अक्षर आकार:

श्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम्

Shri Kashivishvesvara Stotram or Shri Dinakrandanam

श्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम्

ॐ श्रीगणेशाय नमः । चुण्ठीजलैरिव सुखैः परिणामदुःखैः आस्वादितैरपि मनागविलुप्ततृष्णः । श्रान्तोऽस्मि हा भवमरौ सुचिरं चरित्वा तच्छायया चरणयोः शिव मां भजेथाः ॥ १॥ दुर्वारसंसृतिरुजा भृशकान्दिशीकः त्वामोषधीपतिभृतं सुकृतैरवाप्य । आवेदयामि यदहं तव तन्निदानं तत्रावधेहि मृड मा कुरु मय्यवज्ञाम् ॥ २॥ दुर्वासनाशतवशादशुचित्वमीक्ष्य या मे हठात्कृतवती मनसि प्रवेशम् । साऽनेकजन्ममरणावटपातनेन मां राक्षसीव बहु नाथ तुदत्यविद्या ॥ ३॥ घोरे क्षणं विनिपतन्नरके क्षणं च पुण्यं पदं दिविषदां सहसाऽधिरोहन् । मोहेन कन्दुकदशामिव नीयमानः स्वामिन् सहे किमवधीनि गतागतानि ॥ ४॥ का मे गतिर्विशति नैव मनो विवेकः स्वप्नेऽपि पक्कणमिव प्रवरो द्विजानाम् । रुद्धेऽपि तत्र न स रोढुमलं मुहूर्तं विश्वेश मौक्तिकमिवोपरि दर्पणस्य ॥ ५॥ पित्रोर्जघन्यरसबिन्दुयुगं गृहीत्वा हन्तासकृत्पतितवानधिगर्भवासम् । तद्दुःखमन्वभवमीश गभीरकुम्भी- पाको वराक इति यस्य पुरो गृणन्ति ॥ ६॥ तत्र स्थितस्तदनु तत्तदनेकपूर्व- जन्मान्तरस्मरणविस्मयदुःखितात्मा । अस्मान्निसृत्य पुनरुद्भवभङ्गहेतोः चेतो विधास्य इति चाकरवं प्रतिज्ञाम् ॥ ७॥ तेनाध्वनाथ निसृतोऽस्मि ततः स्मृतेऽपि यस्मिन्निकाममभिमानधनास्त्रपन्ते । संस्पर्शतस्तु शतशः शितिकर्मवायोः प्रायो निगूढदृढमूढदशामवापम् ॥ ८॥ तिर्यग्दशामिव शनैरविवेकसेकात् वर्षाण्यवाप्य परमेश्वर पञ्चषाणि । तत्तत्कृतं पतदपि स्मृतिसीम्नि यद्यत् सद्यो ह्रियं जडधियोऽपि हृदि प्रसूते ॥ ९॥ आसाद्य यौवनमथो बहुभिः प्रकारैः श‍ृङ्गारभङ्ग्यनुगुणैर्गुणिताविवेकः । जातोऽस्मि घोरनरकावहकर्मयोगात् भोगाशया प्रशमितोभयलोकशुद्धिः ॥ १०॥ मोहात्कृतः परिणयोऽप्यनयो महीयान् मूलं समस्तभवबन्धनदुर्गतीनाम् । यस्मादुदेत्य दुरपत्यजनेन सृष्ट- स्नेहोऽस्मि वेष्टीत इवोत्कटनागपाशैः ॥ ११॥ तत्पोषणाय विदुषाऽपि मया समस्तं औचित्यमुज्झितवताऽऽत्तवता कुकृत्यम् । द्वारि श्ववल्लडितमेव कदीश्वराणां सोढावमानशतविक्लवमानसेन ॥ १२॥ प्राणाधिकैरथ वियोगमवाप्य तैस्तैः इष्टैररुन्तुदविषादवशंवदेन (मया)। स्त्रीवन्मया विलपितं विहितं न किञ्चित् कृत्यं सतां समुचितं हहहा हतोऽस्मि ॥ १३॥ सांसारिकेषु विषयेषु निपत्य राग- द्वेषैकनिष्ठहृदयो भगवन्नभूवम् । आसीददन्तकभयप्रतिकूलवृत्ति किञ्चिन्मया न रचितं विदितं न वापि ॥ १४॥ इत्थं न किं व्यवहृतं न किमुक्तमात्तं किं वा न किं न कलितं ललितं न वापि । सर्वत्र तत्र शरणं कृपणस्य मे त्वं एह्योहि देहि चरणं शिरसीन्दुमौले ॥ १५॥ याः प्रोत्कटा भ्रुकुटयो यमकिङ्कराणां पीडाश्च या नवनवा नरकावनीपु । ताश्चिन्तिता अपि भयाय ममाधुनैव सोढास्मि ताः कथमहो विषमो विषादः ॥ १६॥ भीतोऽस्मि दुर्गततमोऽस्मि कदर्थितोऽस्मि पापोऽस्मि विस्मृतसदध्वपरिग्रहोऽस्मि । तत्केन केन न पथास्मि कृपाऽऽस्पदं ते मत्वेति शङ्कर यथोचितमाचरेथाः ॥ १७॥ नो यत्र बन्धुरथ नैव पिता न माता नो वा सुहृद्धृतिमुपेत्य विधातुमीष्टे । तास्वेत्य नाथ मम नारकभूषु कुर्याः त्राणं त्वमेव हि जगत्सु दयार्द्रचेताः ॥ १८॥ भ्रष्टोऽस्मि यद्यापि सतां चरितात्तथापि मां त्रातुमर्हसि कृतान्ताभिया श्रयन्तम् । प्रेह्वेषु विह्वलतया शरणागतेषु नो साधवो विदधते सदसद्विवेकम् ॥ १९॥ येष्वन्धकारनिकरेण करालिता भूः यत्र ज्वलन्ति नरकेष्वनिशं हुताशाः । धामत्रयीनयन निर्जरसिन्धुमूर्धन् तत्रेतरस्त्वमिव कः शरणं नराणाम् ॥ २०॥ प्राग्यावदिन्द्रियगणः पटुशक्तिरासीत् स्वामिन् स तावदगमद्विषयेषु निष्ठाम् । शक्तिक्षयेऽद्य स कथं भजते भवन्तं जन्मेति मे विफलमीश किमाः करोमि ॥ २१॥ नादायि दानमथ नैव तपो व्यधायि नासेवि तीर्थदिगसाध्यतरः समाधिः । तत्काऽपरत्र गतिरस्त्यनवाप्तपुण्य- ज्ञानस्य मे भव भवत्स्मृतिमन्तरेण ॥ २२॥ कालान्न मे भयमथो कनके न लिप्सा नैवास्मि शैशववशेन पयः पिपासुः । त्वद्दर्शनाय तु शिव स्पृहयामि लोभात् तत्रापि किं तव न वा सुकरः प्रकारः ॥ २३॥ यज्जन्म दुर्लभमुशन्ति मनुष्यलोके तत्प्राप्तमप्यतनुपूर्वशुभप्रभावात् । जातं वृथैव मम यत्र मुहुः कदाऽपि नैवान्वभावि भवदर्चनभक्तिसौख्यम् ॥ २४॥ जातिर्महेश्वर भुजङ्गमपुङ्गवानां स्तुत्या वरं भवदलङ्कृतिवाहकृत्यैः । मानुष्यकं तु मम धिक्कलया कयापि यन्नोपयोगमगमत्त्वयि मच्छिरीरम् ॥ २५॥ शश्वद्भृशव्यसनितामपि मेऽवधार्य धत्से कथं परमकारुणिकोऽप्यवज्ञाम् । किं नाथ पश्यसि न यत्परिहृत्य शङ्कां लग्नोऽनिशं शिव शिवेति मम प्रलापः ॥ २६॥ रक्तार्द्रचर्मवसनाय महास्मशान- धाम्नेऽस्थिभूषणवते फणिकङ्कणाय । रक्षःपिशाचसचिवाय बलिं प्रयामः रूपाय ते हर युगान्तनिशाचराय ॥ २७॥ दिव्योत्तरीयभृति कौस्तुभरत्नभाजि देवेऽपरे दधतु लुब्धधियोऽनुबन्धम् । रूपं दिगम्बरमखण्डनृमुण्डचूडं भावत्कमेव तु बतेश मम स्पृहायै ॥ २८॥ जीवामि चेदथ पृथुप्रियविप्रयोग- रोगादयो नरकदुःखभियोऽन्यथाऽपि । घ्नन्त्येव मामुभयथाऽप्यसुखोऽहमित्थं अत्रोचितं हर चर स्वकृपालुतायाः ॥ २९॥ यत्रेन्द्रियाणि विरमन्ति निजक्रियाभ्यः यात्यान्तरोऽपि करणप्रसरोऽवसादम् । प्राणास्त्रुटन्ति च समस्तनिराशभूतं मामेत्य शङ्कर कुतोऽपि तदा दयेथाः ॥ ३०॥ स्वाशेषपूर्वदुरितस्मरणादुदेति यत्रासमं भयमसुप्रशमप्रसङ्गे । कः कान्दिशीकमनसः शरणं तदा मे स्वामिंस्तवैव समयः स कृपालुतायाः ॥ ३१॥ अद्यैव यामि शरणं परमेश्वर त्वां शक्ष्यामि किं तनु तदाऽऽहतसर्वशक्तिः । मृत्युर्यदा मम भयाय पतत्यकस्मात् अन्धस्य वक्त्र इव हस्ततलप्रहारः ॥ ३२॥ आर्तिक्षणे सपदि विस्मर तात मातः इत्यादिकं च विफलं कृपणापलापम् । शर्वेश शङ्कर शिवेति नुतिं भजस्व जिह्वे यतो विघटतेऽखिलदुःखभारः ॥ ३३॥ स्वास्थ्ये मदात्कति न दुश्चरितानि नाम नाथ व्यधां गतविवेकतया विशङ्कः । संस्मृत्य मृत्युभयमद्य तु विह्वलोऽस्मि श्रीकण्ठ भोक्तुमपि येन न पारयामि ॥ ३४॥ पूर्वं न चेद्विरचिता तव देव सेवा तेनैव नैव दयसे श्रयतो ममार्तिम् । किं प्रागसंस्तुत इति प्रतिपन्नमूल- च्छायं गतश्रमरुजं न तरुः करोति ॥ ३५॥ ज्ञानप्रकाशसुलभं शिव दर्शनं ते जात्यन्धतैव च परं मम तद्वियोगात् । तत्तां त्वमेव किल कामपि देहि युक्तिं व्यक्तिं ययैष्यसि मम श्रममन्तरेण ॥ ३६॥ प्राप्येदृशीमपि मनुष्यदशां न पुण्ये ज्ञानेऽथवा विधिहतोऽप्यगमं प्रतिष्ठाम् ॥ सामग्र्यसावथ कुतः पुनरप्यतो मां स्वामिन्नधन्यमनुकम्पितुमर्हसि त्वम् ॥ ३७॥ लीनेन भूरि विषयाध्वनि सौख्यलोभात् नामापि मोहितधिया कलितं न मृत्योः । आसिदतः सपदि तद्भयतो मया किं शक्यं विधातुमहहा महदाकुलोऽस्मि ॥ ३८॥ या विक्रिया यमभटभ्रुकुटिच्छटानां पीडाश्च या नवनवा नरकावनीषु । ता निर्विशन् भव कथं भवितास्म्यमुत्र कुत्र व्रजामि शरणं कतरं प्रपद्ये ॥ ३९॥ स्मृत्वाऽप्यहो रविज किङ्कृतहुङ्कृतीनां मुह्यामि यामि विलयं भयविह्वलात्मा । आसन्नमेवमहहा विषमं पुरस्तात् तत्का गतिर्मम कुकर्मनिमग्नवृत्तेः ॥ ४०॥ आसन्नपापशतसम्भृतघोरपीडः क्रन्दाम्यनन्यगतिकत्ववशात्पुरस्ते । तस्मात्कथं न दयसे त्वरितं कुतश्चित् आगत्य विश्वमय सान्त्वय मां वराकम् ॥ ४१॥ पश्यन् समानवयसोऽपि यवीयसोऽपि नक्तन्दिवं यमभटैरपि नीयमानान् । आत्मन्यभूवमजरामरताभिमानी यद्विप्लवादकरवं न शुभं कदाचित् ॥ ४२॥ द्वारे लुठामि करुणं प्रलपामि शम्भो वाञ्छामि चुम्बितुमथो परिरभ्य च त्वाम् । वातूलतामुपगतोऽस्मि तवानुरागात् हा दुःसहस्त्वयि ममैष दृढोऽनुरागः ॥ ४३॥ कण्ठेऽर्पयत्युरगपाशमसूयया मे यामिन्यधीशशिख यत्समये कृतान्तः । नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥ ४४॥ चित्तं न पारदमिव क्षणमुज्झतीदं चाञ्चल्यविप्लवमयुक्तिविदः प्रभो मे । तस्मात्कथं भवति भक्तिरसस्य सिद्धिः कस्तां विना च भवघोरविपद्विनाशः ॥ ४५॥ स्वामिन्ननुद्गतविवेकलवोऽकृतात्मा तिर्यग्वदेव दिवसानतिवाहयामि । नेता क्षणाच्च वशमन्तकसौनिको मां आशैव तन्मम कुतः सुगतिप्रसक्त्यै ॥ ४६॥ दुःस्वप्न एष विषमो भवदुःखनामा स्वामिन् कथं त्यजति मां विगतप्रबोधम् । यस्मान्ममानवरतश्रुतभूरिशास्त्र- तूर्यस्वनैरपि न शाम्यति मोहनिद्रा ॥ ४७॥ कृत्वा पापमसावपोष्यत निजः कायो न दीनो जनः वैवश्याल्लुठितं चिरं चरणयोः स्त्रीणां गुरूणां न तु । लोभोऽकारि मया धने न सुकृते तेनानुतप्ये महत् किं शक्यं मम तत्र कर्तुमधुना नाथ त्वमेका गतिः ॥ ४८॥ अहं पापी पापक्षपणनिपुणः शङ्कर भवान् अहं भीतो भीताभयवितरणे ते व्यसनिता । अहं दीनो दीनोद्धरणविधिसज्जस्त्वमितरत् न जानेऽहं वक्तुं कुरु सकलशोच्ये मयि दयाम् ॥ ४९॥ इति परिहृतवान् स्वकाव्यशिल्प- प्रकटनमाकुलितो भवव्यथाभिः । व्यधित गिरिश रम्यदेवजन्मा तव पुरतो हठदैन्यतः प्रलापान् ॥ ५०॥ एतत्तीव्रं व्रतमुपचितं सैकते सिद्धसिन्धोः वाराणस्यां शमदमदृशोरेष गाढोऽनुबन्धः । दीनाक्रन्दं प्रति पशुपतेरुद्यमश्चाटुकानि त्यक्त्वा राज्ञां बत मम शुभैस्तन्यते धन्यतेयम् ॥ ५१॥ अभ्रंशे जन्म वंशे सुमहति विहितो वाङ्मयाब्धौ हनूमत्- संरम्भो दानभोगौ तदनु च रचितौ किञ्चिदौचित्यरीत्या । ज्ञात्वा तत्त्वं यतित्वं श्रितमथ मथिता संसृतिर्दुर्निवारा वाराणस्यां प्रसन्ना स्थितिरिति कृतिनः किं न मे नाम सिद्धम् ॥ ५२॥ ईर्ष्यायै परवादिनां कविकलाकान्ता यतिं मामियं यच्चुम्बत्यधुनापि तन्मयि भवत्यब्रह्मचर्यं न किम् । एतावत्स्खलितं क्षमस्व भगवन् भूयोऽपि तुभ्यं शपे श्रीविश्वेश्वर देव नैव भवितास्म्यस्या रहस्यातिथिः ॥ ५३॥ नासत्यव्यतिरेकतोऽक्षरमपि प्रायुङ्क्त यद्भारती नैवान्यत्परबाधतो यदसकृत्सञ्चिन्तितं चेतसा । नाकृत्यादितरत्र गात्रमतनोच्चेष्टां यथेष्टं च यत् सर्वत्रापि मया त्वमेव शरणं तत्राश्रितो धूर्जटे ॥ ५४॥ इति श्रीलोष्टदेवकृतं श्रीदीनाक्रन्दनं नाम काशीविश्वेश्वरस्तोत्रं सम्पूर्णम् । ॐ तत् सत् ।