अक्षर आकार:

श्रीमार्तण्डभैरवस्तोत्रम्

Shri Martandabhairava Stotram

श्रीमार्तण्डभैरवस्तोत्रम्

भैरवा ऊचुः - नमो मार्ताण्डनाथाय स्थाणवे परमात्मने । भैरवाय सुभीमाय त्रिधाम्नेश नमो नमः ॥ १॥ मृतोद्धारणदक्षाय गर्भोद्धरणहेतवे । तेजसां केतवे तुभ्यं हेतवे जगतामपि ॥ २॥ हिरण्यगर्भरूपाय धीप्रणोदाय ते नमः । ओङ्कारव्याहृतिस्थाय महावीराय ते नमः ॥ ३॥ वीरेशाय नमस्तुभ्यं क्षेत्रेशाय नमो नमः । वेदार्थाय च वेदाय वेदगर्भाय शम्भवे ॥ ४॥ विश्वामित्राय सूर्याय सूरये परमात्मने । महाभैरवरूपाय भैरवानन्ददायिने ॥ ५॥ द्विविधध्वान्तध्वंसाय महामोहविनाशिने । मायान्धकारनाशाय चक्षुस्तिमिरभञ्जिने ॥ ६॥ मन्त्राय मन्त्ररूपाय मन्त्राक्षरविचारिणे । मन्त्रवाच्याय देवाय महामन्त्रार्थदायिने ॥ ७॥ यन्त्राय यन्त्ररूपाय यन्त्रस्थाय यमाय ते । यन्त्रैर्नियन्त्रैर्नियमैर्यमिनां फलदाय च ॥ ८॥ अज्ञानतिमिरध्वंसकारिणे क्लेशहारिणे । महापातकहर्त्रे च महाभयविनाशिने ॥ ९॥ भयदाय सुशीलाय भयानकरवाय ते । बीभत्साय च रौद्राय भीताभयप्रदायिने ॥ १०॥ तेजस्वितेजोरूपाय चण्डायोग्राय ते नमः । बीजाय बीजरूपाय बीजभर्गाय ते नमः ॥ ११॥ क्रोधभर्गाय देवाय लोभभर्गाय ते नमः । महाभर्गाय वै तुभ्यं ज्ञानभर्गाय ते नमः ॥ १२॥ घोरभर्गाय ते तुभ्यं भीतिभर्गाय ते नमः । सुशोकाय विशोकाय ज्ञानभर्गाय ते नमः ॥ १३॥ तत्त्वभर्गाय देवाय मनोभर्गाय वै नमः । दारिद्र्यदुःखभर्गय कामभर्गाय ते नमः ॥ १४॥ हिंसाभर्गाय तामिस्रभर्गाय जगदात्मने । अतिदुर्वासनाभर्ग नमस्ते भैरवात्मने ॥ १५॥ ध्यायन्ते यं भर्ग इति भर्गभर्गाय ते नमः । रोगभर्गाय देवाय पापभर्गाय ते नमः ॥ १६॥ महापातकभर्गाय ह्युपपातकभर्गिणे । महानिरयभर्गाय नृत्तभर्गाय ते नमः ॥ १७॥ क्लेशभर्गाय देवाय भौतिकघ्नाय ते नमः । मृत्युभर्गाय देवाय दुर्गभर्गाय ते नमः ॥ १८॥ ध्यानाद्ध्यायन्ति यद्भर्गं यमिनः संयतेन्द्रियाः । नाथाय भर्गनाथाय भर्गाय सततं नमः ॥ १९॥ वीरवीरेश देवेश नमस्तेऽस्तु त्रिधामक । महामार्ताण्ड वरद सर्वाभयवरप्रद ॥ २०॥ नमो वीराधिवीरेश सूर्यचन्द्रातिधामक । अग्निधामातिधाम्ने च महामार्ताण्ड ते नमः ॥ २१॥ वीरातिवीर वीरेश घोरघोरार्तिघोरक । महामार्ताण्डदेवेश भूयो भूयो नमो नमः ॥ २२॥ इति श्रीमार्तण्डभैरवस्तोत्रं सम्पूर्णम् ।