अक्षर आकार:

श्रीकाशीविश्वेश्वरादिस्तोत्रम्

shrIkAshIvishveshvarAdistotram

श्रीकाशीविश्वेश्वरादिस्तोत्रम्

श्रीगणेशाय नमः ॥ नमः श्रीविश्वनाथाय देववन्द्यपदाय ते । काशीशेशावतारे मे देवदेव ह्युपादिश ॥ १॥ मायाधीशं महात्मानं सर्वकारणकारणम् । वन्दे तं माधवं देवं यः काशीं चाधितिष्ठति ॥ २॥ वन्दे तं धर्मगोप्तारं सर्वगुह्यार्थवेदिनम् । गणदेवं ढुण्ढिराजं तं महान्तं स्वविघ्नहम् ॥ ३॥ भारं वोढुं स्वभक्तानां यो योगं प्राप्त उत्तमम् । तं सढुण्ढिं दण्डपाणिं वन्दे गङ्गातटस्थितम् ॥ ४॥ भैरवं दंष्ट्राकरालं भक्ताभयकरं भजे । दुष्टदण्डशूलशीर्षधरं वामाध्वचारिणम् ॥ ५॥ श्रीकाशीं पापशमनीं दमनीं दुष्टचेतसः । स्वनिःश्रेणिं चाविमुक्तपुरीं मर्त्यहितां भजे ॥ ६॥ नमामि चतुराराध्यां सदाऽणिम्नि स्थितिं गुहाम् । श्रीगङ्गे भैरवीं दूरीकुरु कल्याणि यातनाम् ॥ ७॥ भवानि रक्षान्नपूर्णे सद्वर्णितगुणेऽम्बिके । देवर्षिवन्द्याम्बुमणिकर्णिकां मोक्षदां भजे ॥ ८॥ इति काशीविश्वेश्वरादिस्तोत्रं सम्पूर्णम् ।