महामृत्युञ्जयकवचम् २
श्रिदेव्युवाच भगवन् सर्वधर्मज्ञ सृष्टिस्थितिलयात्मक ॥ मृत्युञ्जयस्य देवस्य कवचं में प्रकाशय ॥ श्री ईश्वर उवाच शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । मार्कण्डेयोऽपि यद्धृत्वा चिरञ्जीवी व्यजायत ॥ तथैव सर्वदिक्पाला अमरात्वमवाप्नुयुः । कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतन् ॥ मृत्यञ्जयः समुद्दिष्टो देवता पार्वतीपतिः । देहारोग्यदलायुष्ट्वे विनियोगः प्रकीर्तितः । ओं त्रयम्बकं मे शिरः पातु ललाटं मे यजामहे । सुगन्धिं पातु हृदयं जठरं पुष्टिवर्धनम् ॥ नाभिमुर्वारुकमिव पातु मां पार्वतीपतिः । वन्धनादूरुयुग्मं मे पातु वामाङ्गशासनः ॥ मृत्योर्जानुयुगं पातु दक्षयज्ञविनाशनः । जङ्घायुग्मं च मुक्षीय पातु मां चन्द्रशेखरः ॥ मामृताच्च पदद्वन्द्वं पातु सर्वेश्वरो हरः । प्रसौ मे श्रीशिवः पातु नीलकण्ठश्च पार्श्वयोः ॥ ऊर्ध्वमेव सदा पातु सोमसूर्याग्निलोचनः । अधः पातु सदा शम्भुः सर्वापद्विनिवारणः ॥ वारुण्यामर्धनारीशो वायव्यां पातु शङ्करः । कपर्दी पातु कौबेर्यामैशान्यामीश्वरोऽवतु ॥ ईशानः सलिले पायदघोरः पातु कानने । अन्तरिक्षे वामदेवः पायात्तत्पुरुषो भुवि ॥ श्रीकण्ठः शयने पातु भोजने नीललोहितः । गमने त्र्यम्बकः पातु सर्वकार्येषु भुपतिः । सर्वत्र सर्वदेहं मे सदा मृत्युञ्जयोऽवतु । इति ते कथितं दिव्यं कवचं सर्वकामदम् ॥ सर्वरक्षाकरं सर्वग्रहपीडा-निवारणम् । दुःस्वप्ननाशनं पुण्यमायुरारोग्यदायकम् ॥ त्रिसन्ध्यं यः पठेदेतन्मृत्युस्तस्य न विद्यते । लिखितं भूर्जपत्रे तु य इदं मे व्यधारयेत् ॥ तं दृष्ट्वैव पलायन्ते भूतप्रेतपिशाचकाः । डाकिन्यशचैव योगिन्यः सिद्धगन्धर्वराक्षसाः ॥ बालग्रहादिदोषा हि नश्यन्ति तस्य दर्शनात् । उपग्रहाश्चैव मारीभयं चौराभिचारिणः ॥ इदं कवचमायुष्यं कथितं तव सुन्दरि । न दातव्यं प्रयत्नेन न प्रकाश्यं कदाचन ॥From Dainik Prarthana printed pages 75-76 https://archive.org/details/HindiBook-danikPrarthnastrotaKavach