अक्षर आकार:

श्रीकण्ठेशस्तुतिः

Shri Kantheshastutih

श्रीकण्ठेशस्तुतिः

(शिष्याशीर्वचनात्मकस्तवाः) श्रीशाम्भोजभवादिमामरगणप्रस्तूयमानागजा- चित्ताम्भोरुहबालवासरपते कारुण्यवारान्निधे । श्रीविद्याप्रदपादपङ्कजसकृत्प्राणम्रलोकालये श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ १॥ पापाम्भोनिधिबाडवप्रविलसज्ज्योत्स्नाभदेहच्छवे कालाहङ्कृतिवारणव्रतविधिप्रावीण्यभाक्शङ्कर । प्राणायामपरायणैर्मुनिवरैः सञ्चिन्त्यमूर्तेऽनिशं श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ २॥ श्रीमच्छङ्करदेशिकेन्द्ररचितव्याख्यानसिंहासना- धीशश्रीनरसिंहभारतिकराम्भोजार्चिताङ्घ्रिद्वय । श्रीवाणीपरिसेवितागतनयासंशोभिताङ्कस्थल श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ३॥ हस्त्यश्वादिसमस्तमङ्गनिवहं प्रापय्य वृद्धिं परां हस्तीन्द्राननकार्तिकेयविलसत्पार्श्वद्वय प्रेमतः । दारामात्यसुमित्रबन्धुसहितं श्रीकृष्णराजात्मजं श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ४॥ विद्यावृद्धिकृते सभा बहुविधा निर्माय तत्राग्रिमं दत्त्वा वेतनमादरात्सुविदुषः संस्थाप्य देशे स्वके । अध्येतॄन् परिपोषयन्तमनिशं दत्त्वाशनाच्छादने श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ५॥ गौरीनाथरमाधवाङ्घ्रिसरसीसञ्जातश‍ृङ्गायित- स्वान्तं मन्मथगर्वहारिवपुषं कारुण्यरत्नाकरम् । देवब्राह्मणभक्तिजन्मसदनं वाणीविलासाश्रयं श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीकण्ठेशस्तुतिः समाप्ता ।