अक्षर आकार:

महादेवस्तुतिः

mahAdevastutiH

महादेवस्तुतिः

जय शङ्कर शान्त शशाङ्करुचे रुचिरार्थद सर्वद सर्वशुचे । शुचिदत्तगृहीतमहोपहृते हृतभक्तजनोद्धततापतते ॥ १॥ ततसर्वहृदम्बर वरद नते नतवृजिनमहावनदाहकृते । कृतविविधचरित्रतनो सुतनो तनुविशिखविशोषणधैर्यनिधे ॥ २॥ निधनादिविवर्जित कृतनतिकृत् कृतिविहितमनोरथपन्नगभृत् । नगभर्तृसुतार्पितवामवपुः स्ववपुः परिपूरितसर्वजगत् । ३ त्रिजगन्मयरूप विरूप सुदृग् दृगुदञ्चनकुञ्चनकृतहुतभुक् । भव भूतपते प्रमथैकपते पतितेष्वपि दत्तकरप्रसृते ॥ ४॥ प्रसृताखिलभूतलसंवरण प्रणवध्वनिसौधसुधांशुधर । धरराजकुमारिकया परया परितः परितुष्ट नतोऽस्मि शिव ॥ ५॥ शिव देव गिरीश महेश विभो विभवप्रद गिरिश शिवेश मृड । मृडयोडुपतिध्र जगत्त्रितयं कृतयन्त्रणभक्तिविघातकृताम् ॥ ६॥ न कृतान्तत एष विभेमि हर प्रहराशु महाघममोघमते । न मतान्तरमन्यदवैमि शिवं शिवपादनतेः प्रणतोऽस्मि ततः ॥ ७॥ विततेऽत्र जगत्यखिलेऽघहरं हरतोषणमेव परं गुणवत् । गुणहीनमहीनमहावलयं प्रलयान्तकमीश नतोऽस्मि ततः ॥ ८॥ इति स्तुत्वा महादेवं विररामाङ्गिरः सुतः । व्यतरच्च महेशानः स्तुत्या तुष्टो वरान्बहून् ॥ ९॥ बृहता तपसानेन बृहतां पतिरेध्यहो । नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्यो भव द्विज ॥ १०॥ अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम् । तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षैस्त्रिकालतः ॥ ११॥ अस्य स्तोत्रस्य पठनान्नियतं मम सन्निधौ । न दुर्वृत्तौ प्रवृत्तिः स्यादविवेकवतां नृणाम् ॥ १२॥ अदः स्तोत्रं पठञ्जन्तुर्जातु पीडां ग्रहोद्भवाम् । न प्राप्स्यति ततो जप्यमिदं स्तोत्रं ममाग्रतः ॥ १३॥ नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः । इमां स्तुतिं हरिष्येऽहं तस्य बाधाः सुदारुणाः ॥ १४॥ त्वत्प्रतिष्ठितलिङ्गस्य पूजां कृत्वा प्रयत्नतः । इमां स्तुतिमधीयानो मनोवाञ्छामवाप्स्यति ॥ १५॥ इति श्रीमहादेवस्तुतिः समाप्ता ।