अक्षर आकार:

श्रीमार्तण्डभैरवध्यानम्

Shri Martanda Bhairava Dhyanam

श्रीमार्तण्डभैरवध्यानम्

हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारुखट्वाङ्गपद्मौ चक्रं शक्तिं सपाशं सृणिमतिरुचिरामक्षमालां कपालम् । हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं मार्ताण्डं वल्लभार्धं मणिमयमुकुटं हारदीप्तं भजामः ॥ इति श्रीमार्तण्डभैरवध्यानं सम्पूर्णम् ।