अक्षर आकार:

श्रीकाशीविश्वनाथसुप्रभातम्

shrIkAshIvishvanAthasuprabhAtam

श्रीकाशीविश्वनाथसुप्रभातम्

॥ श्रीगुरुभ्यो नमः॥ विश्वेशं माधवं धुण्डिं दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥ १॥ उत्तिष्ठ काशि भगवान् प्रभुविश्वनाथो गङ्गोर्मि-संगति-शुभैः परिभूषितोऽब्जैः । श्रीधुण्डि-भैरव-मुखैः सहिताऽऽन्नपूर्णा माता च वाञ्छति मुदा तव सुप्रभातम् ॥ २॥ ब्रह्मा मुरारिस्त्रिपुरान्तकारिः भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनि-राहु-केतवः कुर्वन्तु सर्वे भुवि सुप्रभातम् ॥ ३॥ वाराणसी-स्थित-गजानन-धुण्डिराज तापत्रयापहरणे प्रथित-प्रभाव । आनन्द-कन्दलकुल-प्रसवैकभूमे नित्यं समस्त-जगतः कुरु सुप्रभातम् ॥ ४॥ ब्रह्मद्रवोपमित-गाङ्ग-पयः-प्रवाहैः पुण्यैः सदैव परिचुंबित-पादपद्मे । मध्ये-ऽखिलामरगणैः परिसेव्यमाने श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ ५॥ प्रत्नैरसंख्य-मठ-मन्दिर-तीर्थ-कुण्ड- प्रासाद-घट्ट-निवहैः विदुषां वरैश्च आवर्जयस्यखिल-विश्व-मनांसि नित्यं श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ ६॥। के वा नरा नु सुधियः कुधियो.अधियो वा वाञ्छन्ति नान्तसमये शरणं भवत्याः । हे कोटि-कोटि-जन-मुक्ति-विधान-दक्षे श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥ ७॥ या देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्व-यक्षोरगैः नागैर्भूतलवासिभिर्द्विजवरैस्संसेविता सिद्धये । या गङ्गोत्तरवाहिनी-परिसरे तीर्थैरसंख्यैर्वृता सा काशी त्रिपुरारिराज-नगरी देयात् सदा मङ्गलम् ॥ ८॥ तीर्थानां प्रवरा मनोरथकरी संसार-पारापरा नन्दा-नन्दि-गणेश्वरैरुपहिता देवैरशेषैः-स्तुता । या शंभोर्मणि-कुण्डलैक-कणिका विष्णोस्तपो-दीर्घिका सेयं श्रीमणिकर्णिका भगवती देयात् सदा मङ्गलम् ॥ ९॥ अभिनव-बिस-वल्ली पाद-पद्मस्य विष्णोः मदन-मथन-मौलेर्मालती पुष्पमाला । जयति जय-पताका काप्यसौ मोक्षलक्ष्म्याः क्षपित-कलि-कलङ्का जाह्नवी नः पुनातु ॥ १०॥ गाङ्गं वारि मनोहारि मुरारि-चरणच्युतम् । त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम् ॥ ११॥ विघ्नावास-निवासकारण-महागण्डस्थलालंबितः सिन्दूरारुण-पुञ्ज-चन्द्रकिरण-प्रच्छादि-नागच्छविः । श्रीविघ्नेश्वर-वल्लभो गिरिजया सानन्दमानन्दितः (पाठभेद विश्वेश्वर) स्मेरास्यस्तव धुण्डिराज-मुदितो देयात् सदा मङ्गलम् ॥ १२॥ कण्ठे यस्य लसत्कराल-गरलं गङ्गाजलं मस्तके वामाङ्गे गिरिराजराज-तनया जाया भवानी सती । नन्दि-स्कन्द-गणाधिराज-सहितः श्रीविश्वनाथप्रभुः काशी-मन्दिर-संस्थितोऽखिलगुरुः देयात् सदा मङ्गलम् ॥ १३॥ श्रीविश्वनाथ करुणामृत-पूर्ण-सिन्धो शीतांशु-खण्ड-समलंकृत-भव्यचूड । उत्तिष्ठ विश्वजन-मङ्गल-साधनाय नित्यं सर्वजगतः कुरु सुप्रभातम् ॥ १४॥ श्रीविश्वनाथ वृषभ-ध्वज विश्ववन्द्य सृष्टि-स्थिति-प्रलय-कारक देवदेव । वाचामगोचर महर्षि-नुताङ्घ्रि-पद्म वाराणसीपुरपते कुरु सुप्रभातम् ॥ १५॥ श्रीविश्वनाथ भवभञ्जन दिव्यभाव गङ्गाधर प्रमथ-वन्दित सुन्दराङ्ग । नागेन्द्र-हार नत-भक्त-भयापहार वाराणसीपुरपते कुरु सुप्रभातम् ॥ १६॥ श्रीविश्वनाथ तव पादयुगं नमामि नित्यं तवैव शिव नाम हृदा स्मरामि । वाचं तवैव यशसाऽनघ भूषयामि वाराणसीपुरपते कुरु सुप्रभातम् ॥ १७॥ काशी-निवास-मुनि-सेवित-पाद-पद्म गङ्गा-जलौघ-परिषिक्त-जटाकलाप । अस्याखिलस्य जगतः सचराचरस्य वाराणसीपुरपते कुरु सुप्रभातम् ॥ १८॥ गङ्गाधराद्रितनया-प्रिय शान्तमूर्ते वेदान्त-वेद्य सकलेश्वर विश्वमूर्ते । कूटस्थ नित्य निखिलागम-गीत-कीर्ते वाराणसीपुरपते कुरु सुप्रभातम् ॥ १९॥ विश्वं समस्तमिदमद्य घनान्धकारे मोहात्मके निपतितं जडतामुपेतम् । भासा विभास्य परया तदमोघ-शक्ते वाराणसीपुरपते कुरु सुप्रभातम् ॥ २०॥ सूनुः समस्त-जन-विघ्न-विनास-दक्षो भार्याऽन्नदान-निरता-ऽविरतं जनेभ्यः । ख्यातः स्वयं च शिवकृत् सकलार्थि-भाजां वाराणसीपुरपते कुरु सुप्रभातम् ॥ २१॥ ये नो नमन्ति न जपन्ति न चामनन्ति नो वा लपन्ति विलपन्ति निवेदयन्ति । तेषामबोध-शिशु-तुल्य-धियां नराणां वाराणसीपुरपते कुरु सुप्रभातम् ॥ २२॥ श्रीकण्ठ कण्ठ-धृत-पन्नग नीलकण्ठ सोत्कण्ठ-भक्त-निवहोपहितोप-कण्ठ । भस्माङ्गराग-परिशोभित-सर्वदेह वाराणसीपुरपते कुरु सुप्रभातम् ॥ २३॥ श्रीपार्वती-हृदय-वल्लभ पञ्च-वक्त्र श्रीनील-कण्ठ नृ-कपाल-कलाप-माल । श्रीविश्वनाथ मृदु-पङ्कज-मञ्जु-पाद वाराणसीपुरपते कुरु सुप्रभातम् ॥ २४॥ दुग्ध-प्रवाह-कमनीय-तरङ्ग-भङ्गे पुण्य-प्रवाह-परिपावित-भक्त-सङ्गे । नित्यं तपस्वि-जन-सेवित-पाद-पद्मे गङ्गे शरण्य-शिवदे कुरु सुप्रभातम् ॥ २५॥ सानन्दमानन्द-वने वसन्तं आनन्द-कन्दं हत-पाप-वृन्दम् । वाराणसी-नाथमनाथ-नाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ २६॥