अक्षर आकार:

श्रीमहाकालमङ्गलम्

Shri Mahakala Mangalam

श्रीमहाकालमङ्गलम्

ॐ श्रीगणेशाय नमः । यो लोकेशादि विश्वं जनयति सकलं यश्चतुर्वर्गबीजं सद्भक्तेच्छानुरूपं वितरति कृपया वेदवेद्यस्वरूपम् । ज्योतिःशास्त्राधिदेवं स्थितिकरणभयुग्वासरार्कादिमूर्ति - स्तं वन्दे स्कन्दगौरीगणपतिसहितं श्रीमहाकालमीशम् ॥ १॥ स्तष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यन्ति देवा यो ह्यव्यक्तो प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च । बिभ्राणः सोमलेखामहिवलययुतं व्यक्तलिङ्गं कपालं लोकानामदिदेवः स जयतु भगवान् श्रीमहाकलनामा ॥ २॥ क्रीडाकुण्डलितोरगेश्वरतनूकारादिरूठम्भरा- ऽनुस्वारं कलयन्नकाररुचिराकारः कृपार्द्रः प्रभुः। विष्णोर्विश्वतनोरवन्तिनगरीहृत्पुण्डरीके वस- न्नोङ्काराक्षरमूर्तिरस्यतु सदा कालोऽन्तकालोऽसताम् ॥ ३॥ भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य । धृतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या- स्तोयक्रीडानिरतयुवतिस्नानसिक्तैर्मरुद्भिः ॥ ४॥ अप्यस्मिञ्जलधर ! महाकालमासाद्य कले स्थातव्यं ते नयनविषयं यावदत्येति भानुः । कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीया- मामन्त्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ५॥ इति श्रीमहाकालमङ्गलं स्तोत्रं सम्पूर्णम् ।