अक्षर आकार:

मृत्युञ्जयस्तोत्र १ मार्कण्डेयप्रोक्तं नरसिंहपुराणे

Mrityunjaya stotra 1 from Narasimhapurana

मृत्युञ्जयस्तोत्र १ मार्कण्डेयप्रोक्तं नरसिंहपुराणे

विष्णुमृत्युञ्जयस्तोत्रम् । ॐ नमो भगवते मृत्युञ्जयाय । ततो विश्ण्वर्पितमना मारकण्डेयो महामतिः । तुष्टाव प्रणतो भूत्वा देवदेव जनार्दनम् विष्णुनैवोपदिष्टं तु स्तोत्रं कर्णे महामनाः । सम्भावितेन मनसा तेन तुष्टाव माधवम् ॥ ॐ नमो भगव्ते वासुदेवाय । मार्कण्डेय उवाच - नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ ६३॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६४॥ वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६५॥ शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६६॥ वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् । माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६७॥ पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६८॥ भूतात्मानं महात्मानं जगद्योनिमयोनिजम् । विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६९॥ सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् । महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ७०॥ इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः । अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥ ७१॥ इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता । प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ ७२॥ मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ ७३॥ य इदं पठते भक्त्या त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ ७४॥ हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् । सञ्चिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ॥ ७५॥ इति । नरसिंहपुराण अध्याय ७ श्लोकसंख्या ७५ इति श्रीनरसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम सप्तमोऽध्यायः ॥ ७॥ From Narasimhapurana adhyAya 7 https://archive.org/details/NarsimhaPuranGitapress