अक्षर आकार:

मृत्युञ्जयसहस्रनामस्तोत्रम्

mRityunjayasahasranAmastotram

मृत्युञ्जयसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना श‍ृणु देवेशि सहस्राख्यस्तवोत्तमम् । महामृत्युञ्जयस्यास्य सारात् सारोत्तमोत्तमम् ॥ अस्य श्रीमहामृत्युञ्जसहस्रनामस्तोत्र मन्त्रस्य, भैरव ऋषिः, उष्णिक् छन्दः, श्रीमहामृत्युञ्जयो देवता, ॐ बीजं, जुं शक्तिः, सः कीलकं, पुरुषार्थसिद्धये सहस्रनाम पाठे विनियोगः । ध्यानम् उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं शिवं ॐजुंसःभुवनैकसृष्टिप्रलयोद्भूत्येकरक्षाकरम् । श्रीमत्तारदशार्णमण्डिततनुं त्र्यक्षं द्विबाहुं परं श्रीमृत्युञ्जयमीड्यविक्रमगुणैः पूर्णं हृदब्जे भजे ॥ ॐजुंसःहौं महादेवो मन्त्रज्ञो मानदायकः । मानी मनोरमाङ्गश्च मनस्वी मानवर्धनः ॥ १॥ मायाकर्ता मल्लरूपो मल्लो मारान्तको मुनिः । महेश्वरो महामान्यो मन्त्री मन्त्रिजनप्रियः ॥ २॥ मारुतो मरुतां श्रेष्ठो मासिकः पक्षिकोऽमृतः । मातङ्गको मत्तचित्तो मतचिन्मत्तभावनः ॥ ३॥ मानवेष्टप्रदो मेषो मेनकापतिवल्लभः । मानकायो मधुस्तेयी मारयुक्तो जितेन्द्रियः ॥ ४॥ जयो विजयदो जेता जयेशो जयवल्लभः । डामरेशो विरूपाक्षो विश्वभोक्ता विभावसुः ॥ ५॥ विश्वेशो विश्वनाथश्च विश्वसूर्विश्वनायकः । विनेता विनयी वादी वान्तदो वाक्प्रदो वटुः ॥ ६॥ स्थूलः सूक्ष्मोऽचलो लोलो लोलजिह्वः करालकः । विराधेयो विरागीनो विलासी लास्यलालसः ॥ ७॥ लोलाक्षो लोलधीर्धर्मी धनदो धनदार्चितः । धनी ध्येयोऽप्यध्येयश्च धर्म्यो धर्ममयो दयः ॥ ८॥ दयावान् देवजनको देवसेव्यो दयापतिः । डुलिचक्षुर्दरीवासो दम्भी देवमयात्मकः ॥ ९॥ कुरूपः कीर्तिदः कान्तः क्लीवोऽक्लीवात्मकः कुजः । बुधो विद्यामयः कामी कामकालान्धकान्तकः ॥ १०॥ जीवो जीवप्रदः शुक्रः शुद्धः शर्मप्रदोऽनघः । शनैश्चरो वेगगतिर्वाचालो राहुरव्ययः ॥ ११॥ केतुः कारापतिः कालः सूर्योऽमितपराक्रमः । चन्द्रो रुद्रपतिः भास्वान् भाग्यदो भर्गरूपभृत् ॥ १२॥ क्रूरो धूर्तो वियोगी च सङ्गी गङ्गाधरो गजः । गजाननप्रियो गीतो गानी स्नानार्चनप्रियः ॥ १३॥ परमः पीवराङ्गश्च पार्वतीवल्लभो महान् । परात्मको विराड्धौम्यः वानरोऽमितकर्मकृत् ॥ १४॥ चिदानन्दी चारुरूपो गारुडो गरुडप्रियः । नन्दीश्वरो नयो नागो नागालङ्कारमण्डितः ॥ १५॥ नागहारो महानागो गोधरो गोपतिस्तपः । त्रिलोचनस्त्रिलोकेशस्त्रिमूर्तिस्त्रिपुरान्तकः ॥ १६॥ त्रिधामयो लोकमयो लोकैकव्यसनापहः । व्यसनी तोषितः शम्भुस्त्रिधारूपस्त्रिवर्णभाक् ॥ १७॥ त्रिज्योतिस्त्रिपुरीनाथस्त्रिधाशान्तस्त्रिधागतिः । त्रिधागुणी विश्वकर्ता विश्वभर्ताऽऽधिपूरुषः ॥ १८॥ उमेशो वासुकिर्वीरो वैनतेयो विचारकृत् । विवेकाक्षो विशालाक्षोऽविधिर्विधिरनुत्तमः ॥ १९॥ विद्यानिधिः सरोजाक्षो निःस्मरः स्मरनाशनः । स्मृतिमान् स्मृतिदः स्मार्तो ब्रह्मा ब्रह्मविदां वरः ॥ २०॥ ब्राह्मव्रती ब्रह्मचारी चतुरश्चतुराननः । चलाचलोऽचलगतिर्वेगी वीराधिपो वरः ॥ २१॥ सर्ववामः सर्वगतिः सर्वमान्यः सनातनः । सर्वव्यापी सर्वरूपः सागरश्च समेश्वरः ॥ २२॥ समनेत्रः समद्युतिः समकायः सरोवरः । सरस्वान् सत्यवाक् सत्यः सत्यरूपः सुधीः सुखी ॥ २३॥ सुराट् सत्यः सत्यमती रुद्रो रौद्रवपुर्वसुः । वसुमान् वसुधानाथो वसुरूपो वसुप्रदः ॥ २४॥ ईशानः सर्वदेवानामीशानः सर्वबोधिनाम् । ईशोऽवशेषोऽवयवी शेषशायी श्रियः पतिः ॥ २५॥ इन्द्रश्चन्द्रावतंसी च चराचरजगत्स्थितिः । स्थिरः स्थाणुरणुः पीनः पीनवक्षाः परात्परः ॥ २६॥ पीनरूपो जटाधारी जटाजूटसमाकुलः । पशुरूपः पशुपतिः पशुज्ञानी पयोनिधिः ॥ २७॥ वेद्यो वैद्यो वेदमयो विधिज्ञो विधिमान् मृडः । शूली शुभङ्करः शोभ्यः शुभकर्ता शचीपतिः ॥ २८॥ शशाङ्कधवलः स्वामी वज्री शङ्खी गदाधरः । चतुर्भुजश्चाष्टभुजः सहस्रभुजमण्डितः ॥ २९॥ स्रुवहस्तो दीर्घकेशो दीर्घो दम्भविवर्जितः । देवो महोदधिर्दिव्यो दिव्यकीर्तिर्दिवाकरः ॥ ३०॥ उग्ररूप उग्रपतिरुग्रवक्षास्तपोमयः । तपस्वी जटिलस्तापी तापहा तापवर्जितः ॥ ३१॥ हविर्हरो हयपतिर्हयदो हरिमण्डितः । हरिवाही महौजस्को नित्यो नित्यात्मकोऽनलः ॥ ३२॥ सम्मानी संसृतिर्हारी सर्गी सन्निधिरन्वयः । विद्याधरो विमानी च वैमानिकवरप्रदः ॥ ३३॥ वाचस्पतिर्वसासारो वामाचारी बलन्धरः । वाग्भवो वासवो वायुर्वासनाबीजमण्डितः ॥ ३४॥ वासी कोलश‍ृतिर्दक्षो दक्षयज्ञविनाशनः । दाक्षो दौर्भाग्यहा दैत्यमर्दनो भोगवर्धनः ॥ ३५॥ भोगी रोगहरो हेयो हारी हरिविभूषणः । बहुरूपो बहुमतिर्बहुवित्तो विचक्षणः ॥ ३६॥ नृत्तकृच्चित्तसन्तोषो नृत्तगीतविशारदः । शरद्वर्णविभूषाढ्यो गलदग्धोऽघनाशनः ॥ ३७॥ नागी नागमयोऽनन्तोऽनन्तरूपः पिनाकभृतः । नटनो हाटकेशानो वरीयांश्च विवर्णभृत् ॥ ३८॥ झाङ्कारी टङ्कहस्तश्च पाशी शार्ङ्गी शशिप्रभः । सहस्ररूपो समगुः साधूनामभयप्रदः ॥ ३९॥ साधुसेव्यः साधुगतिः सेवाफलप्रदो विभुः । सुमहा मद्यपो मत्तो मत्तमूर्तिः सुमन्तकः ॥ ४०॥ कीली लीलाकरो लान्तः भवबन्धैकमोचनः । रोचिष्णुर्विष्णुरच्युतश्चूतनो नूतनो नवः ॥ ४१॥ न्यग्रोधरूपो भयदो भयहाऽभीतिधारणः । धरणीधरसेव्यश्च धराधरसुतापतिः ॥ ४२॥ धराधरोऽन्धकरिपुर्विज्ञानी मोहवर्जितः । स्थाणुकेशो जटी ग्राम्यो ग्रामारामो रमाप्रियः ॥ ४३॥ प्रियकृत् प्रियरूपश्च विप्रयोगी प्रतापनः । प्रभाकरः प्रभादीप्तो मन्युमान् अवनीश्वरः ॥ ४४॥ तीक्ष्णबाहुस्तीक्ष्णकरस्तीक्ष्णांशुस्तीक्ष्णलोचनः । तीक्ष्णचित्तस्त्रयीरूपस्त्रयीमूर्तिस्त्रयीतनुः ॥ ४५॥ हविर्भुग् हविषां ज्योतिर्हालाहलो हलीपतिः । हविष्मल्लोचनो हालामयो हरितरूपभृत् ॥ ४६॥ म्रदिमाऽऽम्रमयो वृक्षो हुताशो हुतभुग् गुणी । गुणज्ञो गरुडो गानतत्परो विक्रमी क्रमी ॥ ४७॥ क्रमेश्वरः क्रमकरः क्रमिकृत् क्लान्तमानसः । महातेजा महामारो मोहितो मोहवल्लभः ॥ ४८॥ महस्वी त्रिदशो बालो बालापतिरघापहः । बाल्यो रिपुहरो हाही गोविर्गविमतोऽगुणः ॥ ४९॥ सगुणो वित्तराड् वीर्यो विरोचनो विभावसुः । मालामयो माधवश्च विकर्तनो विकत्थनः ॥ ५०॥ मानकृन्मुक्तिदोऽतुल्यो मुख्यः शत्रुभयङ्करः । हिरण्यरेताः सुभगः सतीनाथः सिरापतिः ॥ ५१॥ मेढ्री मैनाकभगिनीपतिरुत्तमरूपभृत् । आदित्यो दितिजेशानो दितिपुत्रक्षयङ्करः ॥ ५२॥ वसुदेवो महाभाग्यो विश्वावसुर्वसुप्रियः । समुद्रोऽमिततेजाश्च खगेन्द्रो विशिखी शिखी ॥ ५३॥ गरुत्मान् वज्रहस्तश्च पौलोमीनाथ ईश्वरः । यज्ञपेयो वाजपेयः शतक्रतुः शताननः ॥ ५४॥ प्रतिष्ठस्तीव्रविस्रम्भी गम्भीरो भाववर्धनः । गायिष्ठो मधुरालापो मधुमत्तश्च माधवः ॥ ५५॥ मायात्मा भोगिनां त्राता नाकिनामिष्टदायकः । नाकीन्द्रो जनको जन्यः स्तम्भनो रम्भनाशनः ॥ ५६॥ शङ्कर ईश्वर ईशः शर्वरीपतिशेखरः । लिङ्गाध्यक्षः सुराध्यक्षो वेदाध्यक्षो विचारकः ॥ ५७॥ भर्गोऽनर्घ्यो नरेशानो नरवाहनसेवितः । चतुरो भविता भावी भावदो भवभीतिहा ॥ ५८॥ भूतेशो महितो रामो विरामो रात्रिवल्लभः । मङ्गलो धरणीपुत्रो धन्यो बुद्धिविवर्धनः ॥ ५९॥ जयी जीवेश्वरो जारो जाठरो जह्नुतापनः । जह्नुकन्याधरः कल्पो वत्सरो मासरूपधृत् ॥ ६०॥ ऋतुरृभूसुताध्यक्षो विहारी विहगाधिपः । शुक्लाम्बरो नीलकण्ठः शुक्लो भृगुसुतो भगः ॥ ६१॥ शान्तः शिवप्रदोऽभेद्योऽभेदकृच्छान्तकृत् पतिः । नाथो दान्तो भिक्षुरूपी दातृश्रेष्ठो विशाम्पतिः ॥ ६२॥ कुमारः क्रोधनः क्रोधी विरोधी विग्रही रसः । नीरसः सरसः सिद्धो वृषणी वृषघातनः ॥ ६३॥ पञ्चास्यः षण्मुखश्चैव विमुखः सुमुखीप्रियः । दुर्मुखो दुर्जयो दुःखी सुखी सुखविलासदः ॥ ६४॥ पात्री पौत्री पवित्रश्च भूतात्मा पूतनान्तकः । अक्षरं परमं तत्वं बलवान् बलघातनः ॥ ६५॥ भल्ली भौलिर्भवाभावो भावाभावविमोचनः । नारायणो मुक्तकेशो दिग्देवो धर्मनायकः ॥ ६६॥ कारामोक्षप्रदोऽजेयो महाङ्गः सामगायनः । तत्सङ्गमो नामकारी चारी स्मरनिसूदनः ॥ ६७॥ कृष्णः कृष्णाम्बरः स्तुत्यस्तारावर्णस्त्रपाकुलः । त्रपावान् दुर्गतित्राता दुर्गमो दुर्गघातनः ॥ ६८॥ महापादो विपादश्च विपदं नाशको नरः । महाबाहुर्महोरस्को महानन्दप्रदायकः ॥ ६९॥ महानेत्रो महादाता नानाशास्त्रविचक्षणः । महामूर्धा महादन्तो महाकर्णो महोरगः ॥ ७०॥ महाचक्षुर्महानासो महाग्रीवो दिगालयः । दिग्वासा दितिजेशानो मुण्डी मुण्डाक्षसूत्र भृत् ॥ ७१॥ श्मशाननिलयोऽरागी महाकटिरनूतनः । पुराणपुरुषोऽपारः परमात्मा महाकरः ॥ ७२॥ महालस्यो महाकेशो महोष्ठो मोहनो विराट् । महामुखो महाजङ्घो मण्डली कुण्डली नटः ॥ ७३॥ असपत्नः पत्रकरः पात्रहस्तश्च पाटवः । लालसः सालसः सालः कल्पवृक्षश्च कम्पितः ॥ ७४॥ कम्पहा कल्पनाहारी महाकेतुः कठोरकः । अनलः पवनः पाठः पीठस्थः पीठरूपकः ॥ ७५॥ पाटीनः कुलिशी पीनो मेरुधामा महागुणी । महातूणीरसंयुक्तो देवदानवदर्पहा ॥ ७६॥ अथर्वशीर्षः सोम्यास्यः ऋक्सहस्रामितेक्षणः । यजुःसाममुखो गुह्यो यजुर्वेदविचक्षणः ॥ ७७॥ याज्ञिको यज्ञरूपश्च यज्ञज्ञो धरणीपतिः । जङ्गमी भङ्गदो भाषादक्षोऽभिगमदर्शनः ॥ ७८॥ अगम्यः सुगमः खर्वः खेटी खट्वाननः नयः । अमोघार्थः सिन्धुपतिः सैन्धवः सानुमध्यगः ॥ ७९॥ प्रतापी प्रजयी प्रातर्मध्याह्नसायमध्वरः । त्रिकालज्ञः सुगणकः पुष्करस्थः परोपकृत् ॥ ८०॥ उपकर्तापहर्ता च घृणी रणजयप्रदः । धर्मी चर्माम्बरश्चारुरूपश्चारुविशोषणः ॥ ८१॥ नक्तञ्चरःकालवशी वशी वशिवरोऽवशः । वश्यो वश्यकरो भस्मशायी भस्मविलेपनः ॥ ८२॥ भस्माङ्गी मलिनाङ्गश्च मालामण्डितमूर्धजः । गणकार्यः कुलाचारः सर्वाचारः सखा समः ॥ ८३॥ सुकुरः गोत्रभिद् गोप्ता भीमरूपो भयानकः । अरुणश्चैकचिन्त्यश्च त्रिशङ्कुः शङ्कुधारणः ॥ ८४॥ आश्रमी ब्राह्मणो वज्री क्षत्रियः कार्यहेतुकः । वैश्यः शूद्रः कपोतस्थः त्वष्टा तुष्टो रुषाकुलः ॥ ८५॥ रोगी रोगापहः शूरः कपिलः कपिनायकः । पिनाकी चाष्टमूर्तिश्च क्षितिमान् धृतिमांस्तथा ॥ ८६॥ जलमूर्तिर्वायुमूर्तिर्हुताशः सोममूर्तिमान् । सूर्यदेवो यजमान आकाशः परमेश्वरः ॥ ८७॥ भवहा भवमूर्तिश्च भूतात्मा भूतभावनः । भवः शर्वस्तथा रुद्रः पशुनाथश्च शङ्करः ॥ ८८॥ गिरिजो गिरिजानाथो गिरीन्द्रश्च महेश्वरः । गिरीशः खण्डहस्तश्च महानुग्रो गणेश्वरः ॥ ८९॥ भीमः कपर्दी भीतिज्ञः खण्डपश्चण्डविक्रमः । खड्गभृत् खण्डपरशुः कृत्तिवासा विषापहः ॥ ९०॥ कङ्कालः कलनाकारः श्रीकण्ठो नीललोहितः । गणेश्वरो गुणी नन्दी धर्मराजो दुरन्तकः ॥ ९१॥ भृङ्गिरीटी रसासारो दयालू रूपमण्डितः । अमृतः कालरुद्रश्च कालाग्निः शशिशेखरः ॥ ९२॥ सद्योजातः सुवर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत् प्रसहनो गुणिनादप्रतिष्ठितः ॥ ९३॥ शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः । यज्ञरूपो यज्ञमुखो यजमानेष्टदः शुचिः ॥ ९४॥ धृतिमान् मतिमान् दक्षो दक्षयज्ञविघातकः । नागहारी भस्मधारी भूतिभूषितविग्रहः ॥ ९५॥ कपाली कुण्डली भर्गः भक्तार्तिभञ्जनो विभुः । वृषध्वजो वृषारूढो धर्मवृषविवर्धकः ॥ ९६॥ महाबलः सर्वतीर्थः सर्वलक्षणलक्षितः । सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ ९७॥ पवित्रस्त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः । ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ॥ ९८॥ पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः । देवासुरविनिर्माता देवासुरपरायण ॥ ९९॥ देवासुरगुरुर्देवो देवासुरनमस्कृत् । गुहप्रियो गणसेव्यः पवित्रः सर्वपावनः ॥ १००॥ ललाटाक्षो विश्वदेवो दमनः श्वेतपिङ्गलः । विमुक्तिर्मुक्तितेजस्को भक्तानां परमा गतिः ॥ १०१॥ देवातिदेवो देवर्षिर्देवासुरवरप्रदः । कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ॥ १०२॥ नाथपूज्यः सिद्धनृत्यो नवनाथसमर्चितः । कपर्दी कल्पकृद् रुद्रः सुमना धर्मवत्सलः ॥ १०३॥ वृषाकपिः कल्पकर्ता नियतात्मा निराकुलः । नीलकण्ठो धनाध्यक्षो नाथः प्रमथनायकः ॥ १०४॥ अनादिरन्तरहितो भूतिदो भूतिविग्रहः । सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १०५॥ युगरूपो महारूपो महागीतो महागुणः । विसर्गो लिङ्गरूपश्च पवित्रः पापनाशनः ॥ १०६॥ ईड्यो महेश्वरः शम्भुर्देवसिंहो नरर्षभः । विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ॥ १०७॥ सुयुक्तः शोभनो वज्री देवानां प्रभवोऽव्ययः । गुहः कान्तो निजसर्गः पवित्रः सर्वपावनः ॥ १०८॥ श‍ृङ्गी श‍ृङ्गप्रियो बभ्रू राजराजो निरामयः । देवासुरगणाध्यक्षो नियमेन्द्रियवर्धनः ॥ १०९॥ त्रिपुरान्तकः श्रीकण्ठस्त्रिनेत्रः पञ्चवक्त्रकः । कालहृत् केवलात्मा च ऋग्यजुःसामवेदवान् ॥ ११०॥ ईशानः सर्वभूतामीश्वरः सर्वरक्षसाम् । ब्रह्माधिपतिर्ब्रह्मपतिर्ब्रह्मणोऽधिपतिस्तथा ॥ १११॥ ब्रह्मा शिवः सदानन्दी सदानन्तः सदाशिवः । मे-अस्तुरूपश्चार्वङ्गो गायत्रीरूपधारणः ॥ ११२॥ अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्यश्च । सर्वतः शर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ ११३॥ वामदेवस्तथा ज्येष्ठः श्रेष्ठः कालः करालकः । महाकालो भैरवेशो वेशी कलविकरणः ॥ ११४॥ बलविकरणो बालो बलप्रमथनस्तथा । सर्वभूतादिदमनो देवदेवो मनोन्मनः ॥ ११५॥ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नातिभवे भजस्व मां भवोद्भवः ॥ ११६॥ भावनो भवनो भाव्यो बलकारी परं पदम् । परः शिवः परो ध्येयः परं ज्ञानं परात्परः ॥११७॥ पारावारः पलाशी च मांसाशी वैष्णवोत्तमः । ॐऐंह्रींश्रींह्सौः देवो ॐश्रींहौं भैरवोत्तमः ॥ ११८॥ ॐह्रां नमः शिवायेति मन्त्रो वटुर्वरायुधः । ॐह्रीं सदाशिवः ॐह्रीं आपदुद्धारणो मनुः ॥ ११९॥ ॐह्रीं महाकरालास्यः ॐह्रीं बटुकभैरवः । भगवांस्त्र्यम्बक ॐह्रीं ॐह्रीं चन्द्रार्धशेखरः ॥ १२०॥ ॐह्रीं सञ्जटिलो धूम्रो ॐह्रीं त्रिपुरघातनः । ह्रांह्रींह्रुं हरिवामाङ्ग ॐह्रींह्रूंह्रीं त्रिलोचनः ॥ १२१॥ ॐ वेदरूपो वेदज्ञ ऋग्यजुःसाममूर्तिमान् । रुद्रो घोररवोऽघोरो ॐ क्ष्म्यूं अघोरभैरवः ॥ १२२॥ ॐजुंसः पीयुषसक्तोऽमृताध्यक्षोऽमृतालसः । ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ १२३॥ उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । ॐहौंजुंसः ॐभूर्भुवः स्वः ॐजुंसः मृत्युञ्जयः ॥ १२४॥ इदं नाम्नां सहस्रं तु रहस्यं परमाद्भुतम् । सर्वस्वं नाकिनां देवि जन्तूनां भुवि का कथा ॥ १२५॥ तव भक्त्या मयाख्यातं त्रिषु लोकेषु दुर्लभम् । गोप्यं सहस्रनामेदं साक्षादमृतरूपकम् ॥ १२६॥ यः पठेत् पाठयेद्वापि श्रावयेच्छृणुयात् तथा । मृत्युञ्जयस्य देवस्य फलं तस्य शिवे श‍ृणु ॥ १२७॥ लक्ष्म्या कृष्णो धिया जीवो प्रतापेन दिवाकरः । तेजसा वह्निदेवस्तु कवित्वे चैव भार्गवः ॥ १२८॥ शौर्येण हरिसङ्काशो नीत्या द्रुहिणसन्निभः । ईश्वरत्वेन देवेशि मत्समः किमतः परम् ॥ १२९॥ यः पठेदर्धरात्रे च साधको धैर्यसंयुतः । पठेत् सहस्रनामेदं सिद्धिमाप्नोति साधकः ॥ १३०॥ चतुष्पथे चैकलिङ्गे मरुदेशे वनेऽजने । श्मशाने प्रान्तरे दुर्गे पाठात् सिद्धिर्न संशयः ॥ १३१॥ नौकायां चौरसङ्घे च सङ्कटे प्राणसंक्षये । यत्र यत्र भये प्राप्ते विषवह्निभयादिषु ॥ १३२॥ पठेत् सहस्रनामाशु मुच्यते नात्र संशयः । भौमावस्यां निशीथे च गत्वा प्रेतालयं सुधीः ॥ १३३॥ पठित्वा स भवेद् देवि साक्षादिन्द्रोऽर्चितः सुरैः । शनौ दर्शदिने देवि निशायां सरितस्तटे ॥ १३४॥ पठेन्नामसहस्रं वै जपेदष्टोत्तरं शतम् । सुदर्शनो भवेदाशु मृत्युञ्जयप्रसादतः ॥ १३५॥ दिगम्बरो मुक्तकेशः साधको दशधा पठेत् । इह लोके भवेद्राजा परे मुक्तिर्भविष्यति ॥ १३६॥ इदं रहस्यं परमं भक्त्या तव मयोदितम् । मन्त्रगर्भं मनुमयं न चाख्येयं दुरात्मने ॥ १३७॥ नो दद्यात् परशिष्येभ्यः पुत्रेभ्योऽपि विशेषतः । रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ॥ १३८॥ षण्मुखस्यापि नो वाच्यं गोपनीयं तथात्मनः । दुर्जनाद् रक्षणीयं च पठनीयमहर्निशम् ॥ १३९॥ श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् । ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये मृत्युञ्जयसहस्रनामं सम्पूर्णम् ॥