अक्षर आकार:

श्रीमृत्युञ्जयस्तोत्रम् ३

Shri Mrityunjayastotram 3

श्रीमृत्युञ्जयस्तोत्रम् ३

ॐ नमो मृत्युञ्जयाय । नन्दिकेश्वर उवाच - कैलासस्योत्तरे श‍ृङ्गे शुद्धस्फटिकसन्निभे । तमोगुणविहीने तु जरामृत्युविवर्जिते ॥ १॥ सर्वार्थ सम्पदाधारे सर्वज्ञानकृतालये । कृताञ्जली पुटो ब्रह्मा घ्यानासीनं सदाशिवम् ॥ २॥ पप्रच्छ प्रणतो भूत्वा जानुभ्यामवनिङ्गतः । सर्वार्थसम्पदाधार ब्रह्मा लोकपितामहः ॥ ३॥ ब्रह्मोवाच - केनोपायेन देवेश चिरायुर्लोमशोऽभवत् । तन्मे ब्रूहि महेशान लोकानां हितकाम्यया ॥ ४॥ श्रीसदाशिव उवाच - श‍ृणु ब्रह्मन् प्रवक्ष्यामि चिरायुर्मुनिसत्तमः । सञ्जातः कर्मणा येन व्याधिमृत्युविवर्जितः ॥ ५॥ तस्मिन्नेकार्णवे घोरे सलिलौघपरिप्लुते । कृतान्तभयनाशाय स्तुतो मृत्युञ्जयः शिवः ॥ ६॥ तस्य सङ्कीर्तनान्नित्यं मुनिर्मृत्युविवर्जितः । तमेव कीर्तयन् ब्रह्मन् मृत्यु जेतुं न संशयः ॥ ७॥ लोमश उवाच - देवाधिदेव देवेश सर्वप्राण भृतांवर । प्राणीनामपि नाथस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ ८॥ देहिनां जीवभूतोऽसि जीवो जीवस्य कारणम् । जगतां रक्षकस्त्वं वै मृत्युञ्जय नमोऽस्तु ते ॥ ९॥ हेमाद्रिशिखराकारे सुधावीचिमनोहर । पुण्डरीकपरं ज्योतिर्मुत्युञ्जय नमोऽस्तु ते ॥ १०॥ ध्यानाधार महाज्ञान सर्वज्ञानैककारण । परित्रातासि लोकानां मृत्युञ्जय नमोऽस्तु ते ॥ ११॥ निहता येन कालेन सदेवासुरमानुषाः । गन्धर्वाप्सरसश्चैव सिद्धविद्याधरास्तथा ॥ १२॥ साध्याश्च वसवो रुद्रास्तथाश्चिनिसुतावुभौ । मरुतश्च दिशो नागाःस्थावरा जङ्गमास्तथा ॥ १३॥ जितः सोऽपि त्वया ध्यायन् मृत्युञ्जय नमोऽस्तु ते ॥ १४॥ ये ध्यायन्ति परां मूर्तिं पूजयन्त्यमरादयः । न ते मृत्युवशं यान्ति मृत्युञ्जय नमोऽस्तु ते ॥ १५॥ त्वमोङ्कारोऽसि वेदानां देवानां च सदाशिवः । आधारशक्तिः शक्तीनां मृत्युञ्जय नमोऽस्तु ते ॥ १६॥ स्थावरे जङ्गमे वापि यावत्तिष्ठति देहगः । जीवत्यपत्यलोकोऽयं मृत्युञ्जय नमोऽस्तु ते ॥ १७॥ सोमसूर्याग्निमध्यस्थव्योमव्यापिन् सदाशिव । कालत्रयमहाकाल मृत्युञ्जय नमोऽस्तु ते ॥ १८॥ प्रबुद्धे चाप्रबुद्धे च त्वमेव सृजसे जगत् । सृष्टिरूपेण देवेश मृत्युञ्जय नमोऽस्तु ते ॥ १९॥ व्योम्नि त्वं व्योमरूपोऽसि तेजः सर्वत्र तेजसि । ज्ञानिनां ज्ञानरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ २०॥ जगज्जीवो जगत्प्राणः स्रष्टा त्वं जगतः प्रभुः । कारणं सर्वतीर्थानां मृत्युञ्जय नमोऽस्तु ते ॥ २१॥ नेता त्वमिन्द्रियाणां च सर्वज्ञानप्रबोधकः । सांख्ययोगश्च हंसश्च मृत्युञ्जय नमोऽस्तु ते ॥ २२॥ रूपातीतः सरूपश्च पिण्डस्थपदमेव च । चतुर्युगकलाधार मृत्युञ्जय नमोऽस्तु ते ॥ २३॥ रेचके वह्निरूपोऽसि सोमरूपोऽसि पूरके । कुम्भके शिवरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ २४॥ क्षयङ्करोऽसि पापानां पुण्यानामपि वर्धनम् । हेतुस्त्वं श्रेयसां नित्यं मृत्युञ्जय नमोऽस्तु ते ॥ २५॥ सर्वमायाकलातीत सर्वेन्द्रिय परावर । सर्वेन्द्रियकलाधीश मृत्युञ्जय नमोऽस्तु ते ॥ २६॥ रूपं गन्धो रसः स्पर्शः शब्दः संस्कार एव च । त्वत्तः प्रकाश एतेषां मृत्युञ्जय नमोऽस्तु ते ॥ २७॥ चतुर्विधानां सृष्टीनां हेतुस्त्वं कारणेश्वर । भावाभावपरिच्छिन्न मृत्युञ्जय नमोऽस्तु ते ॥ २८॥ त्वमेको निष्कलो लोके सकलम्भुवनत्रये । अतिसूक्ष्मातिरूपस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ २९॥ त्वं प्रबोधस्त्वमाधार त्वद्बीजं भुवनत्रयम् । सत्वं रजस्तमस्त्वं हि मृत्युञ्जय नमोऽस्तु ते ॥ ३०॥ त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृतेः परः । अष्टत्रिंशत्वकलानाथ मृत्युञ्जय नमोऽस्तु ते ॥ ३१॥ सर्वेन्द्रियाणामाधारः सर्वभूतगुणाश्रयः । सर्वज्ञानमयानन्त मृत्युञ्जय नमोऽस्तु ते ॥ ३२॥ त्वमात्मा सर्वभूतानां गुणानां त्वमधीश्वरः । सर्वानन्दमयाधार मृत्युञ्जय नमोऽस्तु ते ॥ ३३॥ त्वं यज्ञः सर्वयज्ञानां त्वं बुद्धिर्बोघलक्षणा । शब्दब्रह्मस्त्वमोङ्कारो मृत्युञ्जय नमोऽस्तु ते ॥ ३४॥ श्रीसदाशिव उवाच - एवं सङ्कीर्तयेद्यस्तु शुचिस्तद्गतमानसः । भक्त्या श‍ृणोति यो ब्रह्मन् न स मृत्युवशो भवेत् ॥ ३५॥ न च मृत्युभयं तस्य प्राप्तकालं च लङ्घयेत् । अपमृत्युभयं तस्य प्रणश्यति न संशयः ॥ ३६॥ व्याधयो नोपपद्यन्ते नोपसर्गभयं भवेत् । प्रत्यासन्नान्तरे काले शतैकावर्तने कृते ॥ ३७॥ मृत्युर्न जायते तस्य रोगान् मुञ्चति निश्चितम् । पञ्चम्यां वा दशम्यां वा पौर्णमास्यामथापि वा ॥ ३८॥ शतमावर्तयेद्यस्तु शतवर्षं स जीवति । तेजस्वी बलसम्पन्नो लभते श्रियमुत्तमाम् ॥ ३९॥ त्रिविधं नाशयेत्पापं मनो-वाक्-कायसम्भवम् । अभिचाराणि कर्माणि कर्माण्याथर्वणानि च । क्षीयन्ते नात्र सन्देहो दुःस्वप्नश्च विनश्यति ॥ ४०॥ इदं रहस्यं परमं देवदेवस्य शूलिनः । दुःस्वप्ननाशनं पुण्यं सर्वविघ्नविनाशनम् ॥ ४१॥ इति श्रीशिवब्रह्मसंवादे श्रीमृत्युञ्जयस्तोत्रं सम्पूर्णम् ।