अक्षर आकार:

मृत्युञ्जयाष्टोत्तरशतनामावलिः ४

Mrityunjaya Ashtottarashata Namavali (4) 108 Names

मृत्युञ्जयाष्टोत्तरशतनामावलिः ४

ॐ शान्ताय नमः । भर्गाय । कैवल्यजनकाय । पुरुषोत्तमाय । आत्मरम्याय । निरालम्बाय । पूर्वजाय । शम्भवे । निरवद्याय । धर्मिष्ठाय । आद्याय । कात्यायनीप्रियाय । त्र्यम्बकाय । सर्वज्ञाय । वेद्याय । गायत्रीवल्लभाय । हरिकेशाय । विभवे । तेजसे । त्रिनेत्राय नमः । २० विदुत्तमाय नमः । सद्योजाताय । सुवेषाढ्याय । कालकूटविषनाशनाय । अन्धकासुरसंहर्त्रे । कालकालाय । मृत्युञ्जयाय । परमसिद्धाय । परमेश्वराय । मृकण्डुसूनुनेत्रे । जाह्नवीधारणाय । प्रभवे । अनाथनाथाय । तरुणाय । शिवाय । सिद्धाय । धनुर्धराय । अन्त्यकालाधिपाय । सौम्याय । बालाय नमः । ४० त्रिविष्टपाय नमः । अनादिनिधनाय । नागहस्ताय । खट्वाङ्गधारकाय । वरदाभयहस्ताय । एकाकिने । निर्मलाय । महते । शरण्याय । वरेण्याय । सुबाहवे । महाबल पराक्रमाय । बिल्वकेशाय । व्यक्तवेदाय । स्थूलरूपिणे । वाङ्मयाय । शुद्धाय । शेषाय । लोकैकाध्यक्षाय । जगत्पतये नमः । ६० अभयाय नमः । अमृतेशाय । करवीरप्रियाय । पद्मगर्भाय । परस्मै ज्योतिषे । नीरपाय । बुद्धिमते । आदिदेवाय । भव्याय । दक्षयज्ञविघाताय । मुनिप्रियाय । बीजाय । मृत्युसंहारकाय । भुवनेशाय । यज्ञगोप्त्रे । विरागवते । मृगहस्ताय । हराय । कूटस्थाय । मोक्षदायकाय नमः । ८० आनन्दभरिताय नमः । पीताय । देवाय । सत्यप्रियाय । चित्रमायिने । निष्कलङ्काय । वर्णिने । अम्बिकापतये । कालपाशनिघाताय । कीर्तिस्तम्भाकृतये । जटाधराय । शूलपाणये । आगमाय । अभयप्रदाय । मृत्युसङ्घातकाय । श्रीदाय । प्राणसंरक्षणाय । गङ्गाधराय । सुशीताय । फालनेत्राय नमः १०० कृपाकराय नमः । नीलकण्ठाय । गौरीशाय । भस्मोद्धूलितविग्रहाय । पुरन्दराय । शिष्टाय । वेदान्ताय । ओञ्जुः सः मूलकाय नमः । १०८ इति मृत्युञ्जयाष्टोत्तरशतनामावलिः समाप्ता ।