अक्षर आकार:

श्रीमल्हारि म्हाळसाकान्तप्रातःस्मरणम्

Shri Malhari Mhalasakanta Pratahsmaranam

श्रीमल्हारि म्हाळसाकान्तप्रातःस्मरणम्

प्रातःस्मरामि भावभीतिहरं सुरेशं मल्हारिमिन्द्रकमलाननविश्ववन्द्यम् । श्रीम्हाळसावदनशोभितवामभागं मल्हारिदेवमनघं पुरुषं वसन्तम् ॥ १॥ प्रातर्भजामि मणिमल्लजरुण्डमालं माणिक्यदीप्तिशरदोज्ज्वलदन्तपङ्क्तिम् । रत्नैर्महामुकुटमण्डितमष्टमूर्तिं सन्तप्तहेमनिभगौरशरीरपुष्टम् ॥ २॥ प्रातर्नमामि फणिकज्जलमुक्तदीपं चन्द्रार्ककुण्डलसुशोभितकर्णयुग्मम् । सत्पात्रखड्गडमरू च त्रिशूलहस्तं खण्डेन्दुशेखरनिभं शशिसूर्यनेत्रम् ॥ ३॥ इदं पुण्यमयं स्तोत्रं मल्हारेर्यः पठेन्नरः । प्रातः प्रातः समुत्थाय सर्वत्र विजयी भवेत् ॥ ४॥ ॥ इति श्रीमल्हारि म्हाळसाकान्त प्रातःस्मरणम् ॥