अक्षर आकार:

श्रीकालभैरवपञ्चरत्नस्तुतिः

Shri Kalabhairavapancharatnastutih

श्रीकालभैरवपञ्चरत्नस्तुतिः

खङ्गं कपालं डमरुं त्रिशूलं हस्ताम्बुजे सन्दधतं त्रिणेत्रम् । दिगम्बरं भस्मविभूषिताङ्गं नमाम्यहं भैरवमिन्दुचूडम् ॥ १॥ कवित्वदं सत्वरमेव मोदान्नतालये शम्भुमनोऽभिरामम् । नमामि यानीकृतसारमेयं भवाब्धिपारं गमयन्तमाशु ॥ २॥ जरादिदुःखौघविभेददक्षं विरागिसंसेव्यपदारविन्दम् । नराधिपत्वप्रदमाशु नन्त्रे सुराधिपं भैरवमानतोऽस्मि ॥ ३॥ शमादिसम्पत्प्रदमानतेभ्यो रमाधवाद्यर्चितपादपद्मम् । समाधिनिष्ठैस्तरसाधिगम्यं नमाम्यहं भैरवमादिनाथम् ॥ ४॥ गिरामगम्यं मनसोऽपि दूरं चराचरस्य प्रभवादिहेतुम् । कराक्षिपच्छून्यमथापि रम्यं परावरं भैरवमानतोऽस्मि ॥ ५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीकालभैरवपञ्चरत्नस्तुतिः सम्पूर्णा ।