अक्षर आकार:

श्रीकामेश्वरस्तोत्रम्

shrIkAmeshvarastotram

श्रीकामेश्वरस्तोत्रम्

श्रीगणेशाय नमः ॥ ककाररूपाय करात्तपाशसृणीक्षुपुष्पाय कलेश्वराय । काकोदरस्रग्विलसद्गलाय कामेश्वरायास्तु नतेः सहस्रम् ॥ १॥ कनत्सुवर्णाभजटाधराय सनत्कुमारादिसुनीडिताय । नमत्कलादानधुरन्धराय कामेश्वरायास्तु नतेः सहस्रम् ॥ २॥ कराम्बुजातम्रदिमावधूतप्रवालगर्वाय दयामयाय । दारिद्र्यदावामृतवृष्टये ते कामेश्वरायास्तु नतेः सहस्रम् ॥ ३॥ कल्याणशैलेषुधयेऽहिराजगुणाय लक्ष्मीधवसायकाय । पृथ्वीरथायागमसैन्धवाय कामेश्वरायास्तु नतेः सहस्रम् ॥ ४॥ कल्याय बल्याशरसङ्घभेदे तुल्या न सन्त्येव हि यस्य लोके । शल्यापहर्त्रै विनतस्य तस्मै कामेश्वरायास्तु नतेः सहस्रम् ॥ ५॥ कान्ताय शैलाधिपतेः सुतायाः धटोद्भवात्रेयमुखार्चिताय । अघौघविध्वंसनपण्डिताय कामेश्वरायास्तु नतेः सहस्रम् ॥ ६॥ कामारये काङ्क्षितदाय शीघ्रं त्रात्रे सुराणां निखिलाद्भयाच्च । चलत्फणीन्द्रश्रितकन्धराय कामेश्वरायास्तु नतेः सहस्रम् ॥ ७॥ कालान्तकाय प्रणतार्तिहन्त्रे तुलाविहीनास्यसरोरुहाय । निजाङ्गसौन्दर्यजिताङ्गजाय कामेश्वरायास्तु नतेः सहस्रम् ॥ ८॥ कैलासवासादरमानसाय कैवल्यदाय प्रणतव्रजस्य । पदाम्बुजानम्रसुरेश्वराय कामेश्वरायास्तु नतेः सहस्रम् ॥ ९॥ हतारिषट्कैरनुभूयमाननिजस्वरूपाय निरामयाय । निराकृतानेकविधामयाय कामेश्वरायास्तु नतेः सहस्रम् ॥ १०॥ हतासुराय प्रणतेष्टदाय प्रभाविनिर्धूतजपासुमाय । प्रकर्षदाय प्रणमज्जनानां कामेश्वरायास्तु नतेः सहस्रम् ॥ ११॥ हराय ताराधिपशेखराय तमालसङ्काशगलोज्ज्वलाय । तापत्रयाम्भोनिधिवाडवाय कामेश्वरायास्तु नतेः सहस्रम् ॥ १२॥ हृद्यानि पद्यानि विनिःसरन्ति मुखाम्बुजाद्यत्पदपूजकानाम् । विना प्रयत्नं कमपीह तस्मै कामेश्वरायास्तु नतेः सहस्रम् ॥ १३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीकामेश्वरस्तोत्रं सम्पूर्णम् ।