अक्षर आकार:

महादेवाष्टकम्

mahAdevAShTakam

महादेवाष्टकम्

श्रीगणेशाय नमः ॥ शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतिनुतं महेशानं शम्भुं सकलसुरसंसेव्यचरणम् । गिरीशं गौरीशं भवभयहरं निष्कलमजं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ १॥ सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय- मुमाकान्तं क्षान्तं करधृतपिनाकं भ्रमहरम् । त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ २॥ चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् । करोटीखट्वाङ्गे ह्यरसि च दधानं मृतिहरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ३॥ सदोत्साहं गङ्गाधरमचलमानन्दकरणं पुरारातिं भातं रतिपतिहरं दीप्तवदनम् । जटाजूटैर्जुष्टं रसमुखगणेशानपितरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ४॥ वसन्तं कैलासे सुरमुनिसभायां हि नितरां ब्रुवाणं सद्धर्मं निखिलमनुजानन्दजनकम् । महेशानी साक्षात्सनकमुनिदेवर्षिसहिता महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ५॥ शिवां स्वे वामाङ्गे गुहगणपतिं दक्षिणभुजे गले कालं व्यालं जलधिगरलं कण्ठविवरे । ललाटे श्वेतेन्दुं जगदपि दधानं च जठरे महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ६॥ सुराणां दैत्यानां बहुलमनुजानां बहुविधं तपःकुर्वाणानां झटिति फलदातारमखिलम् । सुरेशं विद्येशं जलनिधिसुताकान्तहृदयं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ७॥ वसानं वैयाघ्रीं मृदुलललितां कृत्तिमजरां वृषारूढं सृष्ट्यादिषु कमलजाद्यात्मवपुषम् । अतर्क्यं निर्मायं तदपि फलदं भक्तसुखदं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥ ८॥ इदं स्तोत्रं शम्भोर्दुरितदलनं धान्यधनदं हृदि ध्यात्वा शम्भुं तदनु रघुनाथेन रचितम् । नरः सायम्प्रातः पठति नियतं तस्य विपदः क्षयं यान्ति स्वर्गं व्रजति सहसा सोऽपि मुदितः ॥ ९॥ इति पण्डितरघुनाथशर्मणा विरचितं श्रीमहादेवाष्टकं समाप्तम् ।