अक्षर आकार:

श्रीमहाकालककाराद्यष्टोत्तरशतनामावलिः

Shri Mahakala Kakaradi Ashtottarashatanamavali 108 Names

श्रीमहाकालककाराद्यष्टोत्तरशतनामावलिः

मन्त्रः - ``ह्रूं ह्रूं महाकाल ! प्रसीद प्रसीद ह्रीं ह्रीं स्वाहा ।'' मन्त्रग्रहणमात्रेण भवेत्सत्यं महाकविः । गद्यपद्यमयी वाणी गङ्गा निर्झरणी यथा ॥ विनियोगः - ॐ अस्य श्रीराजराजेश्वर श्रीमहाकाल ककाराद्यष्टोत्तरशतनाममालामन्त्रस्य श्रीदक्षिणाकालिका ऋषिः, विराट् छन्दः, श्रीमहाकालः देवता, ह्रूं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, सर्वार्थसाधने पाठे विनियोगः ॥ ऋष्यादिन्यासः - श्रीदक्षिणाकालिका ऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे । श्रीमहाकाल देवतायै नमः हृदि । ह्रूं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः । स्वाहा कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ करन्यासः एवं हृदयादिन्यासः - ॐ ह्रां अङ्गुष्ठाभ्यां नमः, हृदयाय नमः । ॐ ह्रीं तर्जनीभ्यां नमः, शिरसे स्वाहा । ॐ ह्रूं मध्यमाभ्यां नमः, शिखायै वषट् । ॐ ह्रैं अनामिकाभ्यां नमः, कवचाय हुम् । ॐ ह्रौं कनिष्ठिकाभ्यां नमः, नेत्रत्रयाय वौषट् । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः, अस्त्राय फट् ॥ ध्यानम् - कोटि कालानलाभासं चतुर्भुजं त्रिलोचनम् । श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् ॥ पञ्चप्रेतस्थितं देवं त्रिशूलं डमरुं तथा । खड्गं च खर्परं चैव वामदक्षिणयोगतः ॥ विश्चतं सुन्दरं देहं श्मशानभस्मभूषितम् । नानाशवैः क्रीडमानं कालिकाहृदयस्थितम् ॥ लालयन्तं रतासक्तं घोरचुम्बनतत्परम् । गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् ॥ जटापटल शोभाढ्यं सर्वशून्यालयस्थितम् । सर्वशून्यमुण्डभूषं प्रसन्नवदनं शिवम् ॥ अथ नामावलिः । ॐ कूं कूं कूं कूं शब्दरताय नमः । क्रूं क्रूं क्रूं क्रूं परायणाय । कविकण्ठस्थिताय । कै ह्रीं ह्रूं कं कं कवि पूर्णदाय । कपालकज्जलसमाय । कज्जलप्रियतोषणाय । कपालमालाऽऽभरणाय । कपालकरभूषणाय । कपालपात्रसन्तुष्टाय । कपालार्घ्यपरायणाय । कदम्बपुष्पसम्पूज्याय । कदम्बपुष्पहोमदाय । कुलप्रियाय । कुलधराय । कुलाधाराय । कुलेश्वराय । कौलव्रतधराय । कर्मकामकेलिप्रियाय । क्रतवे । कलह ह्रींमन्त्रवर्णाय नमः । २० ॐ कलह ह्रींस्वरूपिणे नमः । कङ्कालभैरवदेवाय । कङ्कालभैरवेश्वराय । कादम्बरीपानरताय । कादम्बरीकलाय । करालभैरवानन्दाय । करालभैरवेश्वराय । करालाय । कलनाधाराय । कपर्दीशवरप्रदाय । करवीरप्रियप्राणाय । करवीरप्रपूजनाय । कलाधाराय । कालकण्ठाय । कूटस्थाय । कोटराश्रयाय । करुणाय । करुणावासाय । कौतुकिने । कालिकापतये नमः । ४० ॐ कठिनाय नमः । कोमलाय । कर्णाय । कृत्तिवासकलेवराय । कलानिधये। कीर्तिनाथाय । कामेन । हृदयङ्गमाय । कृष्णाय । काशीपतये । कौलाय । कुलचूडामणये । कुलाय । कालाञ्जनसमाकाराय । कालाञ्जननिवासनाय । कौपीनधारिणे । कैवर्ताय । कृतवीर्याय । कपिध्वजाय । कामरूपाय । कामगतये नमः । ६० ॐ कामयोगपरायणाय नमः । कामसम्मर्दनरताय । कामगृहनिवासनाय । कालिकारमणाय । कालीनायकाय । कालिकाप्रियाय । कालीशाय । कालिकाकान्ताय । कल्पद्रुमलतामताय । कुलटालापमध्यस्थाय । कुलटासङ्गतोषिताय । कुलटाचुम्बनोद्युक्ताय । कुलटाकुचमर्दनाय । केरलाचारनिपुणाय । केरलेन्द्रगृहस्थिताय । कस्तूरीतिलकानन्दाय । कस्तूरीतिलकप्रियाय । कस्तूरीहोमसन्तुष्टाय । कस्तूरीतर्पणोद्यताय । कस्तूरीमार्जनोद्युक्ताय नमः । ८० ॐ कस्तूरीकुण्डमज्जनाय नमः । कामिनीपुष्पनिलयाय । कामिनीपुष्पभूषणाय । कामिनीकुण्डसंलग्नाय । कामिनीकुण्डमध्यगाय । कामिनीमानसाराध्याय । कामिनीमानतोषिताय । काममञ्जीररणिताय । कामदेवप्रियातुराय । कर्पूरामोदरुचिराय । कर्पूरामोदधारणाय । कर्पूरमालाऽऽभरणाय । कूर्परार्णवमध्यगाय । क्रकसाय । क्रकसाराध्याय । कलापपुष्परूपकाय । कुशलाय । कुशलाकर्णये । कुक्कुरासङ्गतोषिताय । कुक्कुरालयमध्यस्थाय नमः । १०० ॐ काश्मीरकरवीरभृते नमः । कूटस्थाय । क्रूरदृष्टये। केशवासक्तमानसाय । कुम्भीनसविभूषाढ्याय । कुम्भीनसवधोद्यताय नमः । (कोटि कालानलाभासाय नमः । कालिकाहृदयस्थिताय नमः ।) इति श्रीमहाकालककाराद्यष्टोत्तरशतनामावलिः समाप्ता।