अक्षर आकार:

कुळीराष्टकम्

KulirAshtakam

कुळीराष्टकम्

तवास्याराद्धारः कति मुनिवराः कत्यपि सुराः तपस्या सन्नाहैः सुचिरममनोवाक्पथचरैः । अमीषां केषामप्यसुलभममुष्मै पदमदाः कुळीरायोदारं शिव तव दया सा बलवती ॥ १॥ अकर्तुं कर्तुं वा भुवनमखिलं ये किल भव- न्त्यलं ते पादान्ते पुरहर वलन्ते तव सुराः । कुटीरं कोटीरे त्वमहह कुळीराय कृतवान् भवान् विश्वस्येष्टे तव पुनरधीष्टे हि करुणा ॥ २॥ तवारूढो मौळिं तदनधिगमव्रीळनमितां चतुर्वक्त्रीं यस्त्वच्चरणसविधे पश्यति विधेः । कुळीरस्यास्यायं कुलिशभृदलक्ष्यश्शिवभव- द्दया सेयं त्वामप्यधरितवती किं न कुरूताम् ॥ ३॥ श्रुतिस्मृत्यभ्यासो नयनिचयभूयः परिचयः तथा तत्तत्कर्मव्यसनमपि शुष्कश्रमकृते । त्वयि स्वान्तं लग्नं न यदि यदि लग्नं तदियता जिता कैवल्यश्रीः पुरहर कुळीरोऽत्र् गमकः ॥ ४॥ तपोभिः प्राग्जन्मप्रकरपरिनम्रैः पुररिपो तनौ यस्यां कस्यामपि स हि भवार्तिप्रतिभटः । त्वयि स्याद्धीबन्धस्तनुरचरमा सैव चरमा कुळीरो ब्रूते तन्महिमपथविद्वद्गुरुनयम् ॥ ५॥ धियो धानं नाम त्वयि शिव चिदानन्द परमो- न्मिषत्साम्राज्यश्रीकुरळरभसाकर्षकुतुकम् । कुळीरेण ज्ञातं कथमनधिगम्यं दिविषदां दया ते स्वच्छन्दा प्रथयति न कस्मै किमथवा ॥ ६॥ तदुच्चत्वं नैच्यं त्वितरदिति लोकाः शिव मुधा व्यवस्थामस्थाने विदधति च नन्दन्ति च मिथः। कुळीरस्त्वन्मौळिस्थितिमसुलभामेत्य स भवत्- कृपामुच्चत्वं तद्विरहमपि नैच्यं प्रथयति ॥ ७॥ कुळीरेशाख्यातिर्गिरिशकृपयोच्चैरुपहृता तवेयं भक्तायोन्नतिवितरण श्रीगमनिका । भवद्भक्त्युन्मीलत्फलगरिमटीकास्थितिजुषा कुळीरस्य ख्यात्या जगति सहचर्या विहरते ॥ ८॥ कुळीरेशस्तोत्रं त्वदनुपधिकानुग्रहभवं पठेयुर्ये नित्यं श्रृणुयुरपि वा ये पुनरिदम् । प्रसादात्ते तेऽमी विधुत दुरितास्त्वय्यभिरताः भवेयुर्निर्यत्नाधिगतसकलाभीप्सितफलाः ॥ ९॥ कर्कटकचन्द्रयोगः कर्कटकेशान मूर्ध्नि ते दृष्टः । कारय वृष्टिममोघां वारय वर्षोपरोधदुर्योगम् ॥ १०॥ इति श्री श्रीधरवेङ्कटेशार्य विरचितं कुळीराष्टकं समाप्तम् ॥