अक्षर आकार:

श्रीमहाकालसहस्रनामस्तोत्रम् २

Shri Mahakala Sahasranama Stotram 2

श्रीमहाकालसहस्रनामस्तोत्रम् २

ॐ श्रीगणेशाय नमः । श्रीः । ॐ नमश्चण्डिकायै । अथ महाकालसहस्रनाम लिख्यतेऽधुना । ॐ ईश्वर उवाच - अधुना देवि वक्ष्यामि सहस्रनाममुत्तमम् । महाकालस्य देवेशि स्तोत्रं परमदुर्लभम् ॥ १॥ सारासारतरं देवि पवित्राणां च पावनम् । गुह्यानामपि गुप्तं च सर्वश्रेयस्करं परम् ॥ २॥ सारस्वतप्रदं चैव शत्रुनाशकरं परम् । सर्वसम्पत्प्रदं चैव महारोगनिबर्हणम् । महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥ अस्य श्रीमहाकालसहस्रनामस्तोत्रमहामन्त्रस्य दक्षिणाक ऋषिः । विराट्छन्दः । श्रीकाळीसहितो महाकालो देवता । ह्रीं बीजं, ड्रीं शक्तिः, स्वाहा कीलकं, धर्मार्थकाममोक्षार्थे जपे पाठे विनियोगः । अथ ध्यानम् । श्मशानस्थो महारुद्रो महाकालो दिगम्बरः । कपालकर्त्तृका वामे शूलं खट्वाङ्गदक्षिणे ॥ १॥ भुजङ्गभूषिताङ्गोऽपि भस्मास्थिमणिमण्डितः । ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ २॥ विपरीतरतां तत्र कालिकां हृदयोपरि । पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ॥ ३॥ एवं भक्त्या जपेद्देवि सर्वसिद्धिः प्रजायते । इति ध्यानम् । ॐ महाकालो भैरवेशो भैरवो भीमविक्रमः । श्मशानशायी मांसाशी भस्मोद्धूलितविग्रहः ॥ १॥ कपालधारी मुण्डेशी शूलधारी त्रिलोचनः । एकनेत्रो विरूपाक्षो स्वरूपाक्षो जितेन्द्रियः ॥ २॥ विकरालः कालरूपो नागरूपधरो शिवः । कालीप्रियो करालाक्षो विश्वरूपश्च शत्रुजित् ॥ ३॥ रुद्रेश्वरो विघ्ननाशो भयनाशः प्रभाकरः । त्रिलोकेशो दक्षरूपो शान्तो शान्तजनप्रियः ॥ ४॥ उग्रः कपाली कौमारी शत्रुनाशकरो मृडः । शिपिविष्टो विश्वनथो स्वामीशो नीललोहितः ॥ ५॥ गङ्गाधरो ललटाक्षः कालकालः कृपानिधिः । भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ६॥ मृडो पशुपतिर्देवो महादेवोऽव्ययो हरिः । पुष्पदन्तो भिदव्यग्रो दक्षाध्वरहरो हरः ॥ ७॥ भगनेत्रभिदव्यक्षः सहस्राक्षः सहस्रपात् । अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ ८॥ वमदेवो महदेवः महापरिवृढो दृढः । विश्वरूपो विरूपाक्षो वागीशस्तुतिमन्थरः ॥ ९॥ दर्शः पिनाकी खट्वाङ्गी चित्रवेशश्चिरन्तनः । मनोहरो महत्यागी शिरो बृह्मोङ्ग?धूर्जटिः ॥ १०॥ कालकालः कृत्तिवासाः सुभगो प्राणवात्मनः? । नागचूडो सुचक्षुषो दुर्वासाः स्मरशासनः ॥ ११॥ दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः । त्रिलोचनो ज्वलन्नेत्रो त्रिशिखी च त्रिलोकपात् ॥ १२॥ विशलाक्षो मृगीन्द्रास्यः सुरथः सूर्यतापनः । धर्मधाम क्षमाक्षेत्रो भगवान् भगहा तथा ॥ १३॥ उग्रः पशुपतिस्तार्क्ष्यः प्रियभर्ता प्रियम्वदः । दाता दयाकरो दक्षः कपर्दी काममर्दनः ॥ १४॥ लोककर्ता भूतपतिः महाकर्मा महोषधिः । उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ १५॥ नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुधीः । सोमपोऽमृतपसौम्यो मोहहारी महाद्युतिः ॥ १६॥ लोककारो वेदकारः सूत्रकारः सनातनः । महर्षिः कपिलाचार्यः विश्वदीप्तिर्विलोचनः ॥ १७॥ पिनाकपाणिर्भूदेवः स्वस्तिकृत्स्वस्तिदायकः । धात्री दामकरः सर्वः सर्वज्ञः सर्वगोचरः ॥ १८॥ शाखो विशाखो गोशाखःः शिवानेकः क्रतूत्तमः । गङ्गोद्भवोदको भव्यः पुष्कलः स्थपतिप्रियः ॥ १९॥ विजितात्मा विधेयात्मा भूतभावनसरथिः ॥ २०॥ भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः । क्षमायुक्तो निर्वृतात्मा धर्मयुक्तः सदाशिवः ॥ २१॥ चतुर्मुखश्चतुर्बाहुः सर्वावासो दुरासदः । दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥ २२॥ शुभाङ्गो योगसारङ्गो जगदीशो जनार्दनः । भस्मशुद्धिकरो मेरुरोलम्बी? शुद्धविग्रहः ॥ २३॥ हिरण्यरेतास्तरणिर्भस्माङ्गो भस्मरूपधृक् । महाहृदो महागर्त्तः सिद्धवृन्दारवन्दितः ॥ २४॥ अमृतेशोऽमृतवपुः दण्डो दमयिता दमः । तपस्वी तारको धीमान् प्रधानप्रभवोऽव्ययः ॥ २५॥ राहुः सुर्यः शनिः केतुः विरामो विद्रुमः छविः । भक्तिगम्यः परम्ब्रह्म परमात्मा जगत्प्रभुः ॥ २६॥ सर्वकामावलम्बश्च मङ्गल्यो मङ्गलावृतः । महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ॥ २७॥ अहः संवत्सरो व्याप्तिः प्रणामः परमस्तपः । संवत्सकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥ २८॥ अजः सर्वेश्वरस्सिद्धो महारेता महाबलः । योगयोग्यो महादेवः सर्वादिसिद्धिरग्निदः ॥ २९॥ वसुर्वसुमनास्सत्यः सर्वपापहरो मृडः । अमृतश्शाश्वतश्शान्तो वीणाहस्तः प्रतापवान् ॥ ३०॥ कमण्डलुधरो दर्वी वेदाङ्गो वेदविन्मुनिः । भ्राजिष्णुर्भोजनं भोक्ता लोकनेत्रः पुरन्दरः ॥ ३१॥ अतीन्द्रियो महामयः सर्वावस्थाश्चतुष्पथः । कालयोगी महायोगी महोत्साहो महावलः ॥ ३२॥ महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः । निशाचरः प्रेतचारी भूतपो योगिनीपतिः ॥ ३३॥ दैत्यप्रियो नृत्तचित्तः दैत्यानाशकरो परः । दुर्लभो दुर्जयशशत्रुबलजिद्बलवत्सखः ॥ ३४॥ प्रेजश्वरः कलानाथो शेषशायी विलोचनः । उन्मत्तनेत्रः कपिलो धूसरो धूम्रलोचनः ॥ ३५॥ रक्तप्रियो रक्तनेत्रः वक्रतुण्डपिता वशी । भूतेशो भूतनाथश्च भूतभैरवपालकः ॥ ३६॥ प्रेतालयः प्रेतभूमिपालको रक्षकप्रियः । रावस्थो? वा चितास्थो वा चिताधूम्रप्रपालकः ॥ ३७॥ यक्षेशो यक्षराट् गुह्यो यक्षभैरवसेवितः । यज्ञकर्ता च यज्ञेशो यज्ञसुन्दरपालकः ॥ ३८॥ देवदत्तस्वरूपात्मा देवानां प्रियकारकः । भूतेश्वरो भूतदेहो भूतनाथसुखाश्रयः ॥ ३९॥ आकाशगामी भ्राजिष्णुर्देवो मानुषभक्षकः । इष्टो विशिष्टः शिष्टेष्टः शरभः शलभो धनुः ॥ ४०॥ अपां निधिरधिष्ठानो विजयो जयकालवित् । प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४१॥ विमोचितासुरगणः विद्येशो विद्युताश्रितः । बलरूपो बलोन्माथी विहितं गुहरो? गुहः ॥ ४२॥ करणं कारणं कर्ता सर्वबन्धविमोचितः । व्यवसायो व्यवस्थानः स्वानन्दो जगदादृतः ॥ ४३॥ दुर्लभो ललितो विश्वो भावात्माऽऽत्मनि संस्थितः । वीरेश्वरो वीरभद्रः वीरासनविधिर्विराट् ॥ ४४॥ वीरचूडामणिर्वेत्ता तीव्रानन्दो नटीश्वरः । मज्जाधरः त्रिशूलाङ्कः शिपिविष्टः शिवाश्रयः ॥ ४५॥ वालखिल्यो माहश्चर्यो तिग्मांशुर्बलिभित्खगः । अभिरामश्शरण्यश्च ब्रह्मण्यश्च सुधामराट् ॥ ४६॥ मघवा कौशिको धीमान्विरामः सर्वशासनः । ललाटाक्षः पिङ्गदेहः सर्वसंसारचक्रभृत् ॥ ४७॥ अमोघदण्डमध्यस्थो हिरण्यब्रह्मवर्चसी । परमार्थः परपदः शम्भरो व्यग्रको? परः ॥ ४८॥ रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो यमः । भक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ ४९॥ कैलसपतिकावर्णः सविता रविलोचनः । सूर्यः तपः शशीनाथो दिननाथः प्रतापवान् ॥ ५०॥ भीषणो भारक्रान्तश्च महोग्रो विश्वरूपधृक् । अक्रूरः क्रूररूपश्व कमनीयः कलानिधिः ॥ ५१॥ नित्यं नियतकल्याणः पुण्यश्रवणकीर्त्तनः । दुरामेध्यो? विश्वसहो ध्येयो दुस्स्वप्ननाशनः ॥ ५२॥ उत्तारको दुष्कृतहा दुर्विषो विहरोदयः? । मतादिभूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ॥ ५३॥ विश्वगोप्ता विश्वकर्ता सुवीरो रुचिराङ्गदः । पद्ममेरुः पद्मगर्भः विश्वगर्भो विचक्षणः ॥ ५४॥ परावरज्ञो वीरेशः सुमुखः सुमुखास्वतः? । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ ५५॥ देवादिदेवो देवेशो देवासुरमहेश्वरः । सर्वदेवमयोऽचिन्त्यो देवतान्तस्समुद्भवः ॥ ५६॥ ईड्योऽनीशः सुव्यग्रो देवसिंहो दयाकरः । नन्दी नन्दीश्वरो नग्नो नम्रो व्रतधरश्शुचिः ॥ ५७॥ लिङ्गाध्यक्षः सुराध्यक्षो युगरूपो युगावहः । स्ववशः स्वर्गतास्वर्यः सारस्वतमहास्वतः ॥ ५८॥ सर्वभूतमहाम्भोधः? सर्वभूतमहेश्वरः । श्मशाननिलयस्त्वष्टा केतुरप्रतिमाकृतिः ॥ ५९॥ लोकोत्तरः स्फुटालोकस्त्र्यम्बको नगभूषणः । अन्धकारसुखद्वेष्टिर्विश्मुको?ऽधर्मपातनः ॥ ६०॥ वीतदोषः त्रयगुणैर्दक्षारिपूतदन्तभिद् । धूर्जटिः खण्डपरशुः रागाङ्गो विमृडो नरः ॥ ६१॥ पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः । बान्धवो बन्धुकर्मा च स्वबन्धनविमोचकः ॥ ६२॥ स यज्ञारिः स कामारिः महादंष्ट्रः स सायुधः । बहु?स्त्वनिन्दितः शर्वः शङ्करश्शम्बरो धरः ॥ ६३॥ अमरेशो महादेवो विश्वरूपः सुरारिहा । निवृत्तिश्चाहिर्बुध्न्यश्चेकितानो हरिस्तथा ॥ ६४॥ प्रजैकपार्श्वः कापाली त्रिरङ्कुरं जिताशिषः । धन्वन्तरिर्धूम्रकेतुः स्कन्दो वैश्रवणस्तथा ॥ ६५॥ दाता शक्तश्व विष्णुश्च मित्रस्त्वष्टा ध्रुवो वसुः । प्रभोग्रः? सर्वगो वयुरनामसहितो रविः ॥ ६६॥ उदयश्च विधाता च मान्धाता भूतभावनः । अतितीक्ष्णश्च वागीशः सर्वकामगुणावहः ॥ ६७॥ पद्मवक्त्रो महाचक्त्रः चन्द्रवक्त्रो मनोरमः । वलवान् चैव शान्तश्च पुराणः पुण्यचञ्चुरी ॥ ६८॥ कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः । सर्वेशानो दर्भशायी सर्वेषां प्राणिनां पतिः ॥ ६९॥ देवदेवमुखासक्तः सदसत्सर्वरत्नजित् । कैलासशिखरारूठः हिमवद्गिरिसंश्रयः ॥ ७०॥ कुलाहरी? कुलोकर्ता? बहुबीजो बहुप्रदः । वाणिज्यवर्धनो वृद्धो नकुलश्च दरच्छदः ॥ ७१॥ सारग्रीवो महाराजरलोलश्च? महौषधः । सिद्धार्थकारी सिद्धार्थः छन्दो व्याकरणस्तथा ॥ ७२॥ सिंहनादः सिंहदंष्ट्रः सिंहगस्सिंहवाहनः । प्रभावात्मा जगत्कर्ता ताली लोकहितस्तरुः ॥ ७३॥ सारङ्गो नच?वक्त्राङ्गः केतुमली स्वभावनः । भूताशयो भूतपतिरहोरात्रिर्मुनिन्दितः? ॥ ७४॥ वासवस्सर्वभूतानां निलयश्च विभुर्भुवः । अमोघो सङ्गतो ज्याश्वो? योजना प्राणधारणः ॥ ७५॥ धृतिमान् धर्मधृक्दक्षः संस्कृतश्च युगाधिपः । गोपालो गोयुधि ग्राह्यो गोचर्मवसनो हरः ॥ ७६॥ हिरण्यबाहुश्च तथा गुरुपालप्रवेशितः । प्रतिष्ठा यो? महाहर्षो जितकामो जितेन्द्रियः ॥ ७७॥ गान्धारश्च सुरालश्च? तपःकर्मरतिर्वरः । महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ७८॥ महाकेतुर्धनुर्धाता नैकतालश्चराचरः । अवेदनीय आवेशः सर्वगन्धस्सुखावहः ॥ ७९॥ तोरणो स्थूरणो वायुः परिधावति? चैकतः । संयोगो वर्द्धनो वृद्धो महावृद्धो गणाधिपः ॥ ८०॥ वसुरावर्द्धनो वृद्धो नित्यश्रेष्ठो महापथः । शिरोहारी विमर्शी च सर्वलक्षणलक्षितः ॥ ८१॥ अक्षरा चाक्षरो योगी सर्वयोगी महाबलः । समाप्राया समाप्राय?तीर्थदेवो महाद्युतिः ॥ ८२॥ निर्जीवो जीवनो मन्दो निन्दो? वटुककर्कशः । रत्नप्रभूतो रत्नाङ्गो महार्णवनिनादभृत् ॥ ८३॥ मूलो विशाखो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः । आरोहणो निरोहश्च शैलहारी महातपाः ॥ ८४॥ मीनकल्पो महाकल्पो युगायुगहरो हरिः । युगरूपो महारूपः पवनो गहनो नगः ॥ ८५॥ न्यायनिर्वापणो पादपरितो? ह्यचलोपमः । बहुमालो महामलः सुमालो बहुलोचनः ॥ ८६॥ विस्तारो लवणसरः कुसुमो सफलोदयः । वृषभः वृषभो वाङ्गो मणिजिह्वो जटाधरः ॥ ८७॥ दण्डो विसर्गस्सुमुखः सदासर्वायुधासहः । निवेशनः सुधन्वा च युगाधारो महाहनुः ॥ ८८॥ गन्धमाली च भगवानुत्पातस्सर्वकर्मणाम् । मन्थानो बहुलो बाहुः सकलस्सर्वलोचनः ॥ ८९॥ नरस्ताली करस्ताली दुष्टसंहननो महान् । छन्नपत्रस्सुविख्यातः सर्वलोकाश्रयो भवान् ॥ ९०॥ मुण्डो विरूपबहुलो चण्डमुण्डो विकर्षणः । हर्यक्षः ककुभो यत्नो दीप्तजिह्वा सहस्रपात् ॥ ९१॥ सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः । सहस्रबाहुः सूर्याग्रः स्वाराण्यां? सर्वलोककृत् ॥ ९२॥ त्रिपत्रस्त्रिमधुर्मन्त्रः कनिष्ठा कृष्णपिङ्गलः । ब्रह्मदण्डविनिर्घाता शतघ्नी शतपाशभृत् ॥ ९३॥ पद्मगर्भो महागर्भो वज्रगर्भो जलोद्भवः । गभस्ती ब्रह्मकृद्ब्रह्मा ब्रह्मकृद्ग्राहिणो गतिः ॥ ९४॥ ऊर्द्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । अनन्तरूपो नैकात्मा तिग्मतेजाऽऽत्मसम्भवः ॥ ९५॥ पद्मजो पद्ममालाग्र्य त्वगन्योऽन्तरगोऽन्तगः । कर्णिकारमहास्त्रग्वी नीलनौमि? पिनाकधृक् ॥ ९६॥ सर्वपार्श्वमुखस्तार्क्ष्यो धर्मसाधारणो धरः । चराचरात्मा सूर्यात्मा स्ववृषो गोवृषेश्वरः ॥ ९७॥ साध्यो क्षोव?सुराध्यक्षो विवस्वान् सविता सृतः । न्यायसर्वस्य सम्क्षेपो विस्तारपरमोदयः ॥ ९८॥ कालीपतिरुमाकान्तो जाह्नवी त्रिदशां वरः । वरो वराहो वरदो वनेशश्च महास्वनः ॥ ९९॥ महाप्रसादस्त्वनघश्शत्रुहा श्वेतपिङ्गलः । प्रीतात्मा च प्रियतात्मा? संयतात्मा प्रधानधृक् ॥ १००॥ ऋतुस्संवत्सरो मासः पक्षस्संस्था ससायकः? । कलाकाष्ठा लवा मात्रा मुहूर्त्ता रक्षपक्षणः? ॥ १०१॥ विश्वक्षेत्रं प्रभा बीजलिङ्गमाद्यस्त्वनिर्मिताः? । सदसद्व्यक्तमव्यक्त्रं पिता माता पितामहः ॥ १०२॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् । निर्वाणं ह्लादनं चैव ब्रह्मलोकपरागतिः ॥ १०३॥ देवासुरविनिर्माता देवासुरपरयणः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ १०४॥ देवासुरमहामात्रो देवासुरमहाश्रयः । देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ॥ १०५॥ देवादिदेवो देवार्षेर्देवासुरसुपूजितः । देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ १०६॥ सर्वदेवमयोऽचिन्त्यो दैवतश्चात्मसम्भवः । उद्भवो विक्रमो वैद्यो विरजो विरजां वरः ॥ १०७॥ दग्रो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः । विबुधाग्रचरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ १०८॥ गुरुः कान्तोऽजितस्सर्गः पवित्रस्सर्ववाहनः । प्रयुक्तश्शोभनो वक्त्रो देवेशः प्रभुरव्ययः ॥ १०९॥ श‍ृङ्गो श‍ृङ्गप्रदो बभ्रुः राजराजो निरामयः । अविरामः सुरगणो विरामस्सर्वसाधनः ॥ ११०॥ ललाटाक्षो विश्वदेहो हरणी ब्रह्मवर्चसी । स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ॥ १११॥ सिद्धार्थस्सर्वभूतार्थो नित्यस्सत्यव्रतश्शुचिः । व्रतादिपरमं ब्रह्म मुक्तानां परमागतिः ॥ ११२॥ विमुक्तो दीप्ततेजाश्च श्रीमान् श्रीवर्धनोऽग्रजः । श्मशानकालो देवेशो भूतेशः प्रमथाधिपः ॥ ११३॥ भद्ररूपः कालदेवो भूतसंहारकारकः । कालीनाथो भूतनाथः शर्वः पशुपतिर्मृडः ॥ ११४॥ भद्रनाथश्च कालीनस्सर्वभक्षकभक्षकः । सृष्टिस्थितिस्थरूपश्च भूतभृद्भूतभावनः ॥ ११५॥ माम्साशनो बहुरूपः क्रूररूपः कपालभृत् । सर्वेश्वरः सर्वरुद्रः कालीकमलमध्यगः ॥ ११६॥ द्रीं द्रीं हूं हूं कलरूपः चिन्तामण्डलमध्यगः । क्रीं क्रीं हूं हूं मुण्डधारी मुण्डमालाधरश्शिवः ॥ ११७॥ इति नाम्नां सहस्रं ते महाकालस्य भाषितम् । सर्वरोगहरं देवि परमैश्वर्यकारणम् ॥ ११८॥ सर्वागमरहस्योऽयं स्तोत्रं परमदुर्लभम् । सर्वसिद्धिप्रदं साक्षात्सिद्धिदं पापनाशनम् ॥ ११९॥ महाभयहरं देवि भोगमोक्षैककारणम् । समस्तशोकशमनं सर्वविद्याप्रदं शिवे ॥ १२०॥ महापातककोटिघ्नं कलौ सिद्धिप्रदं शिवे । इदं नामसहस्रं तु ब्रह्मलोकेषु दुर्लभम् ॥ १२१॥ तव प्रीत्या मयाऽऽख्यातं गोपनीयं स्वयोनिवत् । तव नाम्नि श्रुते देवि सर्वयज्ञफलं लभेत् । सर्वपापक्षयकरं वाञ्छितं चैव सिध्यति ॥ १२२॥ नश्यन्ति पठनादस्य स्तोत्रमन्त्रस्य भावतः । यं यं करोति सततं तं तं प्राप्नोति नित्यशः ॥ १२३॥ इदं नामसहस्रं तु भक्तिश्रद्धासमन्वितः । शनिवरे श्मशाने तु पूजां कुर्यान्नरोत्तमः ॥ १२४॥ ततो दशांशतो कुर्यात्सुरातर्पणमेव च । पायसेनाज्यहोमेन नखकेशेन पार्वति ॥ १२५॥ न देयमन्यशिष्याय शठाय दुर्जनाय च । देयं शिष्याय शान्ताय कुलीनाय सुपुत्रिणे ॥ १२६॥ भक्तियुक्ताय देवेशगुरुभक्तिपराय च । विना दानं न गृह्लीयान्न दया दक्षिणां विना ॥ १२७॥ दत्वा गृहीत्वा तूभयोः सिद्धिहानिर्भवेद्ध्रुवम् । इदं नामसहस्रं तु परं परमकारणम् ॥ १२८॥ रहस्यानां रहस्यं च पवित्राणां पवित्रकम् । गोप्यं गुह्यतमं गोप्यं गोपनीयं मुमुक्षुभिः ॥ १२९॥ इति श्रीविश्वसारे कालीसर्वस्वे महाकलसहस्रनाम स्तोत्रं सम्पूर्णम् ॥ शुभमस्तु The stotra has been copied from a manuscript. There are several names/words which are doubtful and have been marked with '?'. Scholars who go through this text are requested to send corrections to sanskrit@cheerful.com.