभुः ॥ ६२॥ मणिकासुरविद्वेष्टा नानास्थानावतारकृत् । मल्लमस्तकदत्तांघ्रिर्मल्लनामादिनामवान् ॥ ६३॥ सतुरङ्गमणिप्रौढरूपसन्निधिभूषितः । धर्मवान् हर्षवान्वाग्मी क्रोधवान्मदरूपवान् ॥ ६४॥ दम्भरूपी वीर्यरूपी धर्मरूपी सदाशिवः । अहङ्कारी सत्त्वरूपी शौर्यरूपी रणोत्कटः ॥ ६५॥ आत्मरूपी ज्ञानरूपी सकलागमकृच्छिवः । विद्यारूपी शक्तिरूपी करुणामूर्तिरात्मधीः ॥ ६६॥ मल्लजन्यपरितोषो मणिदैत्यप्रियङ्करः । मणिकासुरमूर्द्धांघ्रिर्मणिदैत्यस्तुतिप्रियः ॥ ६७॥ मल्लस्तुतिमहाहर्षो मल्लाख्यापूर्वनामभाक् । धृतमारी भवक्रोधो मणिमल्लहितेरतः ॥ ६८॥ कपालमालितोरस्को मणिदैत्यवरप्रदः । कपालमाली प्रत्यक्षो माणिदैत्यशिरोङ्घ्रिदः ॥ ६९॥ धृतमारी भवक्त्रेभो मणिदैत्यहितेरतः । मणिस्तोत्रप्रहृष्टात्मा मल्लासुरगतिप्रदः ॥ ७०॥ मणिचूलाद्रिनिलयो मैरालप्रकरस्त्रिगः । मल्लदेहशिरः पादतल एकादशाकृतिः ॥ ७१॥ मणिमल्लमहागर्वहरस्त्र्यक्षर ईश्वरः । गङ्गाम्हालसिकादेवो मल्लदेह शिरोन्तकः ॥ ७२॥ मणिमल्लवधोद्रिक्तो धर्मपुत्रप्रियङ्करः । मणिकासुरसंहर्ता विष्णुदैत्यनियोजकः ॥ ७३॥ अक्षरोमातृकारूपः पिशाचगुणमण्डितः । चामुण्डानवकोटीशः प्रधानं मातृकापतिः ॥ ७४॥ त्रिमूर्तिर्मातृकाचार्यः साङ्ख्ययोगाष्टभैरवः । मणिमल्लसमुद्भूतविश्वपीडानिवारणः ॥ ७५॥ हुंफड्वौषट्वषट्कारो योगिनीचक्रपालकः । त्रयीमूर्तिः सुरारामस्त्रिगुणो मातृकामयः ॥ ७६॥ चिन्मात्रो निर्गुणो विष्णुर्वैष्णवार्च्यो गुणान्वितः । खड्गोद्यततनुः सोहंहंसरूपश्चतुर्मुखः ॥ ७७॥ आप्तायत्ततनु पद्मोद्भवो मातृकार्थो योगिनीचक्रपालकः । जन्ममृत्युजराहीनो योगिनीचक्रनामकः ॥ ७८॥ आदित्यआगमाचार्यो योगिनीचक्रवल्लभः । सर्गस्थित्यन्तकृच्छ्रीदएकादशशरीरवान् ॥ ७९॥ आहारवान् हरिर्धाता शिवलिङ्गार्चनप्रियः । प्रांशुः पाशुपतार्च्यांघ्रिर्हुतभुग्यज्ञपूरुषः ॥ ८०॥ ब्रह्मण्यदेवो गीतज्ञो योगमायाप्रवर्तकः । आपदुद्धारणो ढुण्डी गङ्गामौलि पुराणकृत् ॥ ८१॥ व्यापी विरोधहरणो भारहारी नरोत्तमः । ब्रह्मादिवर्णितो हासः सुरसङ्घमनोहरः ॥ ८२॥ विशाम्पतिर्दिशान्नाथो वायुवेगो गवाम्पतिः । अरूपी पृथिवीरूपस्तेजोरूपोऽनिलो नरः ॥ ८३॥ आकाशरूपी नादज्ञो रागज्ञः सर्वगः खगः । अगाधो धर्मशास्त्रज्ञ एकराट् निर्मलोविभुः ॥ ८४॥ धूतपापो गीर्णविषो जगद्योनिर्निधानवान् । जगत्पिता जगद्बन्धुर्जगद्धाता जनाश्रयः ॥ ८५॥ अगाधो बोधवान्बोद्धा कामधेनुर्हतासुरः । अणुर्महान्कृशस्थूलो वशी विद्वान्धृताध्वरः ॥ ८६॥ अबोधबोधकृद्वित्तदयाकृज्जीवसंज्ञितः । आदितेयो भक्तिपरो भक्ताधीनोऽद्वयाद्वयः ॥ ८७॥ भक्तापराधशमनो द्वयाद्वयविवर्जितः । सस्यं विराटः शरणं शरण्यं गणराड्गणः ॥ ८८॥ मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रस्वरूपवान् । इति दोषहरः श्रेयान् भक्तचिन्तामणिः शुभः ॥ ८९॥ उझ्झितामङ्गलो धर्म्यो मङ्गलायतनं कविः । अनर्थज्ञोर्थदः श्रेष्ठः श्रौतधर्मप्रवर्तकः ॥ ९०॥ मन्त्रबीजं मन्त्रराजो बीजमन्त्रशरीरवान् । शब्दजालविवेकज्ञः शरसन्धानकृत्कृती ॥ ९१॥ कालकालः क्रियातीतस्तर्कातीतः सुतर्ककृत् । समस्ततत्त्ववित्तत्त्वं कालज्ञः कलितासुरः ॥ ९२॥ अधीरधैर्यकृत्कालो वीणानादमनोरथः । हिरण्यरेता आदित्यस्तुराषाद्शारदागुरुः ॥ ९३॥ पूर्वः कालकलातीतः प्रपञ्चकलनापरः । प्रपञ्चकलनाग्रस्त सत्यसन्धः शिवापतिः ॥ ९४॥ मन्त्रयन्त्राधिपोमन्त्रो मन्त्री मन्त्रार्थविग्रहः । नारायणो विधिः शास्ता सर्वालक्षणनाशनः ॥ ९५॥ प्रधानं प्रकृतिः सूक्ष्मोलघुर्विकटविग्रहः । कठिनः करुणानम्रः करुणामितविग्रहः ॥ ९६॥ आकारवान्निराकारः काराबन्धविमोचनः । दीननाथः सुरक्षाकृत्सुनिर्णीतविधिङ्करः ॥ ९७॥ महाभाग्योदधिर्वैद्यः करुणोपात्तविग्रहः । नगवासी गणाधारो भक्तसाम्राज्यदायकः ॥ ९८॥ सार्वभौमो निराधारः सदसद्व्यक्तिकारणम् । वेदविद्वेदकृद्वैद्यः सविता चतुराननः ॥ ९९॥ हिरण्यगर्भस्त्रितनुर्विश्वसाक्षीविभावसुः । सकलोपनिषद्गम्यः सकलोपनिषद्गतिः ॥ १००॥ विश्वपाद्विश्वतश्चक्षुर्विश्वतो बाहुरच्युतः । विश्वतोमुख आधारस्त्रिपाद्दिक्पतिरव्ययः ॥ १०१॥ व्यासो व्यासगुरुः सिद्धिः सिद्धिद सिद्धिनायकः । जगदात्मा जगत्प्राणो जगन्मित्रो जगत्प्रियः ॥ १०२॥ देवभूर्वेदभूर्विश्वं सर्गस्थित्यन्तखेलकृत् । सिद्धचारणगन्धर्वयक्षविद्याधरार्चितः ॥ १०३॥ नीलकण्ठो हलधरो गदापाणिर्निरङ्कुशः । सहस्राक्षो नगोद्धारः सुरानीक जयावहः ॥ १०४॥ चतुर्वर्गः कृष्णवर्त्मा कालनूपुरतोडरः । ऊर्ध्वरेता वाक्पतीशो नारदादिमुनिस्तुतः ॥ १०५॥ चिदानन्दचतुर्यज्ञस्तपस्वी करुणार्णवः । चिदानन्दत्तनु पञ्चाग्निर्यागसंस्थाकृदनन्तगुणनामभृत् ॥ १०६॥ त्रिवर्गसूदितारातिः सुररत्नन्त्रयीतनुः । यायजूकश्चिरञ्जीवी नररत्नं सहस्रपात् ॥ १०७॥ भालचन्द्रश्चितावासः सूर्यमण्डलमध्यगः । चिरावासः अनन्तशीर्षा त्रेताग्निःप्रसन्नेषुनिषेवितः ॥ १०८॥ सच्चित्तपद्ममार्तण्डो निरातङ्कः परायणः । पुराभवो निर्विकारः पूर्णार्थः पुण्यभैरवः ॥ १०९॥ निराश्रयः शमीगर्भो नरनारायणात्मकः । वेदाध्ययनसन्तुष्टश्चितारामो नरोत्तमः ॥ ११०॥ अपारधिषणः सेव्यस्त्रिवृत्तिर्गुणसागरः । निर्विकारः क्रियाधारः सुरमित्रं सुरेष्टकृत् ॥ १११॥ आखुवाहश्चिदानन्दः सकलप्रपितामहः । मनोभीष्टस्तपोनिष्ठो मणिमल्लविमर्दनः ॥ ११२॥ उदयाचल अश्वत्थो अवग्रहनिवारणः । श्रोता वक्ता शिष्टपालः स्वस्तिदः सलिलाधिपः ॥ ११३॥ वर्णाश्रमविशेषज्ञः पर्जन्य सकलार्तिभित् । सकलार्तिजित् विश्वेश्वरस्तपोयुक्तः कलिदोषविमोचनः ॥ ११४॥ वर्णवान्वर्णरहितो वामाचारनिषेधकृत् । सर्ववेदान्ततात्पर्यस्तपःसिद्धिप्रदायकः ॥ ११५॥ विश्वसंहाररसिको जपयज्ञादिलोकदः । नाहंवादी सुराध्यक्षो नैषचूर्णः सुशोभितः ॥ ११६॥ अहोराजस्तमोनाशोविधिवक्त्रहरोन्नदः । जनस्तपो महः सत्यंभूर्भुवःस्वःस्वरूपवान् ॥ ११७॥ मैनाकत्राणकरणः सुमूर्धा भृकुटीचरः । वैखानसपतिर्वैश्यश्चक्षुरादिप्रयोजकः ॥ ११८॥ दत्तात्रेयः समाधिस्थोनवनागस्वरूपवान् । जन्ममृत्युजराहीनो दैत्यभेत्तेतिहासवित् ॥ ११९॥ वर्णातीतो वर्तमानः प्रज्ञादस्तापितासुरः । चण्डहासः करालास्यः कल्पातीतश्चिताधिपः ॥ १२०॥ सर्गकृत्स्थितिकृद्धर्ता अक्षरस्त्रिगुणप्रियः । द्वादशात्मा गुणातीतस्त्रिगुणस्त्रिजगत्पतिः ॥ १२१॥ ज्वलनो वरुणो विन्ध्यः शमनो निरृतिः पृथुः । कृशानुरेता दैत्यारिस्तीर्थरूपो कुलाचलः ॥ १२२॥ देशकालापरिच्छेद्यो विश्वग्रासविलासकृत् । जठरो विश्वसंहर्ता विश्वादिगणनायकः ॥ १२३॥ श्रुतिज्ञो ब्रह्मजिज्ञासुराहारपरिणामकृत् । आत्मज्ञानपरः स्वान्तोऽव्यक्तोऽव्यक्तविभागवान् ॥ १२४॥ समाधिगुरुरव्यक्तोभक्ताज्ञाननिवारणः । कृतवर्णसमाचारः परिव्राडधिपो गृही ॥ १२५॥ महाकालः खगपतिवर्णावर्णविभागकृत् । कृतान्तः कीलितेन्द्रारिः क्षणकाष्ठादिरूपवान् ॥ १२६॥ विश्वजित्तत्त्वजिज्ञासुर्ब्राह्मणो ब्रह्मचर्यवान् । सर्ववर्णाश्रमपरो वर्णाश्रमबहिस्थितिः ॥ १२७॥ दैत्यारिर्ब्रह्मजिज्ञासुर्वर्णाश्रमनिषेवितः । ब्रह्माण्डोदरभृत्क्षेत्रं स्वरवर्णस्वरूपकः ॥ १२८॥ वेदान्तवचनातीतो वर्णाश्रमपरायणः । दृग्दृश्योभयरूपैकोमेनापतिसमर्चितः ॥ १२९॥ सत्त्वस्थः सकलद्रष्टा कृतवर्णाश्रमस्थितः । वर्णाश्रमपरित्राता सखा शूद्रादिवर्णवान् ॥ १३०॥ वसुधोद्धारकरणः कालोपाधिः सदागतिः । दैतेयसूदनोतीतस्मृतिज्ञो वडवानलः ॥ १३१॥ समुद्रमथनाचार्यो वनस्थोयज्ञदैवतम् । दृष्टादृष्टक्रियातीतो हेमाद्रिर्हरिचन्दनः ॥ १३२॥ निषिद्धनास्तिकमतिर्यज्ञभुक्पारिजातकः । सहस्रभुजहाशान्तः पापारिक्षीरसागरः ॥ १३३॥ राजाधिराजसन्तानः कल्पवृक्षस्तनूनपात् । धन्वन्तरिर्वेदवक्ता चिताभस्माङ्गरागवान् ॥ १३४॥ काशीश्वरः श्रोणिभद्रो बाणासुरवरप्रदः । रजस्थः खण्ढिताधर्म आभिचारनिवारणः ॥ १३५॥ मन्दरो यागफलदस्तमस्थो दमवान्शमी । वर्णाश्रमाः नन्दपरो दृष्टादृष्टफलप्रदः ॥ १३६॥ कपिलस्त्रिगुणानन्दः सहस्रफणसेवितः । कुबेरो हिमवाञ्छत्रं त्रयीधर्मप्रवर्तकः । आदितेयो यज्ञफलं शक्तित्रयपरायणः । दुर्वासाः पितृलोकेशोवीरसिंहपुराणवित् ॥ १३८॥ अग्निमीळेस्फुरन्मूर्तिः सान्तर्ज्योतिः स्वरूपकः । सकलोपनिषत्कर्ता खांबरो ऋणमोचकः ॥ १३९॥ तत्त्वज्योतिः सहस्रांशुरिषेत्वोर्जलसत्तनुः । योगज्ञानमहाराजः सर्ववेदान्तकारणम् ॥ १४०॥ योगज्ञानसदानन्दः अग्नआयाहिरूपवान् । ज्योतिरिन्द्रियसंवेद्यः स्वाधिष्ठानविजृम्भकः ॥ १४१॥ अखण्डब्रह्मखण्डश्रीः शन्नोदेवीस्वरूपवान् । योगज्ञानमहाबोधो रहस्यं क्षेत्रगोपकः ॥ १४२॥ भ्रूमध्यवेक्ष्यो गरली योगज्ञान सदाशिवः । चण्डाचण्डबृहद्भानुनर्यनस्त्वरितापतिः ॥ १४३॥ ज्ञानमहायोगी तत्त्वज्योतिः सुधारकः । फणिबद्धजटाजूटो बिन्दुनादकलात्मकः ॥ १४४॥ योगज्ञानमहासेनो लम्बिकोर्म्यभिषिञ्चितः । अन्तर्ज्योतिर्मूलदेवोऽनाहतः सुषुमाश्रयः ॥ १४५॥ भूतान्तविद्ब्रह्मभूतिर्योगज्ञानमहेश्वरः । शुक्लज्योतिः स्वरूपः श्रीयोगज्ञानमहार्णवः ॥ १४६॥ पूर्णविज्ञानभरितः सत्त्वविद्यावबोधकः । योगज्ञानमहादेवश्चन्द्रिकाद्रवसुद्रवः ॥ १४७॥ स्वभावयन्त्रसञ्चारः सहस्रदलमध्यगः ॥ १४८॥ ईश्वर उवाच । सहस्रनाममल्लारेरिदं दिव्यं प्रकाशितम् । लोकानां कृपया देविप्रीत्या तव वरानने ॥ १४९॥ य इदं पठते नित्यं पाठयेच्छृणुयादपि । भक्तितो वा प्रसङ्गाद्वा सकलं भद्रमश्नुते ॥ १५०॥ पुस्तकं लिखितं गेहे पूजितं यत्र तिष्ठति । तत्र सर्वसमृद्धीनामधिष्ठानं न संशयः ॥ १५१॥ सुतार्थी धनदारार्थीविद्यार्थी व्याधिनाशकृत् । यशोर्थी विजयार्थीच त्रिवारं प्रत्यहं पठेत् ॥ १५२॥ महापापोपपापानां प्रायश्चित्तार्थमादरात् । प्रातस्नायी पठेदेतत् षण्मासात् सिद्धिमाप्नुयात् ॥ १५३॥ रहस्यानां च पापानां पठनादेव नाशनम् । सर्वारिष्टप्रशमनं दुःस्वप्नफलशान्तिदम् ॥ १५४॥ सूतिकाबालसौख्यार्थी सूतिकायतने पठेत् । सुसूतिं लभते नित्यं गर्भिणी श‍ृणुयादपि ॥ १५५॥ याचनारीपतद्गर्भादृढगर्भाभवेत्ध्रुवम् । सुतासुतपरीवारमण्डिता मोदते चिरम् ॥ १५६॥ आयुष्यसन्ततिं नूनं याभवेन्मृतवत्सका । वन्ध्यापि लभते भीष्टसन्ततिं नात्र संशयः ॥ १५७॥ भर्तुः प्रियत्वमाप्नोति सौभाग्यं च सुरूपताम् । नसपत्नीमपिलभेद्वैधव्यं नाप्नुयात्क्वचित् ॥ १५८॥ लभेत्प्रीतिमुदासीना पतिशुश्रूषणेरता । सर्वाधिकं वरं कन्याविरहं न कदाचन ॥ १५९॥ जातिस्मरत्वमाप्नोति पठनाच्छ्रवणादपि । स्खलद्गीः सरलांवाणीं कवित्वं कविताप्रियः ॥ १६०॥ प्रज्ञातिशयमाप्नोति पठतां ग्रन्थधारणे । निर्विघ्नं सिद्धिमाप्नोति यः पठेद्ब्रह्मचर्यवान् ॥ १६१॥ सर्वरक्षाकरं श्रेष्ठं दुष्टग्रहनिवारणम् । सर्वोत्पातप्रशमनं बालग्रहविनाशनम् ॥ १६२॥ कुष्ठापस्माररोगादिहरणं पुण्यवर्धनम् । आयुर्वृद्धिकरं चैव पुष्टिदं तोषवर्धनम् ॥ १६३॥ विषमे पथि चोरादिसङ्घाते कलहागमे । रिपूणां सन्निधाने च संयमे न पठेदिदम् ॥ १६४॥ मनः क्षोभविषादे च हर्षोत्कर्षे तथैवच । इष्टारम्भसमाप्तो च पठितव्य प्रयत्नतः ॥ १६५॥ समुद्रतरणे पोतलञ्घने गिरिरोहणे । कर्षणे गजसिंहाद्यैः सावधाने पठेदिदम् ॥ १६६॥ अवर्षणे महोत्पाते दुरत्ययभवेत्तथा । शतवारं पठेदेतत्सर्वदुष्टोपशान्तये ॥ १६७॥ शनिवारेर्कवारे च षष्ठ्यां च नियतः पठेत् । मल्लारिं पूजयेद्विप्रान्भोजयेद्भक्तिपूर्वकम् ॥ १६८॥ उपवासोथवा नक्तमेकभक्तमयाचितम् । यथाशक्ति प्रकुर्वीत जपेत्सम्पूजयेद्धुनेत् ॥ १६९॥ अग्रवृद्ध्या पठेदेतद्धोमपूजा तथैव च । भोजयेदग्रवृद्धानांब्राह्मणाश्च सुवासिनीः ॥ १७०॥ नानाजातिभवान्भक्तान्भोजयेदनिवारितम् । नानापरिमलैर्द्गव्यैः पल्लवैः कुसुमैरपि ॥ १७१॥ दमनोशीरपाक्यादितत्तत्कालोद्भवैः शुभैः । नैशभाण्डारचूर्णेन नानारञ्जिततन्दुलैः ॥ १७२॥ पूजयेन्म्हालसायुक्तं मल्लारिं देवभूषितम् । मल्लारिपूजनं होमः स्वभूषाभक्तपूजनम् ॥ १७३॥ प्रीतिदानोपयाञ्चादि नैशचूर्णेन सिद्धिदम् । यथाश्रमं यथाकालं यथाकुलचिकीर्षितम् ॥ १७४॥ नैवेद्यं पूजनं होमं कुर्यात्सर्वार्थसिद्धये । शुभं भाजनमादाय भक्त्या भोमण्डितः स्वयम् ॥ १७५॥ यथावर्णकुलाचारं प्रसादं याचयेन्मुहुः । मल्लारिक्षेत्रमुद्दिश्य यात्रां क्वापि प्रकल्पयेत् ॥ १७६॥ वित्तव्ययश्रमो नात्र मैरालस्तेन सिद्धिदः । मार्गशीर्षे विशेषेण प्रतिपत्षष्ठिकान्तरे ॥ १७७॥ पूजाद्यनुष्ठितं शक्त्या तदक्षयमसंशयम् । यद्यत्पूजादिकं भक्त्या सर्वकालमनुष्ठितम् ॥ १७८॥ अनन्तफलदं तत्स्यान्मार्गशीर्षे सकृत्कृतम् । धनधान्यादिधेन्वादि दासदासीगृहादिकम् ॥ १७९॥ मल्लारिप्रीतये देयं विशेषान्मार्गशीर्षके । चम्पाषष्ठ्यां स्कन्दषष्ठ्यां तथा सर्वेषु पर्वसु ॥ १८०॥ चैत्रश्रावणपौषेषु प्रीतो मल्लारिरर्चितः । यद्यत्प्रियतमं यस्य लोकस्य सुखकारणम् ॥ १८१॥ वित्तशाठ्यं परित्यज्य मल्लारिप्रीतये पठेत् । प्रसङ्गाद्वापि बाल्याद्वा कापट्याद्दम्भतोपि वा ॥ १८२॥ यः पठेच्छ्रुणुयाद्वापि सर्वान्कामानवाप्नुयात् । अतिवश्यो भवेद्राजा लभते कामिनीगणम् ॥ १८३॥ यदसाध्यं भवेल्लोके तत्सर्वं वशमानयेत् । शस्त्राण्युत्पलसाराणि भवेद्वह्नि सुशीतलः ॥ १८४॥ मित्रवद्वैरिवर्गः स्याद्विषं स्यात्पुष्टिवर्धनम् । अन्धोपिलभते दृष्टिं बधिरोपि श्रुती लभेत् ॥ १८५॥ मूकोपि सरलां वाणीं पठन्वापाठयन्नपि । धर्ममर्थं च कामं च बहुधा कल्पितं मुदा ॥ १८६॥ पठन्श‍ृण्वन्नवाप्नोति पाठं यो मतिमानवः । ऐहिकं सकलं भुक्त्वा शेषे स्वर्गमवाप्नुयात् ॥ १८७॥ मुमुक्षुर्लभते मोक्षं पठन्निदमनुत्तमम् । सर्वकर्तुः फलं तस्य सर्वतीर्थफलं तथा ॥ १८८॥ सर्वदानफलं तस्य मल्लारिर्येन पूजितः । मल्लारिरिति नामैकं पुरुषार्थप्रदं ध्रुवम् ॥ १८९॥ सहस्रनामविद्यायाः कः फलं वेत्तितत्त्वतः । वेदास्याध्ययने पुण्यं योगाभ्यासेऽपि यत्फलम् ॥ १९०॥ सकलं समवाप्नोति मल्लारिभजनात्प्रिये । तव प्रीत्यै मयाख्यातं लोकोपकृतकारणात् ॥ १९१॥ सहस्रनाममल्लारेः किमन्यच्छ्रोतुमिच्छसि । गुह्याद्गुह्यं परं पुण्यं न देयं भक्तिवर्जिते ॥ १९२॥ इति श्रीपद्मपुराणे शिवोपाख्याने मल्लारिप्रस्तावे शिवपार्वतीसंवादे शिवप्रोक्तं मल्लारिसहस्रनामस्तोत्रं सम्पूर्णम् । श्रीसाम्बसदाशिवार्पणमस्तु ॥ ॥ शुभंभवतु ॥ मल्हारी सहस्त्रनामस्तोत्रम् The stotra is not found in the Padmapurana text. The colophon is retained as was found in the handwritten manuscript.